भारतकोश
राजतरंगिणी (महाकवि कल्हण - सम्पूर्ण काश्मीर व भारत राजवंश इतिहास)

राजतरंगिणी (महाकवि कल्हण - सम्पूर्ण काश्मीर व भारत राजवंश इतिहास)

Rajatarangini of Kalhana with Hindi Translation

महाकवि कल्हण / पं. रघुनाथ सिंह द्वारा

DevanagariHindipublished984 पृष्ठ

पृष्ठ 126, कुल 984 में से

संदर्भ में पढ़ें
पृष्ठ 126

प्रथम तरंग ४७ युद्ध के पश्चात् भगवान् के चक्र द्वारा जलोद्भव का मुंड छिन्न हो गया । नीलमत पुराण में वारहमूला के पास जल निकालने की तरफ संकेत किया गया है । नीलाम्बरः काञ्चनबद्धमौलिः संपूज्यमानस्त्रिदशैः समेतैः। विदारयामास स लाङ्गलेन हिमाचलं शैलवरं पृथिव्याम् ॥ —168।२२० विदारिते पर्वतराजराजे विनिर्ययौ तज्जलमाशुवेगात् । वेगेन शब्देन च सर्वभूतान् सन्त्रासयानं कुटिलैस्तरंगैः॥ २२१ हिमाचलाभैर्गगनम् स्पृशद्भिः सम्प्लावमानम् गिरिमस्तकानि ॥ —161।२२१, २२२ अस्मिन्वैवस्वते प्राप्ते राजन् मन्वन्तरे किल । मारीचाय ददौ दक्षः कश्यपाय त्रयोदश ॥ —46।६७-७० एतस्मिन्नेव काले तु कश्यपो भगवान् ऋषिः । तीर्थयात्राप्रसंगेन चचार सकलां महीं ॥ —81।१२३-१२४ तीर्थयात्रागतं श्रुत्वा कश्यपं पन्नगाधिपः । नीलो जगाम तं द्रष्टुं तीर्थे कनखले तथा ॥ —96।१३९ उपविष्टस्तदा नागो व्यज्ञापयत कश्यपम् । पितरं तपसां स्थानं यत्तच्छृणु नराधिप ॥ —99।१४२ उत्तीर्य च महाभागो विपाशां पापनाशिनीम् । दृष्टवान् सकलं देशं तदा शून्यं स कश्यपः ॥ —133।१७६ द्रष्टव्यैष कश्यपः प्रायाच्छ्रुत्वास्तान् पुरन्दरः । ततो देवगणैः सार्धं यान्यस्मिन्केशवान्तिकम् ॥ —149।२०१ तस्योदगाश्रमं चक्रे ब्रह्मा देववरः स्वयम् । पश्चार्धे चाश्रमं चक्रे कश्यपो भगवानृषिः ॥ —180।२३३-२३४ देवर्षिनागमुख्येष्वथितिष्ठत्स्वेव च कश्यपः । उवाच वरदं विष्णुं हस्तौ बद्ध्वा पुरः स्थितः ॥ —198।२६० वसतां रमणीयश्च पुण्यश्च भविता तथा । कश्यपे ब्रुवतीत्येवं नागा वचनमब्रुवन् ॥ —199।२६३-२६४ न वय मानुषैः सार्धं वसामो मुनिपुंगव । तानुवाच तथा क्रुद्धः कश्यपो वै प्रजापतिः ॥ — 201।२६६-२६ एवं उक्ते कश्यपेन नीलः प्राञ्जलिरब्रवीत् । एते क्रोधवशा ब्रह्मन्नाभिजानन्ति किंचन ॥ —202।२६८-२६९ कश्यपस्तमुवाचाथ ऋषिः परमधार्मिकः । वालुकार्णवमध्ये तु द्वीपः षड्योजनायतः ॥ —203।२७६-२७७ कः प्रजापतिरद्दिष्टः कश्यपश्च प्रजापतिः । तेनेदं निर्मितं देशं काश्मीराख्यं भविष्यति ॥ —218।२९१-२९२ एवं निष्पिष्टान् काश्मीरान्दृष्ट्वा हृष्टस्तु कश्यपः । आराध्य शंकरं देवमुमां देवीमचोदयत् ॥ —228।३०५ अदितिर्देवमाता च कश्यपेन प्रचोदिता । त्रिकोटीनांमतो भूत्वा नदीदेशे प्रपर्पति ॥ —231।३०८ शक्रपत्नी शची या च सा च कश्यपचोदिता । नाम्ना इयं यथा याता देशेऽस्मिन् पापसूदनी ॥ —232।३०९ एवं कश्यपवाक्येन देयदानवमातरः । देवपत्न्यस्तथा पुण्याः सरिद्रूपत्वमागताः ॥ —234।३११ तत्र कश्यपवाक्येन तीर्थसागरनिम्नगाः । काश्मीराय तदा जग्मुः सान्निध्यं पुण्यवृद्धये ॥ —235।३१२

राजतरंगिणी (महाकवि कल्हण - सम्पूर्ण काश्मीर व भारत राजवंश इतिहास) · पृष्ठ 126, कुल 984 में से · BharatKosha