भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 73, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 73
१४रघुवंशमहाकाव्ये

अन्वयः—स यज्ञाय गां दुदोह, मघवा सस्याय दिवं (दुदोह) सम्पद्विनिमयेन उभौ भुवनद्वयं दधतुः ।

दुदोहेति । स राजा यज्ञाय यज्ञं कर्तुं गां भुवं दुदोह । करग्रहणेन रिक्तां चकारेत्यर्थः । मघवा देवेन्द्रः सस्याय सस्यं वर्धयितुं दिवं स्वर्गं दुदोह । द्युलोकान्महीलोके वृष्टिमुत्पादयामासेत्यर्थः । 'क्रियार्थोपपद-' इत्यादिना यज्ञसस्याभ्यां चतुर्थी । एवमुभौ सम्पदो विनिमयेन परस्परमादानप्रतिदानाभ्यां भुवनद्वयं दधतुः पुपुषतुः । राजा यज्ञैरिन्द्रलोकमिन्द्रश्चोदकेन भूलोकं पुपोषेत्यर्थः । उक्तं च दण्डनीतौ—'राजात्वर्थान्समाहृत्य कुर्यादिन्द्रमहोत्सवम् । प्रीणितो मेघवाहस्तु महतीं वृष्टिमावहेत्' इति ॥

भावार्थ—दिलीप यज्ञ के लिए पृथिवी को दुहते थे और इन्द्र धान्य के लिए आकाश को दुहते थे । इस प्रकार परस्पर सहयोग से दोनों लोक का पालन करते थे ॥ २६ ॥

तस्य राज्ये तस्करभयं नासीदित्याह—

न किलानुययुस्तस्य राजानो रक्षितुर्यशः ।
व्यावृत्ता यत्परस्वेभ्यः श्रुतौ तस्करता स्थिता ॥ २७ ॥

अन्वयः—राजानः रक्षितुः तस्य यशः न अनुययुः किल यत् परस्वेभ्यः व्यावृत्ता तस्करता श्रुतौ स्थिता ।

नेति । राजानोऽन्ये नृपा रक्षितुर्भयेभ्यस्त्रातुस्तस्य राज्ञो यशो नानुययुः किल नानुचक्रुः खलु । कुतः । यद्यस्मात्कारणात्तस्करता चौर्यं परस्वेभ्यः परधनेभ्यः स्वविषयभूतेभ्यो व्यावृत्ता सती श्रुतौ वाचकशब्दे स्थिता प्रवृत्ता । अपहार्यान्तराभावात्तस्करशब्द एवापहृत इत्यर्थः । अथवा । 'अत्यन्तासत्यपि ह्यर्थे ज्ञानं शब्दः करोति हि' इति न्यायेन शब्दे स्थिता स्फुरिता न तु स्वरूपतोऽस्तीत्यर्थः ।

भावार्थ—अन्य राजा रक्षक उस दिलीप के यश का अनुकरण नहीं कर सके क्योंकि दूसरों के धन से व्यावृत चोरी केवल शब्द में सुनी जाती थी ॥ २७ ॥

तस्य शिष्ट एव प्रियो दुष्ट एवाप्रिय आसीदित्याह—

द्वेष्योऽपि संमतः शिष्टस्तस्यार्त्तस्य यथौषधम् ।
त्याज्यो दुष्टः प्रियोऽप्यासीदङ्गुलीवोरगक्षता ॥ २८ ॥

अन्वयः—शिष्टः द्वेष्यः अपि आर्तस्य औषधं यथा तस्य सम्मतः । दुष्टः प्रियः अपि उरगक्षता अंगुलि इव त्याज्य आसीत् ।

द्वेष्य इति । शिष्टो जनो द्वेष्य शत्रुरपि । आर्तस्य रोगिण औषधं यथौषधमिव तस्य संमतोऽनुमत आसीत् । दुष्टो जनः प्रियोऽपि प्रेमास्पदीभूतोऽपि । उरग-

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या) · पृष्ठ 73, कुल 735 में से · BharatKosha