भारतकोश
रामायण मीमांसा (स्वामी करपात्री जी महाराज - रामायण दार्शनिक महाग्रन्थ एवं सम्पूर्ण चरित्र-मीमांसा)

रामायण मीमांसा (स्वामी करपात्री जी महाराज - रामायण दार्शनिक महाग्रन्थ एवं सम्पूर्ण चरित्र-मीमांसा)

Ramayana Mimamsa of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished1,049 पृष्ठ

पृष्ठ 1021, कुल 1049 में से

संदर्भ में पढ़ें
पृष्ठ 1021

संख्या १ रामोपासना ९४७ अथ कर्मापणम्— “कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वाऽनुसृतस्वभावात् । करोति यद्यत्सकलं परस्मै नारायणायेति समर्पयेत्तत् ॥ साधु वाऽसाधु वा कर्म यद् यदाचरितं मया । तत्सर्वं भगवन् विष्णो गृहाणाराधनं परम् ॥ इति शङ्खजलं दद्याद् देवस्य दक्षिणे करे ।” इति कर्मापणम् । अथात्मार्पणम्— “सत्यपि भेदापगमे नाथ तवाहं न मामकीनस्त्वम् । सामुद्रो हि तरङ्गः क्वचन समुद्रो न तारङ्गः ॥ सोऽहं दासोऽहमिति वा बुद्धिर्यस्यामला दृढा । कर्मभिर्न स बद्ध्येत ह्यकर्तृत्वाच्छिवेषुवत् ॥ त्वमेवाहमहं च त्वं सच्चिन्मात्रवपुर्धरः । आवयोरन्तरं भ्रान्तिर्नश्येत्वाज्ञाबलात् तव ॥” शेषग्रहणम्— “त्वयोपभुक्तस्रग्गन्धवासोऽलङ्कारचर्चिताः । उच्छिष्टभोजिनो दासास्तव मायां जयेमहि ॥” विसर्जनम्— “ध्यात्वा रामं जपेन्मन्त्रं तिष्ठेद् यावन्मनो हृदि । गुह्यात्गुह्यमन्त्रेण राघवाय निवेदयेत् ॥ मन्त्रहीनं क्रियाहीनं भक्तिहीनं रमापते । यत्पूजितं मया देव परिपूर्णं तदस्तु मे ॥ इति पुष्पाञ्जलिं दत्त्वा संहृत्यावरणान् हरौ । भक्त्या संशाधितं स्वान्तं विश विश्रामहेतवे ॥ अहं रामो न चान्योऽस्मि मन्त्रमेनमुदीरयेत् । आत्मानं सततं रामं संभाव्य विहरन्ति ये ॥ न तेषां दुष्कृतं किञ्चिद् दुष्कृतोत्था न चापदः ॥” षष्ठे दिनविभागे पञ्च महायज्ञान् कुर्यात् । सप्तमे विभागे इतिहासपुराणाभ्यामंशं सप्तमकं नयेत् । अष्टमभागे सन्ध्यां राघवीमुपासीत । हुत्वानिहोत्रं विधिना ततो होमं समापयेत् । रात्रिप्रथमभागकृत्यम्— “न्यासं षडङ्गं कृत्वा तु प्राणायामपुरस्सरम् । सकृदभ्यर्च्य नीराज्य प्रार्थयेज्जानकीपतिम् ॥ आगच्छ शयनागारं सीतया सह राघव । पर्यङ्के तिलके प्रशस्तफलके भोगीन्द्रचित्राङ्गुके स्वच्छप्रच्छदभानुके मृदुशिरःस्थानोपधानादिके । उन्मीलत्कुलशीलया दयितया श्रीसीतया सत्कृते शेते नित्यमगण्यपुण्यफलदः श्रीकोशलेन्द्रो नृपः ॥”