भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 660, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 660

अष्टादशः सर्गः ६०१

तस्मिन्प्रयाते परलोकयात्रां जेतर्यरीणां तनयं तदीयम्।
उच्चैः शिरस्त्वाज्जितपारियात्रं लक्ष्मीः सिषेवे किल पारियात्रम् ॥१६॥

अन्वयः—अरीणां जेतरि तस्मिन् परलोकयात्रां प्रयाते उच्चैः शिरस्त्वात् जितपारियात्रं तदीयं तनयं लक्ष्मीः सिषेवे किल ।

तस्मिन्निति । अरीणां जेतरि तस्मिन्नहीनगौ परलोकयात्रां प्रयाते प्राप्ते सति उच्चैःशिरस्त्वादुन्नतशिरस्कत्वाज्जितः पारियात्रः कुलशैलविशेषो येन तं पारियात्राख्यं तदीयं तनयं लक्ष्मी राज्यलक्ष्मीः सिषेवे किल ।

भाषार्थ—उस शत्रुविजयी राजा के स्वर्ग चले जाने पर अयोध्या की राजलक्ष्मी उनके प्रतापी पुत्र पारियात्र की सेवा करने लगी, जिन्होंने अपने शिर की ऊँचाई से पारियात्र पर्वत को नीचा दिखा दिया था ॥ १६ ॥

तस्याभवत्सूनुरुदारशीलः शिलः शिलापट्टविशालवक्षाः।
जितारिपक्षोऽपि शिलीमुखैर्यः शालीनतामव्रजदीड्यमानः ॥ १७ ॥

अन्वयः—तस्य उदारशीलः शिलापट्टविशालवक्षाः शीलः सूनुः अभवत् यः शिलीमुखैः जितारिपक्षः अपि ईड्यमानः शालीनतां अव्रजत् ।

तस्येति । तस्य पारियात्रस्योदारशीलो महावृत्तः । 'शीलं स्वभावे सद्वृत्ते' इत्यमरः । शिलापट्टविशालवक्षाः शिलः शिलाख्यसूनुरभवत् । यः सूनुः शिलीमुखैर्बाणैः । 'अलिबाणौ शिलीमुखौ' इत्यमरः । जितारिपक्षोऽपीड्यमानः स्तूयमानः सन् शालीनतामधृष्टतां लज्जामव्रजदगच्छत् । स्यादधृष्टे तु शालीनः' इत्यमरः । “शालीनकौपीने अधृष्टाकार्ययोः” इति निपातः ।

भाषार्थ—उन्हें शील नाम का बड़ा शीलवान् पुत्र हुआ जिसकी छाती पत्थर की पाटी जैसी चौड़ी थी, यद्यपि उन्होंने बाणों से शत्रु को जीत लिया फिर भी स्तुति करने पर लज्जित रहे ॥ १७ ॥

तमात्मसंपन्नमनिन्दितात्मा कृत्वा युवानं युवराजमेव।
सुखानि सोऽभुङ्क्त सुखोपरोधि वृत्तं हि राज्ञामुपसुरुद्धवृत्तम् ॥ १८ ॥

अन्वयः—अनिन्दितात्मा सः आत्मसम्पन्नं युवानं युवराजं कृत्वा एव सुखानि अभुङ्क्त, हि राज्ञां वृत्तं सुखोपरोधि उपरुद्धवृत्तम् ।

तमिति । अनिन्दितात्माऽगर्हितस्वभावः स पारियात्र आत्मसंपन्नम् । 'आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च' इत्यमरः । युवानं तं शिलं युवराजं कृत्वैव सुखान्यभुङ्क्त । न त्वकृत्त्वेत्येवकारार्थः । किमर्थं युवराजशब्दकरणमित्याशङ्कया-