रामायण मीमांसा (स्वामी करपात्री जी महाराज - रामायण दार्शनिक महाग्रन्थ एवं सम्पूर्ण चरित्र-मीमांसा)
Ramayana Mimamsa of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
९५० रामायणमीमांसा परिशिष्ट अथ चैत्रशुकलनवम्यां रामनवमीव्रतम् । इदं नित्यं नैमित्तिकं काम्यञ्च । “मुमुक्षवोऽपि हि सदा श्रीरामनवमीव्रतम् । न त्यजन्ति सुरश्रेष्ठो देवेन्द्रोऽपि विशेषतः ॥ चैत्रमासे नवम्यां तु शुक्लपक्षे रघूत्तमः । प्रादुरासीत्पुरा ब्रह्म परं ब्रह्मैव केवलम् ॥ तस्मिन् दिने तु कर्तव्यमुपवासव्रतं सदा ।” अत्र सदा पदश्रवणात् अस्य व्रतस्य यावज्जीवविभाव्यत्वं गम्यते । “प्राप्ते श्रीरामनवमीदिने मर्त्यो विमूढधीः । उपोषणं न कुरुते कुम्भीपाकेषु पच्यते ॥” इति तदकरणे महादोष श्रवणात् फलश्रवणेऽस्य न नित्यत्वम् । फलश्रवणं च— ‘सूर्यग्रहे कुरुक्षेत्रे महादानैः कृतैर्मुहुः । तत्फलं समवाप्नोति श्रीरामनवमीव्रतात् ॥ कुर्याद् रामनवम्यां य उपाषणमतन्द्रितः । मातुर्गर्भं न चाप्नोति स वै रामो भवेत् स्वयम् ॥ तस्मात् सर्वात्मना सर्वैः कर्तव्यं नवमोव्रतम् । मुच्यन्ते सर्वपापेभ्या यान्ति ब्रह्म सनातनम् ॥” इति पापक्षयद्वारा मोक्षार्थत्वं च गम्यते । तस्माद् रात्रिसत्रयागवदस्य नित्यत्वादिकं न विरुद्धम् । अथ रामनवमीनिर्णयः— “पुनर्वस्वृक्षयोगो हि स्वल्पोऽपि यदि दृश्यते । चैत्रशुकलनवम्यां तु सा तिथिः सर्वकामदा ॥ श्रीरामनवमी प्रोक्ता कोटिसूर्यग्रहाधिका । चैत्रशुक्ला तु नवमी पुनर्वसुयुता यदि ॥ सैव मध्याह्नयोगेन महापुण्यतमा भवेत् ।” तत्र अष्टमीविद्धा नवमी त्याज्या । ‘दशम्यादिषु वृद्धिश्चेद्विद्धा त्याज्यैव वैष्णवैः ।’ इति वचनात् । तदन्येषां तु विद्धापि नवमी ग्राह्या । ‘उपोषणं नवम्यां वै दशम्यामेव पारणम्’ इति दशम्यामेव पारणाविधानात् । वैष्णवास्तु— “साङ्गं समुद्रं सन्यासं सत्रृषिच्छन्ददैवतम् । सदीक्षाविधि सध्यानं समन्त्रं द्वादशाक्षरम् ॥ अष्टाक्षरमथान्यं वा ये मन्त्रं समुपासते । ज्ञेयास्ते वैष्णवा लोके विष्ण्वर्चनरताः सदा ॥” अथवा “सदीक्षाविधि सन्यासं मन्त्रराजं सयन्त्रकम् । सहस्राक्षरसंयुक्तं मूलव्यूहादिभेदतः ॥ पञ्चायतनरूपं वा ये विप्राः समुपासते । महावैष्णवसंज्ञास्ते महाविष्णोरतिप्रियाः ॥”
संख्या १ रामोपासना ९५१ “न चलति निजवर्णधर्मतो यः सममतिरात्मसुहृद्विपक्षपक्षे । न हरति न च हन्ति किंचिदुच्चैर्जितमनसं तमवेहि वैष्णवाग्र्यम् ॥” इति पाद्मे। “त्रिभुवनविभवहेतवेऽप्यकुण्ठस्मृतिरजतात्मसुरादिभिर्विमृग्यात् । न चलति भगवत्पदारविन्दाल्लवनिमिषार्धमपि यः स वैष्णवाग्र्यः ॥” इति श्रीमद्भागवते। अथ व्रते प्रतिनिधिः— एकादश्यादौ शरीरासामर्थ्ये धर्मपत्नीं पुत्रं शिष्यं वा व्रतं कारयेत् । “अलङ्कारं पुष्पवस्त्रं गन्धाक्षतानुलेपनम् । उपवासे न दुष्येत पुण्यस्त्रीणां तथाञ्जनम् ॥ मन्वादिमुनिभिः प्रोक्तं चतुर्विधमुपोषणम् । सताम्बूलमताम्बूलं सभोजनमभोजनम् ॥ त्रिरात्रादि सताम्बूलमेकादश्यामभोजनम् । अताम्बूलं च पक्षान्ते सभोजनमुदाहृतम् ॥ एकभक्तेन नक्तेनायाचितेन हविष्यतः । पयोमूलफलैर्वापि बालवृद्धातुरः क्षिपेत् ॥ हविष्यभोजनं स्नानं सत्यमाहारलाघवम् । अग्निकार्यमधःशय्यां नक्तभोजी षडाचरेत् ॥ अष्टैतान्यव्रतघ्नानि आपो मूलं फलं पयः। हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधम् ॥” अथ रामपूजा— “सर्वेषां राममन्त्राणां मन्त्रराजः षडक्षरः । तारकं ब्रह्म चेत्युक्तं तेन पूजा प्रकाश्यते ॥ यद्वा पुरुषसूक्ताद्यैः दीक्षाविधिमजानतः । वैदिकस्याप्यभावे तु नाममन्त्रैर्भवेद् ध्रुवम् ॥” एवं रामं संपूज्य अष्टमीकृत्यम्—चैत्रशुक्लाष्टम्यां नद्यादौ यथाविधि स्नात्वा वेदशास्त्ररताय दम्भवर्जिताय दान्ताय विप्रवराय भक्त्या सम्पूज्य श्रीरामप्रतिमादानं करिष्य इति सङ्कल्प्य तमेवाचार्यत्वेन वृत्वा विप्रमाज्येन स्नपयित्वा स्वमात्मानं तैलेनाभ्यज्य स्नायात् । श्वेताम्बरधरः श्वेतगन्धमाल्यानि धारयन् कृतमाध्याह्निक आचार्यं सात्त्विकान्नैर्भोजयेत् । हृदि रामं स्मरन् स्वयं भुञ्जीत । “नवम्या अङ्गभूतेन एकभक्तेन राघव । इक्ष्वाकुवंशतिलक प्रीतो भव भवप्रिय ॥” एकभक्तव्रती सहाचार्यो जितेन्द्रियः रामकथां शृण्वन्नह्नःशेषं नयेत् । आचार्यसहितो रात्रावधःशायी एकान्ते श्रीरामापितमानसो वसेत् । ततो नवम्यां प्रातः समुत्थाय स्नात्वा सन्ध्यामुपास्य सर्वाणि कर्माणि शीघ्रं समाप्य— “उपोष्य नवमीमद्य यामेष्वष्टसु राघव । तेन प्रीतो भव त्वं मे संसारात् त्राहि मां हरे ॥”
