रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 586, कुल 735 में से
संदर्भ में पढ़ेंपञ्चदशः सर्गः ५२७
**अन्वयः—**योगवित् स सरयूतीरं गत्वा देहत्यागेन पूर्वजन्मनः भ्रातुः प्रतिज्ञां वितथां चकार ।
स इति । योगविद्योगमार्गवेदी स लक्ष्मणः सरयूतीरं गत्वा देहत्यागेन पूर्वजन्मनो भ्रातुः प्रतिज्ञामवितथां सत्यां चकार ।
**भाषार्थ—**वहाँ से लौटकर योगमार्ग के जानने वाले लक्ष्मण ने सरयू के किनारे जाकर योग बल से अपने शरीर को छोड़कर अपने बड़े भाई राम की प्रतिज्ञा की रक्षा कर ली ॥ ९५ ॥
तस्मिन्नात्मचतुर्भागे प्राङ्नाकमधितस्थुषि । राघवः शिथिलं तस्थौ भुवि धर्मस्त्रिपादिव ॥ ९६ ॥
**अन्वयः—**आत्मचतुर्भागे तस्मिन् प्राङ्नाकमधितस्थुषि राघवः भुवि त्रिपाद् धर्म इव शिथिलं तस्थौ ।
तस्मिन्निति । चतुर्थो भागश्चतुर्भागः । संख्याशब्दस्य वृत्तिविषये पूरणार्थत्वं शतांशवत् । आत्मचतुर्भागे तस्मिल्लक्ष्मणे प्राङ्नाकमधितस्थुषि पूर्वं स्वर्गं जग्मुषि सति राघवो रामः भुवि त्रिपाद्धर्म इव शिथिलं तस्थौ । पादविकलो हि शिथिलं तिष्ठतीति भावः । त्रेतायां धर्मस्त्रिपादित्याहुः । पादश्चतुर्थांशः अंघ्रिश्च ध्वन्यते । ‘पादा रश्म्यङ्घ्रितुर्यांशाः’ इत्यमरः । त्रयः पादा यस्यासौ त्रिपात् । “संख्यासुपूर्वस्य” इत्यकारलोपः । समासान्तः ।
**भाषार्थ—**अपने चतुर्थांश लक्ष्मण के स्वर्ग चले जाने पर राम उसी प्रकार शिथिल पड़ गये जिस प्रकार पृथ्वी पर त्रेतायुग में तीन पैर वाला धर्म शिथिल पड़ जाता है ॥ ९६ ॥
स निवेश्य कुशावत्यां रिपुनागाङ्कुशं कुशम् । शरावत्यां सतां सूक्तैर्जनिताश्रुलवं लवम् ॥ ९७ ॥ उदक्प्रतस्थे स्थिरधीः सानुजोऽग्निपुरःसरः । अन्वितः पतिवात्सल्याद् गृहवर्जमयोध्यया ॥ ९८ ॥
अन्वयः—( स्थिरधीः ) सः रिपुनागाङ्कुशं कुशं कुशावत्यां निवेश्य सूक्तैः सतां जनिताश्रुलवं लवं शरावत्यां निवेश्य ।
**अन्वयः—**स्थिरधीः सानुजः अग्निपुरःसरः ( सन् ) पतिवात्सल्यात् गृहवर्जम् अयोध्शया अन्वित उदक् प्रतस्थे ।
स इति । उदगिति च । युग्मम् । स्थिरधीः स रामः रिपव एव नागा गजास्तेषामङ्कुशं निवारकं कुशं कुशावत्यां पुर्यां निवेश्य स्थापयित्वा सूक्तैः