रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 597, कुल 735 में से
संदर्भ में पढ़ें| ५३८ | रघुवंशमहाकाव्ये |
|---|
अन्वयः—विलासिनीभिः सदयं शाखा आवर्ज्य यासां पुष्पाणि उपात्तानि ता एव मदीयाः उद्यानलताः वन्यैः पुलिन्दैः इव वानरैः क्लिश्यन्ते ।
आवर्ज्येति । किंच विलासिनीभिः सदयं शाखा लतावयवानावर्ज्यनमय्य यासां लतानां पुष्पाण्युपात्तानि गृहीतानि ता मदीया उद्यानलताः वन्यैः पुलिन्दैम्लेंच्छविशेषैरिव वानरैः उभयैरपीत्यर्थः । क्लिश्यन्ते पीड्यन्ते । क्लिश्नातेः कर्मणि लट् । 'भेदाः किरातशबरपुलिन्दा म्लेच्छजातयः' इत्यमरः ।
भाषार्थ—पहले उद्यान को जिन लताओं को टूटने के भय से धीरे से झुकाकर सुन्दरी स्त्रियां फूल उतारा करती थीं उन मेरी प्यारी लताओं को जङ्गली कोलभीलों के समान उत्पाती बन्दर झकझोर डालते हैं ॥ १९ ॥
रात्रावनाविष्कृतदीपभासः कान्तामुखश्रीवियुता दिवापि ।
तिरस्क्रियन्ते कृमितन्तुजालैर्विच्छिन्नधूमप्रसरा गवाक्षाः ॥ २० ॥
अन्वयः—रात्रौ अनाविष्कृतदीपभासः दिवा अपि कान्तामुखश्रीवियुताः विच्छिन्नधूमप्रसराः गवाक्षाः कृमितन्तुजालैः तिरस्क्रियन्ते ।
रात्राविति । रात्रावनाविष्कृतदीपभासः अप्रकटीकृतदीपदीप्तयः दीपप्रभाशून्या इत्यर्थः । दिवापि दिवसेऽपि कान्तामुखानां श्रिया कान्त्या वियुता रहिता विच्छिन्नो नष्टो धूमप्रसरो येषां ते गवाक्षाः कृमितन्तुजालैलूतातन्तुवितानैस्तिरस्क्रियन्ते छाद्यन्ते ।
भाषार्थ—आजकल अटारियों के झरोखों से न तो रातको दीपकों की किरणें निकलती हैं न दिन में सुन्दरियों का मुख दिखाई देता है और न कहीं से अगरु का धूंआं ही निकलता है । अब वे झरोखे मकड़ियों के जालों से ढँक गये हैं ॥२०॥
बलिक्रियावर्जितसैकतानि स्नानीयसंसर्गमनाप्नुवन्ति ।
उपान्तवानीरगृहाणि दृष्ट्वा शून्यानि दूये सरयूजलानि ॥ २१ ॥
अन्वयः—बलिक्रियावर्जितसैकतानि स्नानीयसंसर्गम् अवाप्नुवन्ति सरयूजलानि शून्यानि उपान्तवानीरगृहाणि दृष्ट्वा दूये ।
बलिक्रियेति । 'बलिः पूजोपहारः स्यात्' इति शाश्वतः । बलिक्रियावर्जितानि सैकतानि येषां तानि स्नानीयानि स्नानसाधनानि चूर्णादीनि । "कृत्यल्युटो बहुलम्" इति करणेऽनीयर्प्रत्ययः । स्नानीयसंसर्गमनाप्नुवन्ति सरयूजलानि शून्यानि रिक्तान्युपान्तेषु वानीरगृहाणि येषां तानि च दृष्ट्वा दूये परितप्ये ।
भाषार्थ—मुझे वह देखकर बड़ा दुःख होता है कि अब न तो सरयू के घाटोंपर देवताओं की बलि दी जाती है और न स्त्रियों के स्नान करने से उसमें से अङ्ग-