भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 575, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 575

५१६ | रघुवंशमहाकाव्ये

वृते प्रवृत्तः । यत्र मखे विहन्यन्त एभिरिति विघ्नाः प्रत्यूहाः । "घञर्थे कविधानम्" इति कः । क्रियाविघ्ना अनुष्ठानविघातका राक्षसा एव रक्षिणो रक्षका आसन् । भाषार्थ— इस प्रकार वह यज्ञ आरम्भ हुआ जिसमें आवश्यकता से अधिक तो सामग्री इकट्ठी हुई थी और विशेषता यह थी कि यज्ञ क्रिया में विघ्न करने वाले राक्षस ही उसकी रखवाली कर रहे थे ॥ ६२ ॥

अथ प्राचेतसोपज्ञं रामायणमितस्ततः । मैथिलेयौ कुशलवौ जगतुर्गुरुचोदितौ ॥ ६३ ॥

अन्वयः— अथ मैथिलेयौ कुशलवौ गुरुचोदितौ प्राचेतसोपज्ञं रामायणं इत- स्ततः जगतुः ।

अथेति । अथ मैथिलेयौ मैथिलीतनयौ । "स्त्रीभ्यो ढक्" । कुशलवौ गुरुणा वाल्मीकिना चोदितौ प्रेरितौ सन्तौ । प्राचेतसो वाल्मीकिः । उपज्ञायत इत्युपज्ञा । "आतश्चोपसर्गे" इति कर्मण्यङ्प्रत्ययः । प्राचेतसस्योपज्ञा प्राचेतसोपज्ञम् । प्राचेत- सनादौ ज्ञातमित्यर्थः । 'उपज्ञा ज्ञानमाद्यं स्यात्' इत्यमरः । "उपज्ञोपक्रमं तदा- द्याचिख्यासायाम्" इति नपुंसकतवम् । अय्यते ज्ञायतेऽनेनेत्ययनं रामस्यायनं चरितं रामायणं रामायणाख्यं काव्यम् । "पूर्वपदात्संज्ञायामगः" इति णत्वम् । उत्तरा- यणमितिवत् । इतस्ततो जगतुः । गायतेर्लिट् ।

भाषार्थ— इसके बाद वाल्मीकि मुनि की आज्ञा से मिथिलेश कुमारी सीता के पुत्र लव और कुश वाल्मीकि की प्रथम रचना रामायण को गाते हुए इधर- उधर घूमने लगे ॥ ६३ ॥

वृत्तं रामस्य वाल्मीकेः कृतिस्तौ किन्नरस्वनौ । किं तद्येन मनो हर्तुमलं स्यातां न शृण्वताम् ॥ ६४ ॥

अन्वयः— रामस्य वृत्तं वाल्मीकेः कृतिः तौ किन्नरस्वनौ तत् किं येन ( तौ ) शृण्वतां मनः हर्तुम् अलं न स्याताम् ।

वृत्तमिति । रामस्य वृत्तं वर्ण्यं वस्त्विति शेषः । वाल्मीकेः कृतिः काव्यं गेयमिति शेषः । तौ कुशलवौ किन्नरस्वनौ किन्नरकण्ठौ गायकौ पुनरिति शेषः । अत एव तत्कि येन निमित्तेन तौ शृण्वतां मनो हर्तु'मलं शक्तौ न स्याताम् । सर्वं सरसमित्यर्थः ।

भाषार्थ— एक तो राम का पवित्र चरित्र, उस पर वाल्मीकि जी उसके रच- यिता और फिर किन्नरों के समान मधुर कण्ठ वाले बालक लव एवं कुश उसके

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या) · पृष्ठ 575, कुल 735 में से · BharatKosha