रामायण मीमांसा (स्वामी करपात्री जी महाराज - रामायण दार्शनिक महाग्रन्थ एवं सम्पूर्ण चरित्र-मीमांसा)
Ramayana Mimamsa of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 1023, कुल 1049 में से
संदर्भ में पढ़ेंसंख्या १ रामोपासना १४९ प्रेयस्या निमिषं पिबन् प्रियसुधाधारायमाणं गिरां वखेणाङ्घ्रियुगं प्रमृज्य शयनं चासाद्य सद्यः स्वपेत् ॥ रामं स्कन्दं हनूमन्तं वैनतेयं वृकोदरम् । शयने यः स्मरेन्नित्यं स दुःस्वप्नं न पश्यति ॥ मूलं स्मृत्वा जपेद् रामरक्षां विघ्नोपशान्तये ।” पुरश्चरणम्— आदौ नियतो नित्यं त्रिकालं पुरुषोत्तममर्चयन् षड् लक्षं जपेत् । शुद्धवारिणा पुष्पाक्षतादियुक्तेन पूजितेन तद्दशांशेन तर्पयेत् । यतो बिल्वदलैः पुष्पैः पत्रैश्च हुताशने राममावाह्य पूजयेत् । मधुरत्रयसंयुक्तैः पद्मैर्वा पायसेन वा तिलैर्वाऽन्यतमेनैषां होमः कार्यः । ब्राह्मणान् भोजयेत्ततः । “पूजा त्रैकालिकी नित्यं जपस्तर्पणमेव च । होमो ब्राह्मणभुक्तिश्च पुरश्चरणमुच्यते ॥ गुरोर्लब्धस्य मन्त्रस्य प्रसन्नाच्च यथाविधि । पञ्चाङ्गोपासनं सिद्धेः परश्चैतद्विधीयते ॥ निष्कामाणामनेनैव साक्षात्कारो भवेदपि । अर्थसिद्धिः सकामानां सर्वं तन्निष्फलं न चेत् ॥ पञ्चाङ्गमेवत् कुर्वीत यः पुरश्चरणं बुधः । स वै विजयेते लोके विद्यैश्वर्यसुतादिभिः ॥ आदावन्ते च मध्ये च ब्राह्मणान् भोजयेद् बहून् । दिने दिने यथाशक्त्या राममुद्दिश्य भक्तितः ॥” होमतर्पणमार्जनाशक्तौ दशमांशद्विगुणजपेनाङ्गपूर्णता । मार्जनदशमांशब्राह्मणभोजनन्त्वनिवार्यमेव । शक्तौ तु शुभपुण्यनक्षत्रवारतिथ्यादौ लौकिकेऽग्नौ यथाविधि संस्कृत्य तिलैः कमलैर्बिल्वप्रसूनैः पलाशकुसुमैर्दुर्वाभिः यथाकामं जुहुयात् । “ध्यात्वापि मन्मथं रामं सीतां चापि रतिं स्मरेत् । सर्ववश्यप्रयोगेषु जपहोमादिकर्मसु ॥ न सन्ति गुरवो यस्य नैव दीक्षाविधिक्रमः । रामरक्षां वदन्नेव तुलसीदलर्मपयेत् ॥ दीक्षामन्तरशतेनापि न तत्फलमवाप्यते ।” अथ चैत्रमासादिकृत्यानि । तत्रादौ दोलोत्सवः “रामभक्तस्य सिद्धयर्थं यदुक्तं नारदादिभिः । मधौ शुक्लतृतीयायां जानकीरमणं प्रभुम् ॥ राजोपचारैः सम्पूज्य मासमान्दोलयेत् कलौ । दक्षिणाभिमुखं देवं दोलमानं सुरेश्वरम् ॥ सुपूजितं सकृद् दृष्ट्वा सर्वपापैः प्रमुच्यते । दोलारूढस्य देवस्य येऽग्रे कुर्वन्ति जागरम् ॥ सर्वपुण्यफलावाप्तिर्निमिषे निमिषे भवेत् ।”