रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 596, कुल 735 में से
संदर्भ में पढ़ेंषोडशः सर्गः | ५३७
चित्रित हाथियों के मस्तकों को सिंहों ने हाथी का मस्तक समझ कर उनपर पञ्जा मारकर फाड़ दिया है ॥ १६ ॥
स्तम्भेषु योषित्प्रतियातनानामुत्क्रान्तवर्णक्रमधूसराणाम् ।
स्तनोत्तरीयाणि भवन्ति सङ्गान्निर्मोकपट्टाः फणिभिर्विमुक्ताः ॥ १७ ॥
अन्वयः—उत्क्रान्तवर्णक्रमधूसराणां स्तम्भेषु योषित्प्रतियातनानां फणिभिर्विमुक्ता निर्मोकपट्टाः सङ्गात् स्तनोत्तरीयाणि भवन्ति ।
स्तम्भेष्विति । उत्क्रान्तवर्णक्रमा वशीर्णवर्णविन्यासास्ताश्च धूसराश्च यास्तासां स्तम्भेषु योषित्प्रतियातनानां स्त्रीप्रतिकृतीनां दारुमयीणां फणिभिर्विमुक्ता निर्मोका कंचुका एव पट्टाः । 'समौ कञ्चुकनिर्मोकौ' इत्यमरः । सङ्गात्सक्तत्वात्स्तनोत्तरीयाणि स्तनाच्छादनवस्त्राणि भवन्ति ।
भाषार्थ—जिन बहुत से खम्भों में स्त्रियों की मूर्तियाँ बनी हुई थीं आजकल जगह-जगह रङ्ग उड़ गये हैं उन खम्भों को चन्दन का वृक्ष समझकर जो सांप उनसे लिपटे हैं उनकी केचुले छूटकर उन मूर्तियों से सट गई हैं और वे ऐसी लगती हैं मानों उन चित्रित स्त्रियों ने स्तन ढकने के लिए कोई कपड़ा डाल लिया हो ॥ १७ ॥
कालान्तरश्यामसुधेषु नक्तमितस्ततो रूढतृणाङ्कुरेषु ।
त एव मुक्तागुणशुद्धयोऽपि हर्म्येषु मूर्च्छन्ति न चन्द्रपादाः ॥ १८ ॥
अन्वयः—कालान्तरश्यामसुधेषु इतस्ततः रूढतृणाङ्कुरेषु हर्म्येषु नक्तं मुक्तागुणशुद्धयः अपि ( ततः पूर्वं ये मूर्च्छन्ति स्म ) त एव चन्द्रपादा न मूर्च्छन्ति ।
कालेति । कालान्तरेण कालभेदवशेन श्यामसुधेषु । मलिनचूर्णेष्वितस्ततो रूढतृणाङ्कुरेषु हर्म्येषु गृहेषु नक्तं रात्रौ मुक्तागुणानां शुद्धिरिव शुद्धिः स्वाच्छ्यं येषां तादृशा अपि ततः पूर्वं ये मूर्च्छन्ति स्म त एव चन्द्रपादाश्चन्द्ररश्मयः । 'पादा रश्म्यङ्घ्रितुर्यांशाः' इत्यमरः । न मूर्छन्ति न प्रतिफलन्तीत्यर्थः ।
भाषार्थ—जिन भवनों पर कभी मोती की माला के समान शुभ्र चाँदनी चमका करती थी उनपर अब चाँदनी भी नहीं चमकती क्योंकि बहुत दिनों से मरम्मत न होने के कारण कोठे के चूने का रंग काला पड़ गया है और उनपर जहाँ तहाँ घास जम आई है ॥ १८ ॥
आवर्ज्य शाखाः सदयं च यासां पुष्पाण्युपात्तानि विलासिनीभिः ।
वन्यैः पुलिन्दैरिव वानरैस्ताः क्लिश्यन्त उद्यानलता मदीयाः ॥ १९ ॥