रामायण मीमांसा (स्वामी करपात्री जी महाराज - रामायण दार्शनिक महाग्रन्थ एवं सम्पूर्ण चरित्र-मीमांसा)
Ramayana Mimamsa of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 1002, कुल 1049 में से
संदर्भ में पढ़ें९२८ रामायणमीमांसा परिशिष्ट (४०) ॐ ऐं ह्रीं श्रीं भं द्विरदेशजायाभ्यां नमः । (४१) ,, ,, मं महाकालेशाजयाभ्यां नमः । (४२) ,, ,, यं त्वगात्मने वालीशसुमुखेश्वरीभ्यां नमः । (४३) ,, ,, रं असृगात्मने भुजङ्गेशरेवतीभ्यां नमः । (४४) ,, ,, लं मांसात्मने पिनाकीशमाधवीभ्यां नमः । (४५) ,, ,, वं मेदआत्मने खड्गीशवारुणीभ्यां नमः । (४६) ,, ,, शं अस्थ्यात्मने बकेशवायवीयाभ्यां नमः । (४७) ,, ,, षं मज्जात्मने श्वेतेशरक्षोधरिणीभ्यां नमः । (४८) ,, ,, सं शुक्रात्मने भृग्वीशसहजाभ्यां नमः । (४९) ,, ,, हं प्राणात्मने नकुलीशलक्ष्मीभ्यां नमः । (५०) ,, ,, ळं शक्त्यात्मने संवर्तकेशमहामायाभ्यां नमः । (५१) ,, ,, क्षं क्रोधात्मने शिवेशव्यापिनीभ्यां नमः । “शुद्धा सबिन्दुकायुक्ता कलादिः केशवादिभिः । श्रीकण्ठमातृका चात्र न्यासेऽङ्गे पञ्चमी स्मृता ॥ रुद्रैर्युक्तां केवलां वा मतूनां कर्मारम्भे मातृकां विन्यसेद् यः । मन्त्राः सर्वे कुर्वते तस्य सिद्धिं दोषैः सार्धं याति नाशं जरा च ॥” इति श्रीकण्ठादिमातृकान्यासः । अथ बृहत्तत्त्वन्यासः— “अथ तत्त्वं प्रवक्ष्यामि तत्त्वन्यासं तदर्थिनाम् । यत्तुनत्त्वन्यासमात्रेण तत्त्वमेव प्रजायते ॥” ॐ मं नमः पराय जीवात्मने नमः, ॐ भं नमः पराय प्राणात्मने नमः, एतद्द्वयं सर्वाङ्गे । ॐ बं नमः पराय बुद्ध्यात्मने नमः, ॐ फं नमः पराय अहङ्कारात्मने नमः, ॐ पं नमः पराय मनआत्मने नमः, एतत्त्रयं हृदये । ॐ नं नमः पराय शब्दात्मने नमो मूर्ध्नि । ॐ धं नमः पराय स्पर्शात्मने नमो मुखे । ॐ दं नमः पराय रूपात्मने नमो हृदये । ॐ थं नमः पराय रसात्मने नम उपस्थे । ॐ तं नमः पराय गन्धात्मने नमः पादयोः । ॐ णं नमः पराय श्रोत्रात्मने नमः श्रोत्रयोः । ॐ ढं नमः पराय वागात्मने नमस्त्वचि । ॐ डं नमः पराय चक्षुरात्मने नमश्चक्षुषोः । ॐ ठं नमः पराय जिह्वात्मने नमो जिह्वायाम् । ॐ टं नमः पराय घ्राणात्मने नमो घ्राणे । ॐ ञं नमः पराय वागात्मने नमो वाचि । ॐ झं नमः पराय पाण्यात्मने नमः पाण्योः । ॐ जं नमः पराय पाद्वात्मने नमः पायौ । ॐ छं नमः पराय पादात्मने नमः पादयोः । ॐ चं नमः पराय उपस्थात्मने नमः उपस्थे । ॐ ङं नमः पराय आकाशात्मने नमो मूर्ध्नि । ॐ घं नमः पराय वाय्वात्मने नमो मुखे । ॐ गं नमः पराय तेजात्मने नमो हृदये । ॐ खं नमः पराय सलिलात्मने नमो गुह्ये । ॐ कं नमः पराय पृथिव्यात्मने नमः पादयोः । ॐ शं नमः पराय हृत्पुण्डरीकात्मने नमो गुह्ये । ॐ हं नमः पराय सोममण्डलात्मने षोडशकलात्मने । ॐ सं नमः पराय सूर्यमण्डलाय द्वादशकलात्मने, ॐ रं नमः पराय वह्निमण्डलाय दशकलात्मने, एतत्रितयं हृदि । ॐ षं नमः पराय परमेष्ठ्यात्मने वासुदेवाय नमो मूर्ध्नि । ॐ यं नमः पराय पुरुषात्मने सङ्कर्षणाय नमो मुखे । ॐ वं नमः पराय विश्वात्मने प्रद्युम्नाय नमो हृदये । ॐ लं नमः पराय निवृत्त्यात्मने अनिरुद्धाय नमो गुह्ये । ॐ क्षं नमः पराय सर्वात्मने नारायणाय नमः पादयोः । ॐ क्षौं नमः पराय कोपात्मने नृसिंहाय नमः इति व्यापकम् ।