९५२ रामायणमीमांसा परिशिष्ट इत्युपवासनियमं गृह्णीयात् । स्वगृह्योत्तरभागे चतुर्द्वारं सुवितानं सुतोरणं मनोरमं महोत्सेधं पुष्पाद्यैः समलङ्कृतं मण्डपं कारयेत् । “शङ्खचक्रहनूमद्भिः प्राग्द्वारे समलङ्कृतम् । गरुत्मच्छाङ्गिबाणैश्च दक्षिणे समलङ्कृतम् ।। पद्मस्वस्तिकनीलैश्च कौबेरे समलङ्कृतम् । गदाखड्गाङ्गदैश्चैव पश्चिमे समलङ्कृतम् ।। मध्ये हस्तचतुष्काढ्यं वेदिकायुक्तमायतम् । प्रविश्य नृत्यगीतैश्च वाद्यैश्चापि सुसंयुतम् ॥” एवं मण्डपं प्रविश्य श्रीरामं स्मरन्नुपोष्य अष्टासु यामेषु यथाविधि पूजयित्वा इमां स्वर्णमयीं प्रतिमां श्रीरामप्रीतये रामभक्ताय दास्ये । तेन— “प्रीतो रामो हरत्वाशु पापानि सुबहूनि मे । अनेकजन्मसंसिद्धान्यभ्यस्तानि महान्ति च ॥” इति त्रिरुच्चार्य सङ्कल्प्य “कोमलाङ्गं विशालाक्षमिन्द्रनीलसमप्रभम् । दक्षिणाङ्गे दशरथं पुत्रस्येक्षणतत्परम् ।। पृष्ठतो लक्ष्मणं देवं सच्छत्रं कनकप्रभम् । पार्श्वे भरतशत्रुघ्नौ तालवृन्तकरावुभौ ।। अग्रेऽव्यग्रं हनूमन्तं रामानुग्रहकाङ्क्षिणम् । वित्तशाठ्यमकृत्वैव मूर्तिं कुर्यात् प्रयत्नतः ।।'' अथ पूजा—आसनोपरि संविश्य न्यासजालं विधाय शङ्खं कलशं सम्पूज्य पूजाद्रव्याणि आत्मानं च मन्त्र- मुच्चरन् पाणिना प्रोक्षयेत् । ततः सर्वतोभद्रं निर्माय प्रथमयामपूजामारभेत । तत्प्रकारो यथा—सर्वतोभद्रमध्ये तीर्थोदकैः पूर्णं रत्नोदरं शुभं कुम्भं चूतपल्लवपुष्पैः संयुक्तं संस्थाप्य सौवर्णादिपत्रे यन्त्रमालिखेत् । कलशोपरि वस्त्रयुगच्छन्नं यन्त्रं स्थापयित्वा तत्र दिव्यसिंहासनं स्थापयित्वा अर्चयेत् । आवाहनादिमुद्राभिर्देवमावाह्य सम्पूज्य नानारत्नविचित्राणि भूषणानि दद्यात् । यक्षकर्दमादिभिर्गन्धैः कह्लारकेतकीजातीपुन्नागादिपुष्पैः पूजयेत् । अथ कौशल्यापूजा— “रामस्य जननी चासि रामात्मकमिदं जगत् । अतस्त्वां पूजयिष्यामि लोकमातर्नमोऽस्तु ते ॥” दशरथपूजा— “नमो दशरथायेति पूजयेत् पितरं तथा ।” तत आवरणक्रमेण पीठदेवताः पूजयेत् । तद्यथा— “ततोऽनुज्ञाप्य देवेशं परिवारान् समर्च्चयेत् । पूर्वषट्कोणकोणेषु हृदयादीनि षट् क्रमात् ॥” एवमनुज्ञां गृहीत्वा सपरिवारं देवं पूजयेत् । द्वितीये यामे मध्याह्ने जन्म भावयेत् । उच्चस्थे ग्रहपञ्चके सुरगुरौ सेन्दौ नवम्यां मधौ लग्ने कर्कटके पुनर्वसुयुते मेषं गते पूषणि । निर्दग्धुं निखिलाः पलाशसमिधो मेध्यादयोध्या- रणेराविर्भूतमभूतपूर्वविभवं यत्किञ्चिदेकं महः ।
संख्या १ रामोपासना १५३ “मत्वेवं वादयेद् वाद्यान्यर्घ्यं दद्याज्जगत्पतेः । फलपुष्पाम्बुसम्पूर्णं गृहीत्वा शङ्खमुज्ज्वलम् ॥ अशोकचूतकुसुमैर्युक्तं च तुलसीदलैः । गृहाणार्घ्यं मया दत्तं भ्रातृभिः सहितोऽनघ ॥” इत्यर्घ्यमन्त्रः । “पुनः पुष्पाञ्जलिं दत्त्वा प्रतियाममतन्द्रितोऽर्चयेत् ।” अथ दशमीकृत्यम्—दशम्यां स्नात्वा सन्ध्यादिकं कृत्वा श्रीरामं यथाविधि सम्पूज्य साज्येन पायसेनाष्टोत्तर- शतं मन्त्रैर्हुत्वा आचार्यं भक्त्या सन्तोष्य रत्नकुण्डलाङ्गुलीयकादिभिः पूजयेत् । ततः— “इमां स्वर्णमयीं रामप्रतिमां समलङ्कृताम् । चित्रवस्त्रयुगच्छन्नां रामोऽहं राघवाय ते ॥ श्रीरामप्रीतये दास्ये तुष्टो भवतु राघवः ।” इति प्रतिमां दत्त्वा भुवं दद्यात् । अन्येभ्योऽपि यथान्यायं गोहिरण्यादिकं दद्यात् । वासोयुगं धान्यं यथा- विभवं दत्त्वा ब्राह्मणैः सह भुञ्जीत । तेभ्यो दक्षिणां दद्यात् । अथ पारणासङ्कल्पः— ‘तव प्रसादस्वीकारः कृतं यत्पारणं मया । व्रतेनानेन सन्तुष्टः स्वामिन् भक्तिं प्रयच्छ मे ॥ कृत्वैवं ब्रह्महत्यादिपापेभ्यो मुच्यते ध्रुवम् । बहुना किमिहोक्तेन मुक्तिस्तस्य करे स्थिता ॥ कुरुक्षेत्रे महापुण्ये सूर्यपर्वण्यनेकंशः । तुलापुरुषदानाद्यैः कृतैर्यल्लभ्यते फलम् ॥ तत्फलं लभते मर्त्यो दानेनानेन सुव्रत ।” अथाकिञ्चनव्रतम्— “अकिंचनोऽपि नियतमुपोष्य नवमीदिने । कृत्वा जागरणं भक्त्या रामभक्तैः समन्वितः ॥ स्मरन् रामं धिया भक्त्या पूजयेत् विधिवन्मुने ।” शक्तावुद्यापनमपि कर्तव्यम् । अशक्तौ तु— “वर्षे वर्षेऽसमर्थस्य व्रतेनैव प्रपूर्णता । न तस्योद्यापनं किञ्चिद् व्रतादन्यद् विधीयते ॥ सर्वव्रतस्य पूत्यर्थमिदं रामव्रतं चरेत् । नान्येनास्याब्धिवत्पूर्तिरनेनैवास्य पूर्णता ॥” अथ चैत्रद्वादश्यां दमनकोत्सवः—प्रातः स्नात्वा देवेशं समभ्यर्च्य— “गच्छेद् दमनकाराममेकादश्यां सुशोभितम् । क्रमेणादाय तत्रैव पूजयेच्चन्दनादिना ॥ नेष्यामि रामपूजार्थमिति सम्प्रार्थ्य तं नमेत् । उत्पाट्य पञ्चगव्येन प्रोक्ष्य प्रक्षाल्य वारिणा ॥
९५४ रामायणमीमांसा परिशिष्ट अशोकमूले गन्धाद्यैः स्थण्डिले पूजयेत् क्रमात् । अशोकं च तथा कालं वसन्तं काममेव च ॥ ॐ अशोकाय नमस्तुभ्यं कामस्त्रीशोकनाशन । शोकार्ती हर मे नित्यमानन्दं जनयस्व मे ॥ त्रुट्यादिकालपर्यन्तः कालरूपी महाबलः । फलते चैव यः सर्वं तस्मै कालात्मने नमः ॥ वसन्ताय नमस्तुभ्यं वृक्षगुल्मलताप्रिय । सहस्रमुखसंवाह कामरूप नमोऽस्तु ते ॥ कामभस्मसमुद्भूत रतिबाष्पपरिप्लुत । ऋषिगन्धर्वदेवाविविमोहक नमोऽस्तु ते ॥ सङ्गृह्य दमनं पुण्यं पूजयेन्मनुनाऽमुना । नमोऽस्तु पुष्पबाणाय जगदाह्लादकारिणे ॥ मन्मथाय जगन्नेत्रे रतिप्रीतिप्रियाय ते ।” अनेन मन्त्रेण दमनकमुपस्थाय परिवारसमन्वितं कामरूपिणं दमनकं पूजयित्वा धोतेन वाससाच्छाद्य घण्टा- पुरुषसूक्तादिभिः स्वगृहमानयेत् । ततो निशायां श्रीरामस्याग्रे सर्वतोभद्रं निर्माय तत्र कुम्भं संस्थाप्य पुण्यैनाम्बुनाऽऽपूर्य तत्र पूजयेत् । पञ्चवर्णोढ्यवितानमारोप्य महतीं पूजां कृत्वा तदधिवासनं कुर्यात् । ‘दमन त्वमिहागच्छ सान्निध्यं कुरु ते नमः ।’ इत्यावाह्य (१) क्लीं कामदेवाय नमः (२) श्रीं ह्रीं रत्यै नमः (३) ॐ मन्मथाय रामाय क्लीं वसन्तसखाय च । स्मराय चेक्षुचापाय पुष्पास्त्रायेति पूजयेत् । ॐ तत्स्वरूपाय विद्महे कामदेवाय धीमहि । तन्नोऽनङ्गः प्रचोदयात् । इत्यादिभिः सम्पूज्य प्रातस्तुभ्यं दमनकं निवेदयिष्यामीति भगवन्तमामन्त्र्य प्रातर्भगवन्तं सम्पूज्य । “देवदेव जगन्नाथ वाञ्छितार्थप्रदायक । हृदिस्थान् पूरयेः कामान् मम कामेश्वरप्रिय ॥ इमं दमनकं देव गृहाण मदनुग्रहात् । वनमालां यथा देव कौस्तुभं सततं हृदि ॥ तद्वद् दामनकं मालं पूजां च हृदये वह ।” इति चैत्रकृत्यम् अथ वैशाखज्येष्ठयोः कृत्यम्—वैशाखे ज्येष्ठे च द्वादश्यां स्वर्णरौप्यादिपात्रे तोयस्थं हरिं पूजयेत् । अथाषाढकृत्यम् “आषाढ़शुक्लद्वादश्यां क्षीराब्धिशयनोत्सवः । कार्योऽन्यथा त्वनावृष्टिर्भवेत्पौराणिकवाक्यतः ॥” अथ रामशयनविधिः—गीतवादित्रादिघोषेण शिविकया देवं जलाशयं नीत्वा पुष्पाञ्जलिं दत्त्वा पुरुष- सूक्तादिभिः सम्पूज्य देवं तत्र तोरणाद्यलङ्कृतायां नावि शेषपर्यङ्के फणामणिगणामले स्वापयेत् । विविधोपचारैः सम्पूज्य— “सुप्ते त्वयि जगन्नाथ जगत्सुप्तं भवेदिदम् । विबुद्धे च विबुध्येत प्रसन्नो मे भवाव्यय ॥” इति प्रार्थयेत
in line 7, वैष्णवे in line 6, कौशेय in line 10.
In देवतायै, there is no repha, it's just देवतायै! Wait, look closely: is there an 'r' sound? No, the dative is देवतायै ("त्वामाराध्य देवतायै पवित्रकमारोपयन्तु" - having worshiped you, let them offer the pavitra to the deity!). That makes 100% perfect sense grammatically and ritualistically: "तान्त्रिकास्त्वत्सादृश्यानुकारेण निवीतेन त्वामाराध्य देवतायै पवित्रकमारोपयन्तु।"
Wait, look at त्वातसादृश्यानुकारेण: in line 8, is there a space: तान्त्रिकास्त्वत्सा दृश्यानुकारेण?
Yes, there is a small gap between त्सा and दृश्या: तान्त्रिकास्त्वत्सा दृश्यानुकारेण or तान्त्रिकास्त्वत्सादृश्यानुकारेण? It looks like a slight space, but let's keep it close to the text.
