भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 77, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 77
१८रघुवंशमहाकाव्ये

अन्वयः—स्निग्धगम्भीरनिर्घोषम् एकं स्यन्दनं प्रावृषेण्यं विद्युदैरावती इव आस्थितौ ( गुरोराश्रमं जग्मतुरिति पूर्वेण सम्बन्धः ) ।

स्निग्धेति । स्निग्धो मधुरो गम्भीरो निर्घोषो यस्य तमेकं स्यनन्दनं रथम् । प्रावृषि भवः प्रवृषेण्यः । 'प्रावृष एन्यः' इत्येण्यप्रत्ययः । तं प्रावृषेण्यं पयोवाह मेघं विद्युदैरावताविव । आस्थितावारूढौ । जग्मतुरिति पूर्वेण सम्बन्धः । इरा आपः । 'इरा भूवाक्सुराप्सु स्यात्' इत्यमरः । इरावान्समुद्रः । तत्र भव एरावतोऽभ्रमातङ्ग । 'एरावतोऽभ्रमातङ्गरावणाभ्रमुवल्लभाः' इत्यमरः । 'अभ्रमातङ्गत्वाच्चाभ्रस्थरूपत्वात्' इति क्षीरस्वामी । अत एव मेघारोहणं विद्युत्साहचर्यञ्च घटते । किञ्च विद्युत ऐरावतसाहचर्याद्वैरावतीसंज्ञा । ऐरावतस्य स्त्रीऐरावतीति क्षीरस्वामी । तस्मात्सुष्ठूक्तं विद्युदैस्रवताधिवेति ॥ एकरथारोहणोक्त्या कार्यसिद्धिबीजं दम्पत्योरत्यन्तसौमनस्यं सूचयति ।

भाषार्थ—मधुर एवं गम्भीर आवाज करने वाले एक रथ पर वर्षा-ऋतु के बादल पर बिजली और ऐरावत के समान वे (वसिष्ठ के आश्रम की ओर चले ।)

सेनाविरहितयोस्तयोर्गमने कारणमाह—

मा भूदाश्रमपीडेति परिमेयपुरःसरौ ।
अनुभावविशेषात्तु सेनापरिवृताविव ॥ ३७ ॥

अन्वयः—'आश्रमपीडा मा भूत्' इति परिमेयपुरःसरौ अनुभावविशेषात् तु सेनापरिवृतौ इव ( स्थितौ ) ।

मा भूदिति । पुनः किंभूतौ दम्पती । आश्रमपीडा मा भून्मास्त्विति हेतोः । 'माङि लुङ्' । 'न माङ्योगे इत्यडाममनिषेधः । परिमेयपुरैःसरो मितपरिचरौ अनुभावविशेषात्तु तेजोविशेषात्सेनापरिवृताभ्यामिव स्थितौ ।

भाषार्थ—'गुरु के आश्रम को किसी प्रकार का कष्ट न हो' इस विचार से कुछ ही सेवकों की लेकर वहाँ गये, पर स्वाभाविक तेज से वे दोनों सेना से घिरे हुए लगते थे ।

मार्गे तयोः सुखदवायुभिः सेव्यमानयोर्गमनमित्याह—

सेव्यमानौ सुखस्पर्शैः शालनिर्यासगन्धिभिः ।
पुष्परेणूत्किरैर्वातैराघूतवनराजिभिः ॥ ३८ ॥

अन्वयः—सुखस्पर्शैः शालनिर्यासगन्धिभिः पुष्परेणूत्किरैः आधूतवनराजिभिः वातैः सेव्यमानौ ( गुरोराश्रमं जग्मतुरिति पूर्वेणान्वयः ) ।

सेव्यमानावित । पुनः कथंभूतौ । सुखशीतलत्वात्प्रियः स्पर्शो येषां तैः । शालनिर्यासगन्धिभिः सर्जतरुनिस्पन्दगन्धवद्भिः । 'शालः सर्जतरुः स्मृतः' इति