रामायण मीमांसा (स्वामी करपात्री जी महाराज - रामायण दार्शनिक महाग्रन्थ एवं सम्पूर्ण चरित्र-मीमांसा)
Ramayana Mimamsa of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 1007, कुल 1049 में से
संदर्भ में पढ़ेंसंख्या १ रामोपासना ९३३ शङ्खजले- "गङ्गे च यमुने चैव गोदावरि सरस्वति। नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥" इति तीर्थान्यावाह्य गन्धाद्यैरर्चयेत्- "शङ्खे पाणितलं दत्त्वा जपेन्मन्त्रं षडक्षरम् । चिन्मयं चिन्तयेत्तीर्थमानीयाङ्कुशमुद्रया ॥" धेनुमुद्रां प्रदर्श्य शङ्खचक्रगरुडमुद्राः प्रदर्शयेत् । परमीकरणमुद्रया परमीकृत्य । "करावेकत्र संयोज्यावारार्तिकमिव प्रिये । परमीकरणं नाम मुद्रेयं सर्वकामदा ॥ देवस्य मूर्ध्नि तत्सिञ्चेत् पूजाद्रव्येषु चात्मनः । अवेक्षणं प्रोक्षणं च वीक्षणं ताडनं तथा ॥ अर्चनं चैव सर्वेषां पावनं तत्प्रकल्पयेत् । पूतमेवाखिलं पूजायोग्यं भवति सार्थकम् ॥" इति शङ्खप्रतिष्ठा ताम्रहेमरजतादिमयानि पाद्यार्घ्यमधुपर्काचमनीयार्थं चत्वारि पात्राणि स्थापनीयानि । तत्रार्घ्यपात्रे गन्ध- पुष्पयवाक्षतान् कुशाग्रतिलदूर्वाः सर्षपांश्चार्घ्यपात्रे, श्यामाकमब्जं विष्णुक्रान्ताञ्च पाद्यपात्रे, जातीफलं लवङ्गं कङ्कोलं च आचमनीयपात्रे, दधिमधुघृतानि मधुपर्कपात्रे च स्थापयेत् । सर्वोपचारवस्तूनामलाभे भावनयैव सर्वमुपस्थापनीयम् । निर्मलोदकेनैव वा सर्वस्य पूर्णतेति नारदवचनम् । अन्तर्यागः- "धर्मकन्दसमुद्भूतं ज्ञाननालं सुशोभनम् । ऐश्वर्याष्टदलं पद्मं परं वैराग्यकर्णिकम् ॥ तस्मिन् पीठे चिदात्मानं रामचन्द्रस्वरूपिणम् । ध्यात्वा यजेच्चन्दनाद्यैर्मानसैर्धूपदीपकैः ॥ भोजनावसरे किञ्चिज्जपं कृत्वा निवेदयेत् । स्वाधिष्ठानगते कुण्डे त्रिकोणे वह्निमुज्ज्वलेत् ॥ चिद्रूपं प्रणवेनाथ तत्राहन्तादिकं हुनेत् । पूजाहोमादिकं देव कृतं यत् त्वदनुग्रहात् ॥ तेन प्रीतो भव त्वं भोः शुद्धं मे मानसं कुरु । निवेदयामि चात्मानं त्वं गतिः परमेश्वर ॥ मानसैः कुसुमैरर्चा सात्त्विकी सा शुभा मता । तस्मात्सर्वप्रयत्नेन मानसं यजनं ध्रुवम् । आदौ चैव प्रकर्त्तव्यं पश्चाद् द्रव्यैः सविस्तरैः ॥" इत्यन्तर्यागः । अथ बहिर्यागः-आत्मानं चिन्मयं ध्यात्वा गन्धादिभिरर्चयेत् । (१) ॐ आत्मतत्त्वाय नमः (२) ॐ कला- तत्त्वाय नमः (३) ॐ विद्यातत्त्वाय नमः (४) ॐ रामतत्त्वाय नमः इत्यात्मानमभ्यर्च्य बहिर्यागं कुर्यात् । अथ श्रीराममहामन्त्रम्- "कामक्रोधादिदोषोत्थदीर्घदुःखानियन्त्रणात् । यन्त्रमित्याहुरेतस्मिन् रामः प्रीणाति पूजितः ॥