राजतरंगिणी (महाकवि कल्हण - सम्पूर्ण काश्मीर व भारत राजवंश इतिहास)
Rajatarangini of Kalhana with Hindi Translation
महाकवि कल्हण / पं. रघुनाथ सिंह द्वारा
पृष्ठ 126, कुल 984 में से
संदर्भ में पढ़ेंप्रथम तरंग ४७ युद्ध के पश्चात् भगवान् के चक्र द्वारा जलोद्भव का मुंड छिन्न हो गया । नीलमत पुराण में वारहमूला के पास जल निकालने की तरफ संकेत किया गया है । नीलाम्बरः काञ्चनबद्धमौलिः संपूज्यमानस्त्रिदशैः समेतैः। विदारयामास स लाङ्गलेन हिमाचलं शैलवरं पृथिव्याम् ॥ —168।२२० विदारिते पर्वतराजराजे विनिर्ययौ तज्जलमाशुवेगात् । वेगेन शब्देन च सर्वभूतान् सन्त्रासयानं कुटिलैस्तरंगैः॥ २२१ हिमाचलाभैर्गगनम् स्पृशद्भिः सम्प्लावमानम् गिरिमस्तकानि ॥ —161।२२१, २२२ अस्मिन्वैवस्वते प्राप्ते राजन् मन्वन्तरे किल । मारीचाय ददौ दक्षः कश्यपाय त्रयोदश ॥ —46।६७-७० एतस्मिन्नेव काले तु कश्यपो भगवान् ऋषिः । तीर्थयात्राप्रसंगेन चचार सकलां महीं ॥ —81।१२३-१२४ तीर्थयात्रागतं श्रुत्वा कश्यपं पन्नगाधिपः । नीलो जगाम तं द्रष्टुं तीर्थे कनखले तथा ॥ —96।१३९ उपविष्टस्तदा नागो व्यज्ञापयत कश्यपम् । पितरं तपसां स्थानं यत्तच्छृणु नराधिप ॥ —99।१४२ उत्तीर्य च महाभागो विपाशां पापनाशिनीम् । दृष्टवान् सकलं देशं तदा शून्यं स कश्यपः ॥ —133।१७६ द्रष्टव्यैष कश्यपः प्रायाच्छ्रुत्वास्तान् पुरन्दरः । ततो देवगणैः सार्धं यान्यस्मिन्केशवान्तिकम् ॥ —149।२०१ तस्योदगाश्रमं चक्रे ब्रह्मा देववरः स्वयम् । पश्चार्धे चाश्रमं चक्रे कश्यपो भगवानृषिः ॥ —180।२३३-२३४ देवर्षिनागमुख्येष्वथितिष्ठत्स्वेव च कश्यपः । उवाच वरदं विष्णुं हस्तौ बद्ध्वा पुरः स्थितः ॥ —198।२६० वसतां रमणीयश्च पुण्यश्च भविता तथा । कश्यपे ब्रुवतीत्येवं नागा वचनमब्रुवन् ॥ —199।२६३-२६४ न वय मानुषैः सार्धं वसामो मुनिपुंगव । तानुवाच तथा क्रुद्धः कश्यपो वै प्रजापतिः ॥ — 201।२६६-२६ एवं उक्ते कश्यपेन नीलः प्राञ्जलिरब्रवीत् । एते क्रोधवशा ब्रह्मन्नाभिजानन्ति किंचन ॥ —202।२६८-२६९ कश्यपस्तमुवाचाथ ऋषिः परमधार्मिकः । वालुकार्णवमध्ये तु द्वीपः षड्योजनायतः ॥ —203।२७६-२७७ कः प्रजापतिरद्दिष्टः कश्यपश्च प्रजापतिः । तेनेदं निर्मितं देशं काश्मीराख्यं भविष्यति ॥ —218।२९१-२९२ एवं निष्पिष्टान् काश्मीरान्दृष्ट्वा हृष्टस्तु कश्यपः । आराध्य शंकरं देवमुमां देवीमचोदयत् ॥ —228।३०५ अदितिर्देवमाता च कश्यपेन प्रचोदिता । त्रिकोटीनांमतो भूत्वा नदीदेशे प्रपर्पति ॥ —231।३०८ शक्रपत्नी शची या च सा च कश्यपचोदिता । नाम्ना इयं यथा याता देशेऽस्मिन् पापसूदनी ॥ —232।३०९ एवं कश्यपवाक्येन देयदानवमातरः । देवपत्न्यस्तथा पुण्याः सरिद्रूपत्वमागताः ॥ —234।३११ तत्र कश्यपवाक्येन तीर्थसागरनिम्नगाः । काश्मीराय तदा जग्मुः सान्निध्यं पुण्यवृद्धये ॥ —235।३१२