Let's check :
`अथ पवित्रलक्षणम्— "हेमरूप्यताम्रक्षौमैः सूत्रैः कौशेयपद्मजैः ।`
Wait, is the quote opening `"` or `''` or `“`
“कार्तिके पश्चिमे यामे स्तवं गीतं करोति यः । वसते श्वेतवैकुण्ठे पितृभिः सह नारद ॥ नीराज्येशं ततः स्नायाद्विधिना हरितुष्टये ।” वाद्यघोषैर्देवं जलाशयं नीत्वा सङ्कल्प्य मन्त्रान् पठेत् । “ब्रह्मेन्द्ररुद्राग्निकुबेरसूर्य्यसोमादिभिर्वन्दितपादपीठ । बुध्यस्व देवेश जगन्निवास मन्त्रप्रभावेण सुखेन देव ॥ उत्तिष्ठोत्तिष्ठ गोविन्द त्यज निद्रां जगत्पते । त्वयि सुप्ते जगन्नाथ जगत्सुप्तं भवेदिदम् ॥ उत्थिते चेष्टते सर्वमुत्तिष्ठोत्तिष्ठ माधव ।” ‘इदं विष्णु’ रित्यादिवैदिकांश्च मन्त्रान् पठेत् । तीरे देवं समुपवेश्यानुग्रहं प्रार्थयेत् ॥ “सोऽसावदभ्रकरुणो भगवान् प्रबुद्धः प्रेमस्मितेन नयनाम्बुरुहं विजृम्भन् । उत्थाय विश्वविजयाय च नो विषादं माध्व्या गिरापनयतात् पुरुषः पुराणः ॥” इति पुष्पाञ्जलिं दत्त्वा पञ्चामृतैः संस्नाप्य वस्त्रालङ्कारचन्दनैः स्रग्धूपदिव्यालङ्कारताम्बूलादिभिरर्चयेत् । चातुर्मास्यव्रतादिकं समर्प्य गीतवाद्यस्वनैर्देवं रथमारोहयेत् । “रथस्थितो नरैर्विप्रपूजितो मधुसूदनः । ददाति वाञ्छितं तेषामन्ते च परमां गतिम् ॥ दोलायमानं गोविन्दं रथस्थं मधुसूदनम् । नृणां भक्त्या सकृद् दृष्ट्वा पुनर्जन्म न विद्यते ॥” पौर्णमास्यां सन्ध्यायां त्रिपुरोत्सवः कार्यः । तत्र— “कीटाः पतङ्गा मशकाश्च वृक्षा जले स्थले ये विचरन्ति जीवाः । दृष्ट्वा प्रदीपं न च जन्मभागिनो भवन्ति सत्यं श्वपचोऽपि विप्राः ॥” इति स्कान्दे त्रिपुरोत्सवः मार्गशीर्षे एकभक्तं नक्तव्रतं कृत्वा हरिं सम्पूज्य ब्राह्मणांस्तर्पयेत् । अथ पौषमाघयोः कृत्यम्— “पौषस्यैकादशीं शुक्लामारेभ्य स्थण्डिलेशयः । मासमात्रं रघुप्रीत्यै द्विवारं स्नानमाचरेत् ॥ त्यक्तभोगो जितेन्द्रियः त्रिकालं श्रीरामं दध्योदनादिभिरर्चयेत् । अथ फाल्गुनमासकृत्यम्—तत्र पौर्णमास्यां होलिकोत्सवं वसन्तर्चां कुर्यात् । विमले प्रभाते प्रतिपद्भास्करोदये नित्यकर्मादिकं निर्वाह्य पितृदेवताः सन्तर्प्य सर्वोपद्रवशान्तये होलिकाविभूतिवन्दनं कुर्यात् । तत्र मन्त्रः— “वन्दितासि सुरेन्द्रेण ब्रह्मणा शङ्करेण च । अतस्त्वं पाहि भूतेभ्यो भूते भूतिप्रदा भव ॥” आम्रकुसुमप्राशनम्—आम्रकुसुमानि देवाय निवेदयेत् । विविधगीतविनोदननृत्यैर्देवं सन्तोषयेत् । उपलिप्ते गृहाजिरे अक्षतैश्चतुष्कं कृत्वा तन्मध्ये पीठं स्थापयित्वा पल्लवैर्युतं शुक्लवस्त्रोत्तरच्छदं कलशं स्थापयित्वा तत्रासन उप- विश्य भगवतोऽभिषेकं सदूर्वाश्वत्थपल्लवैः कुर्यात् ।
“कुसुमं चूतवृक्षस्य वसन्तनवपल्लवम् । सम्प्राशयामि सुखदमायुरारोग्यवर्धनम् ॥” इति भगवते निवेद्य प्राश्नीयात् । “ये पिबन्ति वसन्तादौ चूतपुष्पं सचन्दनम् । सम्यग्हृदिष्टकामस्य पूजां ते कुर्वते जनाः॥ अनन्तरं द्विजेन्द्राणां सूतमागधवन्दिनाम् । दद्याद्दानं यथाशक्ति कामात्मा प्रीयतामिति ॥ सायं चतुष्कगश्वेतच्छदपीठस्थितान् शुचीन् । रत्नकुम्भाम्भसा चूतपल्लवैरभिषेचयेत् ॥” अथाधिकमासकृत्यम्—“अधिकमासे तु सम्प्राप्ते स्मृत्वा सीतापतिं हरिम् । सुवर्णेनाज्यसंयुक्तांश्चयत्रिंशदपूपकान् ॥ दद्याच्च वेदविदुषे श्रोत्रियाय कुटुम्बिने । नश्यत्यकरणे शीघ्रं पुण्यं द्वादशमासजम् ॥” अथ दशमीसङ्कल्पः—द्वादशस्वपि मासेषु, उभयोरपि पक्षयोर्दशम्यां प्रातरुत्थाय नित्यं निर्वाह्य दशमीदिन- मारभ्य व्रतमहं करिष्य इति सङ्कल्प्य श्रीरामपादयोः पुष्पाञ्जलिं दत्वा शङ्खोदकेन सङ्कल्प्य प्रणमेत् । एकादश्यां पर्णाद्यै- र्दन्तधावनं कृत्वा स्नात्वा देवार्चनं कृत्वा व्रतसङ्कल्पं कुर्यात् । “एकादश्यां निराहारः स्थित्वाहमपरेऽहनि । भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाव्यय ॥ गृहीत्वौदुम्बरं पात्रं वारिपूर्णमुदङ्मुखः । उपवासं गृहीत्वाथ मन्त्रपूतं जलं पिबेत् ॥ कृत्वा चावश्यकं सर्वं द्वादश्यां व्रतमर्पयेत् ।” “कार्कश्यं दशकन्धरो मधुपतेः सन्मार्दवं मैथिलो दातृत्वं च विभीषणो बहुविधं स्नेहं पुनर्लक्ष्मणः । स्वामित्वं हनुमानुपेत्युपकृतिं देवा वियोगं पिता कोपानुग्रहमम्बुधिर्वयमपि प्रेमाऽङ्घ्रिजं साम्प्रतम् ॥ एवं श्रीरामपूर्वोत्तरतापनीयारामरहस्याद्युपनिषदगस्त्यसंहितावाशिष्ठसंहितारामार्चनचन्द्रिकाद्यनुसारिश्रीरामो- पासनसंक्षेपः । “वेदेषु चेतिहासेषु पुराणेषु महत्स्वपि । महाकाव्येषु चम्प्वादिनिबन्धेसु महोज्ज्वलम् ॥ आर्याणां जीवनोपायमनार्याणां कुतूहलम् । इतरेषां जनानां यदाश्चर्योन्मादकारकम् ॥ अतिक्रान्तैर्भविष्यद्भिर्वर्तमानैः सुधीश्वरैः । हृद्गतोत्तापशान्त्यर्थं गृह्यमाणतयाऽऽस्थितम् ॥ सौजन्योपज्ञमन्तःस्थगाढध्वान्तनिवारकम् । यद्धि सुश्लोकयामास वाल्मीकिर्भगवानृषिः ॥
९५८ रामायणमीमांसा परिशिष्ट पाश्चात्त्यः कश्चनागत्य भारतं तददूषत् । मलीमसः पुरोभागी प्रतीतं चरितं हरेः ॥ तेन रामकथानाम्ना निबन्धः प्रकटीकृतः । शोधरूपः स चात्यर्थमाक्षेपादिसमन्वितः ॥ एतादृशा दुनिबन्धा उपेक्ष्यन्ते मनीषिभिः । साधुभिः प्रतिभावद्भिर्लेखनीं कः कलङ्कयेत् ॥ तद्रामायणमीमांसानिबन्धे तर्ककर्कशे । प्रक्षालिता मया सम्यग्दोषा दुरभिसन्धिजाः ॥ नूतनाक्षेपसम्बन्धे काचिद् दिक् सम्प्रदर्शिता । ययाञ्जसा तरिष्यन्ति जना मोहमहार्णवम् ॥ आधृत्य मतमार्याणामितिहासोऽपि दर्शितः । रामपूजाविधिः प्रोक्तो हार्दध्वान्तनिवारकः ॥ महेश्वरस्य कृपया निर्मितेन मया विभुः । एतेन सुनिबन्धेन प्रीयतां राघवो हरिः ॥”
प रि शि ष्ट ( २ ) उद्धृत ग्रन्थों की अनुक्रमणिका ग्रन्थनाम पृष्ठ अगस्तिपौलस्तिरामायण ३३१ अगस्त्यरामायण ३१० अगस्त्यसंहिता २६१, २६६, ३१०, ६७७, ६८८ अग्निपरीक्षा १४५, १४७, १४८, १४९, १५०, १५१— २७०, ३७४, ३७९ अग्निपरीक्षा बनाम आर्यपरीक्षा १३७ अग्निपुराण २५९, २६०, २७८, ३९२, ४७१, ५१३— ५१४, ६८८ अग्निवरुणरामायण ३३१ अग्निवेशरामायण ३०४, ५४६, ५४७ अङ्गदपैंज ३२९ अङ्गदरायवार ३२७ अङ्गदेर रायवार ३२७ अञ्जनापवनञ्जय ३१९ अथर्ववेदसंहिता १५, १८, २०, २३, २४, २६, ३२, ३८, ३९, १८९, १९०, १९१, २५७, २९७, ४३६, ४५८, ५९०, ६५४, ६६४, ६७३, ६७७, ६९१, ८७९ अथर्वशीर्ष १०५ अद्भुतदर्पण ३१९ अद्भुतब्राह्मण २१ अद्भुतरामायण ६, २४७, २६२, २६३, २८६, ३०३, ३२७, ४०४, ४१८, ४२७, ४२८, ४५३, ५०१, ५०७, ५६६, ५९२, ६१३, ६२८, ६९८, ७००, ७०१, ७०२, ७०३ अध्यात्मरामायण ६, १२, ५९, ६३, ६५, ६६, ७५, ७९, २१०, २४७, २५९, २६१, २६२, २६५, २६६, २६७, २८४, २८५, २८६, ३०३, ३०७, ३१४, ग्रन्थनाम पृष्ठ ३२४, ३२५, ३२७, ३२९, ३३१, ३७७, ३८५, ३८८, ३९१, ३९३, ४०४, ४०५, ४०९, ४१०, ४११, ४१७, ४१९, ४२०, ४२३, ४२९, ४३०, ४३१, ४३२, ४३६, ४३८, ४३९, ४६४, ४६७, ४६९, ४७०, ४७१, ४७३, ४८३, ४८४, ४८६, ४८७, ४९९, ५००, ५०१, ५०९, ५११, ५१४, ५१७, ५२४, ५२५, ५२६, ५२७, ५२८, ५३१, ५३२, ५६७, ५७०, ५७२, ५७६, ५८२, ५८३, ५८४, ६०१, ६०४, ६१४, ६२८, ६३४, ६४६, ६७७, ६८९, ६९७, ६९९, ७००, ७०३, ७०९, ७१७, ७४६, ७४८, ७६७, ७६८ अध्यात्मरामायणपाञ्चाली ३२७ अनर्घराघव ५४, १२१, १९६, २९८, ३१५, ३१८, ४०४, ४०६, ४०७, ४७१, ५१२, ७०० अनामक जातक १००, १७०, ३३३, ४६९, ४९२, ५१२, ५६६, ६४१ अनुगीता २६२ अपराधक्षमापनस्तोत्र ७५३ अपालासूक्त ३१२, ३२९ अब्दरामायण ३०४ अभिज्ञानशाकुन्तल ८०३, ८६८, ८६९, ८७१ अभिधर्म महाविभाषा १७०, १७१, ७१३ अभिनवराघव ३१७ अभिषेकनाटक १९६, ३१४, ३३४, ५६५, ६७५ अमरकोश ६० अम्बरोषोपाख्यान २७० अर्कप्रकाश ( वैद्यक ) ५९०
