रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 583, कुल 735 में से
संदर्भ में पढ़ें५२५ रघुवंशमहाकाव्ये
यह कह कर धनुर्धारी रामको शान्त किया कि विधि के विधान को कोई टाल नहीं सकता ॥ ८५ ॥
ऋषीन्विसृज्य यज्ञान्ते सुहृदश्च पुरस्कृतान् । रामः सीतागतं स्नेहं निदधे तदपत्ययोः ॥ ८६ ॥
अन्वयः—रामः यज्ञान्ते पुरस्कृतान् ऋषीन् सुहृदः च विसृज्य सीतागतं स्नेहं तदपत्ययोः निदधे ।
ऋषीनिति । रामो यज्ञान्ते पुरस्कृतान्पूजितान्ऋषीन्वाल्मीक्यादीन्सुहृदश्च विभीषणादीन् विसृज्य सीतागतं स्नेहं तदपत्ययोः कुशलवयोर्र्निदधे ।
भाषार्थ—किसी प्रकार यज्ञ समाप्त हुआ, अन्त में राम ने ऋषि और मित्रों को सत्कार करके विदा किया, अब वे पुत्रों से उतना ही प्रेम करने लगे जितना सीता से करते थे ॥ ८६ ॥
युधाजितश्च संदेशात् देशं सिन्धुनामकम् । ददौ दत्तप्रभावाय भरताय भृतप्रजः ॥ ८७ ॥
अन्वयः—भृतप्रजः सः युधाजितः सन्देशात् सिन्धुनामकं देशं दत्तप्रभावाय भरताय ददौ ।
युधाजित इति । किं च भृतप्रजः सः रामो युधाजितो भरतमातुलस्य संदेशात्सिन्धुनामकं देशं दत्तप्रभावाय दत्तैश्वर्याय । रामेणेति शेषः । भरताय ददौ ।
भाषार्थ—प्रजापालक राम ने भरत के मामा युधाजित् के कहने पर सिन्धु का राज्य प्रभावशाली भरत को दे दिया ॥ ८७ ॥
भरतस्तत्र गन्धर्वान्युधि निर्जित्य केवलम् । आतोद्यं ग्राहयामास समत्याजयदायुधम् ॥ ८८ ॥
अन्वयः—तत्र भरतः युधि गन्धर्वान् निर्जित्य केवलम् आतोद्यं ग्राहयामास, आयुधं समत्याजयत् ।
भरत इति । तत्र सिन्धुदेशे भरतोऽपि युधि गन्धर्वान्निर्जित्य केवलमेकमातोद्यं वीणाम् । 'ततं वीणादिकं वाद्यनद्धं मुरजादिकम् । वंशादिकं तु सुषिरं कांस्यतालादिकं घनम् ।। चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम् ।।' इत्यमरः । ग्राहयामास । आयुधं समत्याजयत्त्याजितवान् । ग्राहिस्त्यज्योर्ण्यन्तयोर्द्विकर्मकत्वं नित्यमित्यनुसन्धेयम् ।
भाषार्थ—भरत ने गन्धर्वों को जीत कर उनके हाथ में केवल वीणा तो रहने दी किन्तु धनुष छुड़वा दिया ॥ ८८ ॥