रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 632, कुल 735 में से
संदर्भ में पढ़ेंसप्तदशः सर्गः ५७३
तेऽस्य मुक्तागुणोन्नद्धं मौलिमन्तर्गतस्रजम् ।
प्रत्यूषुः पद्मरागेण प्रभामण्डलशोभिना ॥२३॥
अन्वयः—ते मुक्तागुणोन्नद्धं अन्तर्गतस्रजं अस्य मौलिं प्रभामण्डलशोभिना पद्मरागेण प्रत्यूपुः ।
त इति । ते प्रसाधका मुक्तागुणेन मौक्तिकसरेणोन्नद्धमुद्वद्धमन्तर्गतस्रजमस्यानितिथेर्मौलिन्धम्मिल्लं प्रभामण्डलशोभिना पद्मरागेण माणिक्येन प्रत्युप्तं चक्रुः ।
भावार्थ—फूल और मोतियों की लड़ी से गूंथे हुए राजा अतिथि के शिर पर उन्होंने वह पद्मराग मणि बाँधी जिसकी सुन्दर चमक चारों ओर फैल गई ॥२३॥
चन्दनेनाङ्गरागं च मृगनाभिसुगन्धिना ।
समापय्य ततश्चक्रुः पत्रं विन्यस्तरोचनम् ॥२४॥
अन्वयः—मृगनाभिसुगन्धिना चन्दनेन अङ्गरागं समापय्य ततः विन्यस्तरोचनं पत्रं चक्रुः ।
चन्दनेनेति । किं च मृगनाभ्या कस्तूरिकया सुगन्धिना चन्दनेनाङ्गरागमङ्गविलेपनं समापय्य समाप्य ततोऽनन्तरं विन्यस्ता रोचना गोरोचना यस्मिंस्तत्पत्रं चक्रुः ।
भावार्थ—बाद में सिङ्गारियों ने कस्तूरी में बासे हुए चन्दन का सुगन्धित अङ्गराग लगा कर गोरोचन से मुख पर रचना की ॥ २४ ॥
आमुक्ताभरणः स्रग्वी हंसचिह्नदुकूलवान् ।
आसीदतिशयप्रेक्ष्यः स राज्यश्रीवधूवरः ॥२५॥
अन्वयः—आमुक्ताभरणः स्रग्वी हंसचिह्नदुकूलवान् राज्यश्रीवधूवरः सः अतिशयप्रेक्ष्यः आसीत् ।
आमुक्तेति । आमुक्ताभरण आसञ्जिताभरणः स्रजोऽस्यास्तीति स्रग्वी । "अस्मयामेधास्रजो विनिः" इति विनिप्रत्ययः । हंसाश्चिह्नमस्येति हंसचिह्नं यद् दुकूलं तद्वान् । अत्र बहुव्रीहिणैवार्थसिद्धेर्मतुब्वानर्थक्येऽपि सर्वधनीत्यादिवत्कर्मधारयादपि मत्वर्थीयं प्रत्ययमिच्छन्ति । एवमन्यत्रापि द्रष्टव्यम् । राज्यश्रीरेव वधूर्नंवोढा तस्या वरो वोढा । 'वधूः स्नुषा नवोढा स्त्री वरो जामातृषिङ्गयो' इति विश्वः । सोऽतिथिरतिशयेन प्रेक्ष्या दर्शनीय आसीत् । वरोऽप्येवंविशेषणः ।
भावार्थ—आभूषण और माला पहने हुए, हंस छपा हुआ दुपट्टा ओढ़े हुए राजा अतिथि उस समय ऐसे सुन्दर दिखाई देते थे मानो राज्यलक्ष्मीरूपिणी वधू के दूल्हा हों ॥ २५ ॥