रामायण मीमांसा (स्वामी करपात्री जी महाराज - रामायण दार्शनिक महाग्रन्थ एवं सम्पूर्ण चरित्र-मीमांसा)
Ramayana Mimamsa of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 1024, कुल 1049 में से
संदर्भ में पढ़ें९५० रामायणमीमांसा परिशिष्ट अथ चैत्रशुकलनवम्यां रामनवमीव्रतम् । इदं नित्यं नैमित्तिकं काम्यञ्च । “मुमुक्षवोऽपि हि सदा श्रीरामनवमीव्रतम् । न त्यजन्ति सुरश्रेष्ठो देवेन्द्रोऽपि विशेषतः ॥ चैत्रमासे नवम्यां तु शुक्लपक्षे रघूत्तमः । प्रादुरासीत्पुरा ब्रह्म परं ब्रह्मैव केवलम् ॥ तस्मिन् दिने तु कर्तव्यमुपवासव्रतं सदा ।” अत्र सदा पदश्रवणात् अस्य व्रतस्य यावज्जीवविभाव्यत्वं गम्यते । “प्राप्ते श्रीरामनवमीदिने मर्त्यो विमूढधीः । उपोषणं न कुरुते कुम्भीपाकेषु पच्यते ॥” इति तदकरणे महादोष श्रवणात् फलश्रवणेऽस्य न नित्यत्वम् । फलश्रवणं च— ‘सूर्यग्रहे कुरुक्षेत्रे महादानैः कृतैर्मुहुः । तत्फलं समवाप्नोति श्रीरामनवमीव्रतात् ॥ कुर्याद् रामनवम्यां य उपाषणमतन्द्रितः । मातुर्गर्भं न चाप्नोति स वै रामो भवेत् स्वयम् ॥ तस्मात् सर्वात्मना सर्वैः कर्तव्यं नवमोव्रतम् । मुच्यन्ते सर्वपापेभ्या यान्ति ब्रह्म सनातनम् ॥” इति पापक्षयद्वारा मोक्षार्थत्वं च गम्यते । तस्माद् रात्रिसत्रयागवदस्य नित्यत्वादिकं न विरुद्धम् । अथ रामनवमीनिर्णयः— “पुनर्वस्वृक्षयोगो हि स्वल्पोऽपि यदि दृश्यते । चैत्रशुकलनवम्यां तु सा तिथिः सर्वकामदा ॥ श्रीरामनवमी प्रोक्ता कोटिसूर्यग्रहाधिका । चैत्रशुक्ला तु नवमी पुनर्वसुयुता यदि ॥ सैव मध्याह्नयोगेन महापुण्यतमा भवेत् ।” तत्र अष्टमीविद्धा नवमी त्याज्या । ‘दशम्यादिषु वृद्धिश्चेद्विद्धा त्याज्यैव वैष्णवैः ।’ इति वचनात् । तदन्येषां तु विद्धापि नवमी ग्राह्या । ‘उपोषणं नवम्यां वै दशम्यामेव पारणम्’ इति दशम्यामेव पारणाविधानात् । वैष्णवास्तु— “साङ्गं समुद्रं सन्यासं सत्रृषिच्छन्ददैवतम् । सदीक्षाविधि सध्यानं समन्त्रं द्वादशाक्षरम् ॥ अष्टाक्षरमथान्यं वा ये मन्त्रं समुपासते । ज्ञेयास्ते वैष्णवा लोके विष्ण्वर्चनरताः सदा ॥” अथवा “सदीक्षाविधि सन्यासं मन्त्रराजं सयन्त्रकम् । सहस्राक्षरसंयुक्तं मूलव्यूहादिभेदतः ॥ पञ्चायतनरूपं वा ये विप्राः समुपासते । महावैष्णवसंज्ञास्ते महाविष्णोरतिप्रियाः ॥”