९६० रामायणमीमांसा परिशिष्ट अर्जुनविजय ३३५ अर्ली हिस्ट्री आफ वैष्णवसेक्ट २५५ अवतारचरित ३२९ अवधविलास ३२९ अवन्तिसुन्दरी ८६५ अष्टयाम ३२९ अष्टाध्यायी ( पा० सू० ) ५६, ६२, २१३, ३९७, ४६३, ८१३, ८५१, ८६६, ८७५ असमिया गीतिरामायण ४६६, ४८५, ४९८ अससीया बालकाण्ड ३२६, ३७६, ३७७, ३७८, ३८१, ३८४, ३८५, ३८६, ४०९, ४३४, ४३६, ४४७, ४५०, ४७० असमियारामायण ३२६, ४७०, ७०० असिया ३७० असिया पोर्तुगेसा ३७० अहिमहिरावण की कथा ३३० अहिमहिरावणवध ३३१ आगमपाञ्चरात्ररामायण ३३१ आगरिया आदिवासी रामकथा ६१३ आण्डपुराण २८२ आत्मरामायण ३३१ आदित्यपुराण २७९ आदित्यहृदय ४९ आदिपुराण ( जैन ) १२८, ६१५, ७०६, ८५१ आदिपुराण २७८, ४२३, ६८८ आदिरामायण ५६, १७८, २२९, २३०, २३३, ३०४, ३२९, ४७२, ४९२, ५०७, ५४१, ५७८, ६३३, ६४० आनन्दकन्दतन्त्र १०८ आनन्दरामायण ६, ५९, ६६, ७६, ७८, १६३, १८७, २४७, २६२, २६३, २६५, २८६, ३०४, ३१३, ३२४, ३३०, ३३७, ३७५, ३७८, ३८१, ३८२, ३८५, ३८६, ३८७, ३८८, ३९२, ३९३, ४०४, ४०५, ४०७, ४०९, ४१७, ४१८, ४१९, ४२४, ४२६, ४३०, ४३८, ४३९, ४४०, ४४२, ४४४, ४५३, ४६५, ४६७, ४६९, ४७०, ४७१, ४७३, ४८१, ४८४, ४८५, ४८७, ४९०, ४९८, ४९९, ५०२, ५१०, ५११, ५१२, ५१४, ५२४, ५२५, ५२६, ५२७, ५२८, ५२९, ५३१, ५३२, ५६७, ५६८, ५७०, ५७१, ५७२, ५७४, ५७६, ५७८, ५७९, ५८२, ५८३, ५८४, ५८६, ५८७, ५९१, ५९२, ५९७, ६००, ६०१, ६०४, ६०८, ६१०, ६११, ६१२, ६१३, ६१४, ६२१, ६२२, ६२५, ६२७, ६३०, ६३१, ६३४, ६३६, ६३७, ६४१, ६४२, ६४३, ६४६, ६७७, ६८९, ६९३, ६९७, ६९९, ७००
संख्या २ अनुक्रमणिका ९६१ उत्तररामायण ३२ कल्पनामण्डतिका १७१ उत्तररामायणचम्पू ३२२ कल्पसूत्र ७८ उदात्तराघव ३१३, ४१८ कवितावली ३२८ उदारराघव ३१५, ४८३, ४९६, ५८५ कहावली ६४२ उन्मत्तराघव ३१३, ३१९, ५७९ काठकगृह्यसूत्र २०, २८, ३५ उपदेशपद ६४२ काठकसंहिता १८, २२३, २२५, २५०, ६५५ उर्मिला ३३० काण्वसंहिता १३६ उर्वशीपुरूरवासूक्त ३१२ कादम्बरी ३२१, ८६५ उल्लाघराघव ३१८ कान्तकोइलि ३२७ ऋग्वेदभाष्य ५९०, ८७८ कापिलपुराण २७९ ऋग्वेदसंहिता ४, १५, १६, १८, १९, २०, २१, २२, कामधेनुतन्त्र ६९० २३, २८, ३४, ३५, ३६, ३७, ३८, ४१, ४२, ४३, कामन्दकीय नीतिशास्त्र ६८४ ४४, ४६, ४७, ८१, १३९, १४१, १८०, १८१, कामसूत्र ८६७ १८४, १९१, १९५, २१९, २२२, २२३, २२४, कामायनो ५०४ २५१, २५३, २५६, २५७, २६६, २७१, २९७, कालनिर्णयरामायण ३०४ ३०६, ३१२, ३८८, ३९०, ३९५, ४५८ ६२८, कालनेमिर रायवार ३२७ ६५०, ६५१, ६५२, ६५३, ६५४, ६५५, ६७३, कालिकापुराण २७८, २७९, ४४७, ५४५, ६८८, ७१० ७९२, ७९३, ८३६, ८५४, ८६४ काव्यप्रकाश ७१८, ७४० एण्टीक्यूटी आफ हिन्दू एस्ट्रोनोमी एण्ड दी तामिल ८७३ काव्यमीमांसा ७३५, ७३६, ८६५, ८७९ ऐतरेयब्राह्मण १०५, २२४, २५१, ७९८ काव्यादर्श १५४ ओट्टक्कूतनरामायण ३२३ काशिका ८६६ ओरायन ८५४ काशीकेदारमाहात्म्य ६७, २८३, ५९३, ६६३ औशनस उपपुराण २७९ काशीरहस्य ६८९ कठोपनिषद् ३६, ४४३, ४७४, ७८१, ७९१, ७९९, ८०२ काश्मीरीरामायण या रामावतारचरित ८१, ३२६, ३८८, कण्णशरामायण ३२४ ४१०, ४१८, ४२३, ४३८, ४५१, ४८२, ४९९, कथारामायण ३२७ ५२७, ५२८, ५८१, ५९१, ५९२, ६४३ ६९३ कथासरित्सागर १२९, २३२, ३१३, ३२१, ३३३, ३३७, किरणावली ८६९ ३८५, ३८६, ३९३, ४०१, ४०२, ५८३, ६२२, किष्किन्धातीर्थमाहात्म्य २७१ ६४२, ६९३, ६९४, ६९८, ८६८ कुन्दमाला १४७, ३१३, ३१५ ६४१, ६६५, ६९७, ७०० कपिदूत ३२० कुशलवोपाख्यान ३०६ कपिष्ठलसंहिता १८ कुमारतन्त्र ५९० कर्णदानकाव्य ६२६ कुमारसंभव ८६८, ८७१ कलिराघव २६१ कुरान १९०, ४९३ कलिसंतरण २६२ कूर्मपुराण ७६, २६८, २७८, २७९, ४९३, ४९४, कल्किपुराण २७८, ४४२, ६८८ ५०१, ५६८, ५९२, ६६३, ६८० ७२५ कल्पतरु २२७ कृत्तिवासरामायण ६३, ६६, ७६, ३२७, ३७६, ३७७, ३७८, ३८१, ३८५, ३८६, ३८७, ४०४, ४०६, १२१
९६२ रामायणमीमांसा परिशिष्ट ४१०, ४१८, ४२३, ४२९, ४३०, ४३२, ४३३, ४३४, ४३५, ४३८, ४४१, ४४७, ४४९, ४६५, ४७०, ४७३, ४८१, ४८३, ४९२, ५२४, ५७१, ५७३, ५७४, ५८१, ५८२, ५८४, ५८६, ५८७, ५९७, ६२२, ६३०, ६३५, ६४३, ६४५, ७०० कृत्यारावण ३१८, ४८१, ४९८, ५७० कृष्णोपनिषद् २६२, २८७, ३०५, ७१२ केनोपनिषद् ७११, ८४८ केरलवर्मरामायण ३२४ कैकेयी ३३१ कैवल्योपनिषद् ७९८ कोकिलसन्देश ३२० कौशलकिशोर ३२९ कौमारपुराण २८२ कौशिकगृह्यसूत्र २५ कौशिकसूत्र २१ कौषीतकि उपनिषद् ३८८, ३८९, ६३०, ७९४, ८४३ कौषीतकिगृह्यसूत्र ८७५ कौषीतकिब्राह्मण १८ खण्डखाद्य ८३२ खण्डनखण्डखाद्य १५६ खुद्दनिकाय १६४ खोतानीरामायण ३३३, ३७५, ३७७, ३७९, ४०६, ४३८, ४४१, ४४४, ४५१, ४९८, ५७९, ५८४, ५९१ गणकचरित ३२६, ५२५, ५२७ गद्यकथा १३४ गणपति अथर्वशीर्ष १०५ गणेशपुराण ३९३ गन्धर्ववेद २४१ गरुड़पुराण २७३, २७९, ३८६, ४६५, ४८१, ६७७, ६८८ गर्गसंहिता ७१२ गाथासप्तशती २२५, ८७० गायत्रीरामायण ३०६ गीतगोविन्द ३२० गीतराघव ३२१ गीता १३, ३६, ५०, ६२, ६८, १०३, १०८, १४३ १८६, २२३, २५९, २६४, २६६, २६७, ३१०, ३१६, ३२९, ३८९, ४१६, ४१९, ४२१, ४३१, ४५८, ५६२, ५८६, ६०९, ६१८, ६३८, ६५३, ७११, ७१४, ७१५, ७१९, ७३४, ७३८, ७४२, ७४७, ७४८, ७६०, ७७२, ७८१, ७९१, ७९३, ८०१, ८०२, ८१०, ८१५, ८१७, ८१८, ८२०, ८३७, ८४३, ८४४, ८४५, ८५५, ८५६, ८५७ गीतामाहात्म्य ७६८ गीतारहस्य ८५७, ८५९ गीतावली ३२८, ३८६, ६४६ गीताव्याख्या २८४ गुणरत्नकोष ६६० गुहागुह्यकरामायण ३३१ गोपथब्राह्मण ३२ गोपालतापनीयोपनिषद् २५२, २५६, २९९, ७१७ गोपीनाथरामायण ३२४ गोभिलगृह्यसूत्र ३५ गोविन्दरामायण ३३०, ५७२ गोविन्दाष्टक २६८ गौतमसूत्रभाष्य ३२ गौतमधर्मसूत्र ८७८ गौतमधर्मसूत्रभाष्य ८७८, ८७९ गौतमीमाहात्म्य २७१, २७८ चतुष्पदी ६६ चन्द्रदूत ३२० चन्द्रावतीरामायणगाथा ३२७, ६४३ चम्पूरामायण ३२२, ३२७ चरक ६७५, ८७४, ८७९ चरितरामायण ३३४ चाणक्यनीतिशास्त्र कौटिल्यअर्थशास्त्र ६६८, ६७५, ६८२, ७३६, ८७५, ८७९, ८८० चातुर्वर्ण्यसंस्कृतिमीमांसा ६७३ चान्द्ररामायण ३११ चित्रकूटमाहात्म्य ३०४ चित्रबन्धरामायण ३२० चिप्स फ्राम दी जर्मन वर्कशाप ८५३
संख्या २ अनुक्रमणिका ९६३ चैतन्यचरितामृत ६६३ छलितराम ३१८, ६४१ छान्दोग्योपनिषद् १७, ३२, ६५, १२४, २२३, ६३०, ७३६, ७८१, ७८७, ८३५, ८४०, ८४७, ८५४ जटायुरामायण ३३१ जयद्दिसजातक १६९, १७२ जातकट्ठवण्णना १६४, १६७, १६९, १७१, ५९० जातकमाला ६०५ जानकीगीता ३२१ जानकीपरिणय ३१३, ३१९, ३८८, ३९१, ५२८, ५८५ जानकीमङ्गल ३२८ जानकीरामक्रीडाह्निक ३१३ जानकीहरण ५४, १९६, २६५, ३१३, ४०७, ४०९, ७०० जिनरामायण १३० जीवनसंबोधन १३५ जीवस्तुतिरामायण ३२६ [L
९६४ रामायणमीमांसा परिशिष्ट ३७९, ३८१, ४३८, ४५५, ४६६, ४६८, ८५७, | ध्वन्यालोकवृत्ति ८६५ ८८० | नन्दिकेश्वरपुराण २७९, २८२ दशरूपक १५४ | नागरी प्रचारिणी पत्रिका (भाग १२ अङ्क १) २५६ दशावतारचरित्र ३१३, ४५२ ६४१ | नाट्यशास्त्र १५३, ७४८ दाक्षिणात्यबालकाण्ड ५०७ | नारदपञ्चरात्र ३०५ दायभाग १६९, ८१२ | नारदपुराण २७१, ४१७, ६१२, ६२२ दाशरथि की पाञ्चाली ६२६ | नारदीयपुराण २२३, २७१, २७८, २७९ दि ओपन दोरे ३६९ | नारदीय भक्तिशास्त्र २५५ दीपमालाकल्प ८८० | नारसिंह उपपुराण २७९ दीपवंश १८३ | नारायणोपनिषद् ७१७ दी बंगाली रामायणस् ६२९ | निर्णयसिन्धु २८४ दी बुलेटिन आफ दी ट्राइवल रिसर्च इंस्टिच्यूट | निघण्टु ३०६ (छिन्दवाड़ा) ३२५ | निरुक्त १८०, २९७, ८५५ दुरन्तरामायण ३११ | निरुक्तभाष्य ८६७ दुर्गासप्तशती २६, २७, ३०, ४१, ४९, २५१, ५०४, | निरुक्तसमुच्चय ८७८ ५३६, ७१४ | निर्वचनोत्तररामायण ३२४ दुर्गासप्तशतीरहस्य ४५४ | नृत्यरामायण ३२८ दूताङ्गद ३१३, ३१९, | नृसिंहतापनीयोपनिषद् २५६, २६७, २८५, २९९, ४१५ देवधम्मजातक १६७ | नृसिंहपुराण २७५, २७७, ३८६, ३९२, ३९९, ४००, देवरामायण ३११ | ४०५, ४०७, ४०९, ४१२, ४१६, ४१७, ४२५, देवीपुराणं ४१७, ४५१, ६८८. ७०० | ४३९, ४४०, ४६७, ४८१, ४९७, ५००, ५१०, देवीभागवत २७, २७५, २७७, ४२३, ४२४, ४२५, ४३७ | ५१४, ५६८, ६११, ६४०, ६४६, ६८८, ६८९, ४४९, ४८१, ४९९, ५०१, ५१३, ७१० | ७०९ देवीशतक ८६५, | नृसिंहोत्तरतापनीय ४१५ दोहावली ६२२ | न्यायकुमुदचन्द्र ( जैनन्याय ) ११२ दौर्वाससपुराण २८०, २८२ | न्यायकुसुमाञ्जलि १२६, ७५७ द्विपदरामायण १९६, ३२३ | न्यायभाष्य ८७८, ८७९, ८८० धनुर्वेद २४१ | न्यायवार्तिक ८८० धम्मपद १६७, १६८, ८५७, ८८० | न्यू टेस्टामेन्ट ७१२ धम्मपदटीका १६७, १६८ | न्यू इण्डियन एण्टीक्वेरी २६७ धर्मकल्पद्रुम २७९ | पउमचरिउ १३० धर्मखण्ड ३०८, ५०२, ५२६, ५२७, ७०९ | पउमचरियं १२८, १२९, १३१, १५५, ३१९, ३७५, धर्मरामायण ३३१ | ३७६ ३७८, ३८३, ४२९, ४३०, ४३९, ४४५, धर्मसिन्धु २६९ | ४४७ ४४९, ४५०, ४६९, ४७०, ४८०, ४८४, ध्यानमञ्जरी ३२९ | ४९०, ४९२, ४९४, ४९९, ५०८, ५०९, ५२५, ध्वन्यालोक १६० | ५२६, ५३०, ५६५, ५८०, ५८१, ५८३, ५८४, | ५९०, ५९२, ५९७; ५९८, ५९९, ६००, ६०५,
