रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 659, कुल 735 में से
संदर्भ में पढ़ें६०० रघुवंशमहाकाव्ये
वशोति । तस्य देवानीकस्य वशी समर्थः सुतोऽहीनगुर्नामेति वक्ष्यमाणनामकः वशं वशकरं मधुरं वदतीति वशंवदः । “प्रियवशे वदः खच्” इति खच्प्रत्ययः । तस्य भावस्तत्त्वम् । तस्मादिष्टवादित्वात्स्वेषामिव द्विषतामपीष्टः प्रिय आसीत् । अथदिवानीकनिर्धारणं लभ्यते । तथाहि प्रत्युक्तमुच्चारितं माधुर्यं सकृदेकवारं विविग्नान्भीतानपि हरिणान्ग्रहीतुं वशीकर्तुमीष्टे शक्नोति ।
**भाषार्थ—**क्षेमधन्वा के जितेन्द्रिय पुत्र देवानीक इतना मधुर बोलते थे कि शत्रु भी उनका वैसा ही आदर करते थे जैसे मित्र, क्योंकि मधुर वचन में ऐसा प्रभाव होता है कि एक बार डराये गए हरिण भी वश में हो जाते हैं ॥ १३ ॥
अहीनगुर्नाम स गां समग्रामहीनबाहुद्रविणः शशास ।
यो हीनसंसर्गपराङ्मुखत्वाद्युवाप्यनर्थैर्व्यसनैर्विहीनः ॥ १४ ॥
**अन्वयः—**अहीनबाहुद्रविणः हीनसंसर्गं पराङ्मुखत्वात् युवा अपि अनर्थैः व्यसनैः विहीनः यः अहीनगुः नाम सः समग्रां शशास ।
अहीनगुरिति । अहीनबाहुद्रविणः । 'द्रविणं काञ्चनं वित्तं द्रविणं च पराक्रमः' इति विश्वः । हीनसंसर्गपराङ्मुखत्वान्नीचसंसर्गविमुखत्वाद्धेतोर्युवाप्यनर्थैरनर्थकरैर्व्यसनैः पानद्यूतादिभिर्विहीनो रहितो योऽहीनगुर्नाम स पूर्वोक्तो देवानीकसुतः समग्रां सर्वां गां भुवं शशास ।
**भाषार्थ—**देवानीक के पुत्र का नाम अहीनगु था । उनकी भुजायें बड़ी शक्तिशाली थीं, उन्होंने कभी नीच लोगों का साथ नहीं किया, इसलिए अनर्थकारी व्यसनों से दूर रहकर वे युवावस्था में ही सारी पृथिवी पर शासन करने लगे ॥ १४ ॥
गुरोः स चानन्तरमन्तरज्ञः पुंसां पुमानाद्य इवावतीर्णः ।
उपक्रमैरस्खलितैश्चतुर्भिश्चतुर्दिगीशश्चतुरो बभूव ॥ १५ ॥
**अन्वयः—**पुंसां अन्तरज्ञः चतुरः सः गुरोः अनन्तरं अवतीर्णः आद्यः पुमान् इव अस्खलितैः चतुर्भिः उपक्रमैः चतुर्दिगीशः बभूव ।
गुरोरिति । पुंसामन्तरज्ञो विशेषज्ञश्चतुरो निपुणः सोऽहीनगुश्च गुरोः पितुरनन्ताम्। अवतीर्णो भुवं प्राप्त आद्यः पुमान्विष्णुरिव अस्खलितैरप्रतिहतैश्चतुर्भिरुपक्रमैः सामाद्युपायैः । 'सामादिभिरुपक्रमैः' इति मनुः । चतुर्दिगीशश्चतसृणां दिशामीशो बभूव ।
**भाषार्थ—**अहीनगु बड़े चतुर थे और सबके मनकी बातें जान लेते थे । पिता के बाद राजा होकर वे सफलता के साथ साम, दाम, दण्ड और भेद का प्रयोग करके शीघ्र ही अवतारधारी विष्णु के समान चारों दिशाओं के स्वामी हो गये ॥१५॥