रामायण मीमांसा (स्वामी करपात्री जी महाराज - रामायण दार्शनिक महाग्रन्थ एवं सम्पूर्ण चरित्र-मीमांसा)
Ramayana Mimamsa of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 1016, कुल 1049 में से
संदर्भ में पढ़ें९४२ रामायणमीमांसा परिशिष्ट अष्टमावरणम्—द्वात्रिंशद्दलेषु—(१) ध्रुं ध्रुवाय नमः। (२) धं धराय नमः। (३) सों सोमाय नमः। (४) आं आपाय नमः। (५) अं अनिलाय नमः। (६) अं अनलाय नमः। (७) प्रं प्रत्यूषाय नमः। (८) प्रं प्रभासाय नमः । (९) वीं वीरभद्राय नमः । (१०) शं शम्भवे नमः। (११) गिं गिरीशाय नमः। (१२) अं अजैकपदे नमः। (१३) अं अहिर्बुध्न्याय नमः । (१४) पिं पिनाकिने नमः । (१५) भुं भुवनाधीश्वराय नमः । (१६) कं कपालिने नमः । (१७) दिं दिक्पतये नमः । (१८) स्थां स्थाणवे नमः । (१९) भं भगाय नमः । (२०) वं वरुणाय नमः । (२१) सूँ सूर्याय नमः (२२) वें वेदाङ्गाय नमः । (२३) भां भानवे नमः । (२४) इं इन्द्राय नमः । (२५) रं रवये नमः । (२६) गं गभस्तिने नमः । (२७) यं यमाय नमः । (२८) हिं हिरण्यरेतसे नमः । (२९) दिं दिवाकराय नमः । (३०) मिं मित्राय नमः । (३१) विं विष्णवे नमः । (३२) धां धात्रे नमः । “ध्रुवाद्यैरष्टमावृत्तिर्द्वात्रिंशद्दल्पङ्कजे । ध्रुवो धरश्च सोमश्च आपश्चैवानिलोऽनलः । प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः ॥ शूलं खड्गं तथा चक्रं पट्टिशं कुलिशं छुरीम् । कोदण्डं मुद्गरं चैव वसूनामायुधक्रमः ॥ वीरभद्रश्च शम्भुश्च गिरीशश्च महायशाः । अजैकपादहिर्बुध्न्यः पिनाकी चापराजितः ॥ भुवनाधीश्वरश्चैव कपाली च दिशां पतिः । स्थाणुर्भगश्च भगवान् रुद्रा एकादश स्मृताः ॥ शल्कं डमरुं शूलं शिखरं यमदंष्ट्रकम् । कृष्णादिकं ? पिनाकं च अघोरास्त्र तथाङ्कुशम् ॥ खट्वाङ्गं च स्थाणुपरं शक्तिहेतिधरास्तथा । रुद्रायुधानि चैतानि प्रोक्तवान् क्रमशः शिवः ॥ वरुणः सूर्यवेदाङ्गो भानुरिन्द्रो रविस्तथा । गभस्तिश्च यमश्चैव स्वर्णरेता दिवाकरः ॥ मित्रो विष्णुरिति प्रोक्ता आदित्या आदितः क्रमात् । पाशं च मुद्गरं शङ्खं शल्यं शृङ्गं कृपाणकम् ॥ गदां दण्डं वज्रमब्जं तथा सर्पं सुदर्शनम् । आदित्यानां द्वादशानामायुधानि विदुः क्रमात् ॥” इत्यष्टमावरणम् अथ नवमावरणम्—द्वात्रिंशद्दलबाह्ये प्रथमभूपुराद् बहिः—(१) लं इन्द्राय सुराधिपतये सायुधाय सपरि- वाराय सवाहनाय स्वशक्तियुताय नमः । एवं सर्वत्र (२) रं अग्नये तेजोधिपतये सायुधाय । (३) यं यमाय प्रेताधिपयये सा० । (४) क्षं निर्ऋतये रक्षोऽधिपतये सायुधाय० । (५) बं वरुणाय जलाधिपतये । (६) यं वायवे प्राणाधिपतये । (७) सं सोमाय नक्षत्राधिपतये (८) इं ईशानाय विद्याधिपतये० इति पूर्वाद्यष्टदिक्षु । (९) आं ब्रह्मणे लोकाधिपतये ईशानपूर्वयोर्मध्ये । (१०) ह्रीं विष्णवे भूताधिपतये नैर्ऋत्यपश्चिममध्ये । अथ दशमावरणम्—नवमावरणार्चनक्रमेण द्वितीयभूपुरे—(१) वं वज्राय नमः । (२) शं शक्त्यै नमः । (३) दं दण्डाय नमः । (४) खं खड्गाय नमः । (५) पां पाशाय नमः । (६) ध्वं ध्वजाय नमः । (७) गं गदायै नमः । (८) त्रिं त्रिशूलाय नमः । (९) अं अम्बुजाय नमः । (१०) चं चक्राय नमः । वज्राद्यायुधवर्गं तु द्वितीये भूपूहेऽर्चयेत् ।