रामायण मीमांसा (स्वामी करपात्री जी महाराज - रामायण दार्शनिक महाग्रन्थ एवं सम्पूर्ण चरित्र-मीमांसा)
Ramayana Mimamsa of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 1022, कुल 1049 में से
संदर्भ में पढ़ें९४८ रामायणमीमांसा परिशिष्ट प्राणाग्निहोत्रम्— “सत्यं त्वर्ते तेनेति मन्त्रैः प्रोक्षयेदन्नमादरात् । धर्मराजाय चित्राय चित्रगुप्ताय वै बलिः ॥ अश्नीयान्मन्त्रराजेन स्वन्नं सप्ताभिमन्त्रितम् । अन्नं ब्रह्मा रसो विष्णुर्भोक्ता देवो महेश्वरः ॥ एवं ज्ञात्वा तु यो भुङ्क्ते सोऽन्नदोषैर्न लिप्यते ।” अन्तश्चरसि भूतानां गुहायां विश्वतोमुखः त्वं यज्ञस्त्वं वषट्कारस्त्वं विष्णोः परमं पदम् । अमृतोपस्तरणमसि इति जलं प्राश्य तत्र मध्ये इन्द्रवरुणशशिंयमदिग्गतानि हृदि कुण्डानि । अन्वाहार्याहवनीयगार्हपत्यसभ्यावसथ्यानि । तत्र गार्हपत्ये हुनेत् प्राणाय स्वाहेति हिरण्यया जुह्वा, अनामाऽङ्गुष्ठतः क्रमात् । अन्वाहार्ये अपानाय स्वाहा मध्यमाऽङ्गुष्ठयुग्मेन । आहवनीये रत्नवर्णस्रुचा व्यानाय स्वाहा मध्यमाऽङ्गुष्ठयुग्मेन । सभ्ये तु कृष्णवर्णस्रुचा तर्जन्यङ्गुष्ठयुग्मेनोदानाय स्वाहा । आवसथ्ये सुप्रभावर्णया स्रुचा सर्वाभिरङ्गुलीभिः समानाय स्वाहेति । “नैवेद्यशेषं तुलसीविमिश्रं विशेषतः पादजलेन विष्णोः । योऽश्नाति नित्यं पुरतो मुरारेः प्राप्नोति यज्ञायुतकोटिपुण्यम् ॥” “प्रतिविद्धं च नाश्नीयात् पवित्रमपि नावृतम् । सन्ध्ययोरुभयोर्जप्ये भोजने दन्तधावने ॥ पितृकार्येषु दैवे च तथा मूत्रपुरीषयोः । गुरूणां संनिधौ दाने स्नाने चैव विशेषतः ॥ एवं मौनं समातिष्ठन् स्वर्गं प्राप्नोति मानवः । वामाङ्गे जलं न निधेयम् ॥ तृप्तो दद्यादन्नशेषं भूमौ दुर्गततृप्तये । यत्र क्वचन संस्थानां क्षुत्तृषोपहतात्मनाम् । दुर्गतानां मया दत्तमक्षय्यमुपतिष्ठतु । अमृताविधानमसि इति पुनरपि जलमाचम्य ॥ भुक्तं तदन्नं तीर्थवारिणापिदध्यात् । आचमनशेषमधं तदम्बु भूभागे दद्याद् दुर्गततृप्तये ॥ सम्यगाचम्य दक्षाङ्घ्रेरङ्गुष्ठे वारि निःक्षिपेत् । अङ्गुष्ठमात्रः पुरुषो ह्यङ्गुष्ठञ्च समाश्रितः ॥ ईशः सर्वस्य जगतः प्रभुः प्रीणातु विश्वभुक् । ततः संस्मृत्य संतुष्टः पुष्टिदामिष्टदेवताम् ॥ अगस्त्यं कुम्भकर्णं च शनिञ्च बड़वानलम् । अन्नसंपाचनार्थाय स्मरेद् भीमं च पञ्चमम् ॥ विष्णुः समस्तेन्द्रियदेहदेही प्रधानभूतो भगवान् यथैकः । सत्येन तेनान्नमशेषमेतदारोग्यदं मे परिणाममस्तु ॥” भगवत्प्रसादताम्बूलं भक्षयेद्दिव्यं भगवन्नाम दिव्यं जपन् । शयनम्— “मृद्भिः शौचविधिं विधाय चरणौ प्रक्षाल्य चोपस्पृशेद् द्विः संस्मृत्य जगत्पतिं कुलपतिं श्रीकोशलेन्द्रं नृपम् ।