रामायण मीमांसा (स्वामी करपात्री जी महाराज - रामायण दार्शनिक महाग्रन्थ एवं सम्पूर्ण चरित्र-मीमांसा)
Ramayana Mimamsa of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 1020, कुल 1049 में से
संदर्भ में पढ़ें९४६ रामायणमीमांसा परिशिष्ट गीतनृत्यादि । ततः दण्डवत्प्रणम्य प्रार्थना— "त्वय्येव भक्तिं जनय त्वमेव मामुद्धरास्मात् कृपया भवाब्धेः । क्लिश्टं कृपालो न दयास्ति ते चेत्तर्हीश हा कर्मवशो हतोऽस्मि ॥" तीर्थग्रहणम्— "देवदेव जगन्नाथ शङ्खचक्रगदाधर । देहि राम ममानुज्ञां तव तीर्थनिषेवणे ॥ लब्ध्वानुज्ञां ततस्तीर्थे पात्रस्थे मन्त्रमालिखेत् । कुशैमूंलं लिखित्वा तु पठेन्मन्त्रमघापहम् ॥ अकालमृत्युहरणं सर्वव्याधिविनाशनम् । विष्णोः पादोदकं तीर्थं शिरसा धारयाम्यहम् ॥ तुलस्यर्चा— "या दृष्टा निखिलाघसंघशमनी स्पृष्टा वपुःपावनी रोगाणामभिवन्दिता निरसनी सिक्ताऽन्तकत्रासिनी । प्रत्यासत्तिविधायिनी भगवतः कृष्णस्य संरोपिता न्यस्ता तच्चरणे विमुक्तिफलदा तस्यै तुलस्यै नमः ॥" अपराधक्षमापनम्— "यानेर्वा पादुकैर्वापि गमनं भगवद्गृहे । देवोत्सवाद्यसेवा च अप्रणामस्तदग्रतः ॥ उच्छिष्टे चैव चाशौचे भगवद्वन्दनादिकम् । एकहस्तप्रणामश्च तत्पुरस्तात् प्रदक्षिणम् ॥ पादप्रसारणं चाग्रे तथा पर्यङ्कबन्धनम् । शयनं भक्षणं वापि मिथ्याभाषणमेव च ॥ उच्चैर्भाषा मिथो जल्पो रोदनानि च विग्रहः । निग्रहानुग्रहो चैव स्त्रीषु च क्रूरभाषणम् ॥ कम्बलावरणं चैव परनिन्दा परस्तुतिः । अक्लिष्ट (अश्लील) भाषणं चैव अधोवायुविमोक्षणम् ॥ शक्तौ गौणोपचारश्च अनिवेदितभक्षणम् । तत्तत्कालोद्भवानां च फलादीनामनर्पणम् ॥ विनियुक्तावशिष्टस्य व्यञ्जनादेः प्रदानकम् । पृष्ठे कृत्वासनञ्चैव परेषामभिवन्दनम् ॥ गुरौ मौनं निजस्तोत्रं देवतानिन्दनं तथा । अपराधास्तथा विष्णोर्द्वात्रिंशत्परिकीर्तिताः ॥ अपराधसहस्त्राणि क्रियन्तेऽहर्निशं मया । दासोऽयमिति मां मत्वा क्षमस्व मधुसूदन ॥ इमं मन्त्रं समुच्चार्य प्रणमेद् दण्डवद् भुवि । अपराधसहस्राणि क्षमते सर्वगो हरिः ॥” “एकोऽपि कृष्णस्य कृतः प्रणामो दशाश्वमेधावभृथेन तुल्यः । दशाश्वमेधी पुनरेति जन्म कृष्णप्रणामी न पुनर्भवाय ॥”