सामग्री पर जाएँ
भारतकोश
रामायण मीमांसा (स्वामी करपात्री जी महाराज - रामायण दार्शनिक महाग्रन्थ एवं सम्पूर्ण चरित्र-मीमांसा)

रामायण मीमांसा (स्वामी करपात्री जी महाराज - रामायण दार्शनिक महाग्रन्थ एवं सम्पूर्ण चरित्र-मीमांसा)

Ramayana Mimamsa of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished1,049 पृष्ठ

पृष्ठ 1003, कुल 1049 में से

संदर्भ में पढ़ें
पृष्ठ 1003

“अतत्त्वस्याप्यरूपस्य तत्प्राप्तेर्हेतुना पुनः। तत्त्वन्यासमिति प्राहुर्न्यासतत्त्वविदो बुधाः ॥ यः कुर्यात् तत्त्वविन्यासं स पूतो भवति ध्रुवम् । तदात्माननुप्रविश्य भगवानिह तिष्ठति ॥ यतः स एव तत्त्वानि सर्वं तस्मिन् प्रतिष्ठितम् ।” मातृकादेवतयोरन्ते नमः पदं दातव्यम् । इति बृहत्तत्त्वन्यासः । अथ मूर्तिपञ्जरन्यासः— “तन्मूर्तिपञ्जरन्यासं कथयिष्येऽधुना परम् । यस्मात्फलान्तरं नास्ति पुंसस्तन्मूर्तिसिद्धये ॥” ॐ अं ॐ रां केशवाय धात्रे नमो ललाटे । ॐ आं णं रां नारायणायार्यम्णे नमो नाभौ । ॐ इं मों मां माधवाय मित्राय नमो हृदये । ॐ ईं मं यं गोविन्दाय वरुणाय नमः कण्ठे । ॐ उं गं नं विष्णवेंऽशवे नमो दक्षिणपार्श्वे । ॐ ऊं वं मं मधुसूदनाय भगाय नमो दक्षिणांसे । ॐ एं तें रां त्रिविक्रमाय विवस्वते नमो दक्षिणकन्धरे । ॐ ऐं वां रां वामनाय इन्द्राय नमो वामपार्श्वे । ॐ ओं सुं मां श्रीधराय पूष्णे नमो वामांसे । ॐ औं दें यं हृषीकेशाय पर्जन्याय नमो वामकन्धरे । ॐ अं वां नं पद्मनाभाय त्वष्ट्रे नमः पृष्ठे । ॐ अः यं मं दामोदराय विष्णवे नमः ककुदि । ॐ नमो भगवते वासुदेवाय मूर्ध्नि । “तन्मूर्तिपञ्जरन्यासोऽभिहितः परमेष्ठिना । सकृन्न्यासाद् भवेन्मन्त्रो राममूर्तिरनुत्तमः ॥” इति मूर्तिपञ्जरन्यासः । अथ किरीटन्यासः—ॐ किरीटहारकेयूरमकरकुण्डलचक्रशङ्खगदाम्बुजहस्तपीताम्बरधरश्रीवत्साङ्कितवक्षः- स्थलश्रीभूमिसहितात्मज्योतिर्द्वयदिवाकरसहस्रादित्यतेजसे नमः । इति मन्त्रं स्वशरीरे परतेजोव्याप्तिं स्मरन् किरीटमुद्राय मूर्ध्नि विन्यसेत् । इति किरीटन्यासः । अथेन्द्रियन्यासः — “वक्ष्येऽहमिन्द्रियन्यासमिन्द्रियाणां विशुद्धये । यथा सम्प्राप्यते रामो देशिकेन्द्रेण धीमता ॥” ॐ दिग्भ्यो नमः श्रोत्रयोः । ॐ वायवे नमस्त्वचि । ॐ आदित्याय नमश्चक्षुषोः । ॐ वरुणाय नमो जिह्वा- याम् । ॐ अश्विभ्यां नमो घ्राणयोः । ॐ अग्नये नमो वाचि । ॐ इन्द्राय नमः पाण्योः । ॐ विष्णवे नमः पादयोः । ॐ मित्राय नमः पायौ । ॐ प्रजापतये नमः उपस्थे । ॐ चन्द्रमसे नमो मनसि । ॐ ब्रह्मणे नमो बुद्धौ । ॐ रुद्राय नमः अहङ्कारे । ॐ क्षेत्रज्ञाय नमः चित्ते । ॐ अं ईश्वराय नमो मनसि । इति इन्द्रियन्यासः । अथ ऋष्यादिन्यासः— “न्यासमस्य प्रवक्ष्यामि मनोः सर्वफलप्रदम् । न्यासं विना जपं प्राहुरासुरं विफलं बुधाः ॥ ऋषिर्ब्रह्मास्य मन्त्रस्य गायत्रं छन्द उच्यते । रामाख्यं वैष्णवं धाम देवता परिकीर्तिता ॥ आद्यं बीजं नतिः शक्ती रामायेति च कीलकम् । ऋषिर्गुरुत्वात् शिरसैव धार्यश्छन्दोऽक्षरत्वात् रसनागतं स्यात् ॥