रामायण मीमांसा (स्वामी करपात्री जी महाराज - रामायण दार्शनिक महाग्रन्थ एवं सम्पूर्ण चरित्र-मीमांसा)
Ramayana Mimamsa of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 1019, कुल 1049 में से
संदर्भ में पढ़ेंसंख्या १ रामोपासना ९४५ श्रीरामचन्द्रः स भगवानन्योऽन्तःकरणचतुष्टयात्मा भूर्भुवःस्वस्तस्मै वै नमो नमः । ( १३ ) यो ह वै श्रीरामचन्द्रः स भगवान् अन्यानि पञ्चभूतानि भूर्भुवःस्वस्तस्मै वै नमो नमः । ( १४ ) यो ह वै श्रीरामचन्द्रः स भगवानन्यः कालो भूर्भुवःस्वस्तस्मै वै नमो नमः । ( १५ ) यो ह वै श्रीरामचन्द्रः स भगवानन्यश्च मनुर्भूर्भुवःस्वस्तस्मै वै नमो नमः । ( १६ ) यो ह वै श्रीरामचन्द्रः स भगवान् अन्यो यमो भूर्भुवःस्वस्तस्मै वै नमो नमः । ( १७ ) यो ह वै श्रीरामचन्द्रः स भगवान् अन्योऽन्तको भूर्भुवःस्वस्तस्मै वै नमो नमः । ( १८ ) यो ह वै श्रीरामचन्द्रः स भगवानन्यो मृत्युर्भूर्भुवःस्वस्तस्मै वै नमो नमः । ( १९ ) यो ह वै श्रीरामचन्द्रः स भगवानमृतं भूर्भुवःस्वस्तस्मै वै नमो नमः । ( २० ) यो ह वै श्रीरामचन्द्रः स भगवान् विद्या भूर्भुवःस्वस्तस्मै वै नमो नमः । ( २१ ) यो ह वै श्रीरामचन्द्रः स भगवान् सरस्वती भूर्भुवः स्वस्तस्मै वै नमो नमः । २२ यो ह वै श्रीरामचन्द्रः स भगवान् लक्ष्मीर्भूर्भुवःस्वस्तस्मै वै नमो नमः २३ " " " गौरी " " " २४ " " " जानकी " " " २५ " " " त्रैलोक्यं " " " २६ " " " सूर्यः " " " २७ " " " सोमः " " " २८ " " " नक्षत्राणि " " " २९ " " " अष्टौ लोकपालाः ,, ,, ,, ३० " " , " अष्टौ वसवः " " " ३१ " " " नव ग्रहाः " " " ३२ " " " एकादश रुद्राः " " " ३३ " " " द्वादशादित्याः " " " ३४ " " " भूतं भव्यं भविष्यद् " " " ३५ " " " ब्रह्माण्डस्यान्तर्बहिर्व्याप्नोति यो विराड्भू० ,, ३६ " " " अन्ये हिरण्यगर्भो महादेवो महेश्वरः " ३७ " " " अन्यश्चोङ्कारः " " " ३८ " " " चतस्रोऽर्धमात्राः " " " ३९ " " " प्रकृतिपरमपुरुषः " " " ४० " " " ॐ नमो भगवते वासुदेवाय यो महाविष्णुर्भू० ४१ " " " ज्ञानात्मा " " " ४२ " " " परमात्मा " " " ४३ " " " सर्वान्तरात्मा " " " ४४ " " " सच्चिदानन्दकाद्वैतैकरसानन्दो " ४५ " " " अन्ये देवासुरमनुष्यादिभावाः स्थावरजङ्गमाः ४६ " " " विज्ञानात्मा " " " ४७ इत्येतान् ब्रह्माऽब्रवीत् ब्रह्माऽब्रवीत् । सप्तचत्वारिंशन्मन्त्रैर्नित्यं देवं स्तौति ततो देवः प्रीतो भवति स्वात्मानं दर्शयति । तस्माद् यस्तैर्मन्त्रैर्नित्यं देवं स्तवीति स देवं पश्यति सोऽमृतत्वं गच्छतीति इत्याथर्वणश्रीरामोत्तरतापनीयं मन्त्रस्तुतिः । ११९