रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 73, कुल 735 में से
संदर्भ में पढ़ें| १४ | रघुवंशमहाकाव्ये |
|---|
अन्वयः—स यज्ञाय गां दुदोह, मघवा सस्याय दिवं (दुदोह) सम्पद्विनिमयेन उभौ भुवनद्वयं दधतुः ।
दुदोहेति । स राजा यज्ञाय यज्ञं कर्तुं गां भुवं दुदोह । करग्रहणेन रिक्तां चकारेत्यर्थः । मघवा देवेन्द्रः सस्याय सस्यं वर्धयितुं दिवं स्वर्गं दुदोह । द्युलोकान्महीलोके वृष्टिमुत्पादयामासेत्यर्थः । 'क्रियार्थोपपद-' इत्यादिना यज्ञसस्याभ्यां चतुर्थी । एवमुभौ सम्पदो विनिमयेन परस्परमादानप्रतिदानाभ्यां भुवनद्वयं दधतुः पुपुषतुः । राजा यज्ञैरिन्द्रलोकमिन्द्रश्चोदकेन भूलोकं पुपोषेत्यर्थः । उक्तं च दण्डनीतौ—'राजात्वर्थान्समाहृत्य कुर्यादिन्द्रमहोत्सवम् । प्रीणितो मेघवाहस्तु महतीं वृष्टिमावहेत्' इति ॥
भावार्थ—दिलीप यज्ञ के लिए पृथिवी को दुहते थे और इन्द्र धान्य के लिए आकाश को दुहते थे । इस प्रकार परस्पर सहयोग से दोनों लोक का पालन करते थे ॥ २६ ॥
तस्य राज्ये तस्करभयं नासीदित्याह—
न किलानुययुस्तस्य राजानो रक्षितुर्यशः ।
व्यावृत्ता यत्परस्वेभ्यः श्रुतौ तस्करता स्थिता ॥ २७ ॥
अन्वयः—राजानः रक्षितुः तस्य यशः न अनुययुः किल यत् परस्वेभ्यः व्यावृत्ता तस्करता श्रुतौ स्थिता ।
नेति । राजानोऽन्ये नृपा रक्षितुर्भयेभ्यस्त्रातुस्तस्य राज्ञो यशो नानुययुः किल नानुचक्रुः खलु । कुतः । यद्यस्मात्कारणात्तस्करता चौर्यं परस्वेभ्यः परधनेभ्यः स्वविषयभूतेभ्यो व्यावृत्ता सती श्रुतौ वाचकशब्दे स्थिता प्रवृत्ता । अपहार्यान्तराभावात्तस्करशब्द एवापहृत इत्यर्थः । अथवा । 'अत्यन्तासत्यपि ह्यर्थे ज्ञानं शब्दः करोति हि' इति न्यायेन शब्दे स्थिता स्फुरिता न तु स्वरूपतोऽस्तीत्यर्थः ।
भावार्थ—अन्य राजा रक्षक उस दिलीप के यश का अनुकरण नहीं कर सके क्योंकि दूसरों के धन से व्यावृत चोरी केवल शब्द में सुनी जाती थी ॥ २७ ॥
तस्य शिष्ट एव प्रियो दुष्ट एवाप्रिय आसीदित्याह—
द्वेष्योऽपि संमतः शिष्टस्तस्यार्त्तस्य यथौषधम् ।
त्याज्यो दुष्टः प्रियोऽप्यासीदङ्गुलीवोरगक्षता ॥ २८ ॥
अन्वयः—शिष्टः द्वेष्यः अपि आर्तस्य औषधं यथा तस्य सम्मतः । दुष्टः प्रियः अपि उरगक्षता अंगुलि इव त्याज्य आसीत् ।
द्वेष्य इति । शिष्टो जनो द्वेष्य शत्रुरपि । आर्तस्य रोगिण औषधं यथौषधमिव तस्य संमतोऽनुमत आसीत् । दुष्टो जनः प्रियोऽपि प्रेमास्पदीभूतोऽपि । उरग-