रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 633, कुल 735 में से
संदर्भ में पढ़ें५७४ रघुवंशमहाकाव्ये
नेपथ्यदर्शिनश्छाया तस्यादर्शे हिरण्मये।
विरराजोदिते सूर्ये मेरौ कल्पतरोरिव ॥ २६ ॥
अन्वयः—हिरण्मये आदर्शे नेपथ्यदर्शिनः तस्य छाया उदिते सूर्ये मेरौ कल्पतरोः इव विरराज ।
नेपथ्येति । हिरण्मये सौवर्णे आदर्शे दर्पणे नेपथ्यदर्शिनो वेषं पश्यतस्तस्यातिथेश्च्छाया प्रतिबिम्बम् उदिते दर्पणकल्पे मेरौ यः कल्पतरुस्तस्य छायेव विरराज । तस्य सूर्यसंक्रान्तबिम्बस्य संभवान्मेरावित्युक्तम् ।
भाषार्थ—सुवर्ण के बने दर्पण में जब वे अपनी सजावट देखने लगे उस समय उनका प्रतिबिम्ब ऐसा लग रहा था मानो सूर्योदय के समय सुमेरु पर्वत पर कल्पवृक्ष का प्रतिबिम्ब पड़ रहा हो ॥ २६ ॥
स राजककुद्व्यग्रपाणिभिः पार्श्ववर्तिभिः ।
ययावुदीरितालोकः सुधर्मानवमां सभाम् ॥ २७ ॥
अन्वयः—सः राजककुद्व्यग्रपाणिभिः पार्श्ववर्तिभिः उदीरितालोकः सुधर्मावमां सभां ययौ ।
स इति । सोऽतिथी राजककुदानि राजचिह्नानि छत्रचामरादीनि । ‘प्राधान्ये राजलिङ्गे च वृषाङ्गे ककुदोऽस्त्रियाम्’ इत्यमरः । तेषु व्यग्राः पाणयो येषां तैः पार्श्ववर्तिभिर्जनैरुदीरितालोक उच्चारितजयशब्दः । ‘आलोको जयशब्दः स्यात्’ इति हलायुधः । सुधर्माया देवसभाया अनवमामन्यूनां सभामास्थानीं ययौ । ‘स्यात्सुधर्मा देवसभा’ इत्यमरः ।
भाषार्थ—तब वे राजा अतिथि अपनी उस सभा की ओर चले जो किसी प्रकार भी देवताओं की सभा सुधर्मा से कम नहीं थी, उनके पीछे-पीछे बहुत से सेवक हाथों में राजचिह्न छत्र लिए चमर डुलाते हुए और जय-जयकार करते हुए चल रहे थे ॥ २७ ॥
वितानसहितं तत्र भेजे पैतृकमासनम् ।
चूडामणिभिरुद्घृष्टपादपीठं महीक्षिताम् ॥ २८ ॥
अन्वयः—तत्र वितानसहितं महीक्षितां चूडामणिभिः उद्घृष्टपादपीठम् पैतृकं आसनं भेजे ।
वितानेति । तत्र सभायां वितानेनोल्लोचेन सहितम् । ‘अस्त्री वितानमुल्लोच’ इत्यमरः । महीक्षितां राज्ञां चूडामणिभिः शिरोरत्नैरुद्घृष्टमुल्लिखितं पादपीठं यस्य तत् । पितुरिदं पैतृकम् । "ऋतष्ठन्" इति ठञ्प्रत्ययः । आसनं सिंहासनं भेजे ।