संख्या २ अनुक्रमणिका ९६५ ६१०, ६१४, ६२१, ६२७, ६३२, ६४१, ६४५, पुण्यचन्द्रोदयपुराण १३५ ६८९, ६९४, ६९७, ७०९, ७२९ पुण्याश्रयकथासार १३५ पञ्चतन्त्र ८७२ पुराणसंहिता ६८८ पञ्चसिद्धान्तिका ८७३ पुरुषसूक्त ९, ३०९, ७१७, ८३६ ८४६, ८४७ पञ्चीकरण २५८ पुर्तगालीवृत्तान्त (क) ३७० पत्रकौमूदी ८७२ पुर्तगाली वृत्तान्त (ख) ३७० पदावली ३२९ पुर्तगाली वृत्तान्त (ग) ३७० पद्मचरित या रामचरित १२९ १३०, १५१, ६४१ पूर्णरामायण ३२८ पद्मपुराण ६, १७, १९, ३२, ४४, ७६, ११९, १५२, पूर्वोत्तरतापनीयोपनिषद् ६, १६, १५३, २१०, २२३, २४०, २७४, २७८, ३०४, पृथ्वीराजरासो ३२९ ३०७, ३१३, ३१५, ३२७, ३२९ ३३१, ३७४, ३८१, प्रतिज्ञायोगन्धरायणनाटक ६७५ ३८५, ३८६, ३९१, ३९२, ३९३, ३९८, ३९९, प्रतिमानाटक ३१३, ३१४, ३७४, ३७९, ४६५, ४७१, ४०९, ४१०, ४१२, ४१६, ४१८, ४२४, ४२५, ४९८, ६७५ ४२६, ४२९, ४३०, ४३१, ४३६, ४३८, ४४०, प्रबोधचन्द्रोदयनाटक १४२ ४४१, ४४६, ४४७, ४६५, ४६७, ४७०, ४७६, प्रभावचरित ८६९ ४७८, ४८१, ४८३, ४८६, ४८७, ५०७, ५०९, प्रमाणवातिक ८६७ ५१०, ५११, ५२५, ५४३, ५४४, ५५२, ५६५, प्रश्नोपनिषद् १६, ६५, ४२३ ५६६, ५६८, ५७०, ५८२, ५८४, ५९६, ५९७, प्रसन्नराघवनाटक ३१२, ३१८, ४०४, ४०६, ४४०, ६०८, ६११, ६१२, ६३१, ६३४, ६४२, ६४५, ५००, ५३० ६४७, ६५९, ६८८, ६९५, ६९८, ६९९, ७०० प्राकृतकामधेनु ५९० ७०९, ७१०, ७१७, ७१८, ७२९, ७३७, ८३५ ८७९ प्राकृतव्याकरण २३२ पद्मपुराण (जैन) या रामचरित १३० प्राकृतलङ्केश्वर ५९० पद्मपुराण अथवा बलभद्रपुराण १३० प्राचीन भारत की सभ्यता ८६१ पम्परामायण या रामचरितपुराण १३० बलरामदासरामायण ३८५, ४१९, ४४०, ४४७, ४४९, परानन्दपुराण २७९ ४६६, ४८४, ५०२, ५०७, ५०८, ५२२, ५२४, पराशरमाधव ७९, १९६, २६९ ५२७, ५९०, ६४५, ७०० पराशर ज्योतिषसंहिता ८७९ बाइबिल १८२, १९०, १९३, २०७, ४९३, ५१८, ५६५, पशुपतिपुराण २७९ ६२५, ७२०, ७१४, ७५७, ८५८, ८५९ पातानी रामकथा ३३७ बार्हस्पत्यपुराण २८० पातालखण्डरामायण ३२६ बालचरितनाटक ८५५ पारस्करगृह्यसूत्र २४, २८, ३५, बालमण्डनतीर्थमाहात्म्य ४७७ पाराशरपुराण २०१ बालभारत ८७९ पालकपालाम ३६८ ३८१, ४५२, ५९५ बालरामायण ५४, १९६, ३१६, ३३५, ४०४, ४४०, पाश्चात्य वृत्तान्त नं० १ ३९५, ४५४, ४६९, ४९२ ४६६, ४८१, ५२९, ५६७, ५७१, ५९६, ७०० पाश्चात्य वृत्तान्त नं० १० ३८६ बिहोररामकथा ५०७, ५६५, ५७९ ५८२ पाश्चात्य वृत्तान्त नं० ११ ३७८ विहोर्सग्रन्थ ३२४ पाश्चात्य वृत्तान्त नं० १३ ४५३, ४५८, ५०६ बुद्धचरित ६३, १७०, १७१, ८५५, ८७९, ८९०
९६६ रामायणमीमांसा परिशिष्ट बृहत्कथा २३२, ३२१, ६४२, ८६८ बृहत्कथामञ्जरी ६८९, ६९७, ८७३ बृहत्कोशलखण्ड २६५, ३०९ ४३३, ४३८ बृहत्संहिता १९३, २५९, ८७२, ८७३ बृहत्सदाशिवसंहिता ६८८ बृहदारण्यकभाष्य २२५ बृहदारण्यकोपनिषद् १७, ३१, ३२, ६५, ८०, १८०, २२५, ४२४, ६३०, ७०२, ७३१, ७६७, ७८०, ७८१, ७९२, ८०१, ८११, ८३५, ८५४, ८५७ बृहद्देवता ६०७ बृहद्धर्मपुराण २७७, ३१२, ४१०, ४९७, ४९९, ५२५ ६८८, ७१०, ७१८ बृहद्ब्रह्मसंहिता ६८८ बृहद्विवेकग्रन्थ २७९ बृहद्राघव २६१ बृहन्नारदीयपुराण ६८८ बोयाज ओस इण्ड ओरिएण्टाल (१७७२) ३७० बौद्धमहाविभाषा २३० बौधायनगृह्यसूत्र ८६२, ८७३ ब्रह्मचक्र ४८१ ४९७, ५८२, ५९५, ६१०, ६४४ ब्रह्मपुराण २७१, २७८, ३३१, ३७४, ३८०, ३८१, ३८३, ३८४, ३८६, ३८७, ३९१, ३९२, ३९३, ४०९, ४६५, ४७०. ६२१, ६४६, ६८८, ६८९, ६९७, ७०८, ८६३, ८७९ ब्रह्मरामायण ३०४, ३०९ ब्रह्मवैवर्तपुराण ७०, २७५, २७८, ३८४, ३८५, ३८६ ३८७, ३९३, ४००, ४२३, ४४९, ४८१, ४८२ ४९२, ५०१, ५९६, ६२२, ६५३ ब्रह्मसंहिता ६८८ ब्रह्मसूत्र ५, २२, ३१, ४५, ५२, ८१, १९९. २६८, ३८९, ५७३, ६७६, ७३४, ७५३, ७६७, ७६८, ७७३, ७९०, ७९२, ८०१, ८४३ ब्रह्मसूत्रशाङ्करभाष्य २८, ३५, २४५, २४७, २५०, ४१५, ६६३, ८३९ ब्रह्माण्ड उपपुराण २७९ ब्रह्माण्डपुराण १७, २५३, २६२, २६८, २७३, २७९ ३९५, ४२०, ४२३. ४२५, ६८८, ७१७, ७८४, ८६० ब्रह्माण्डभूगोल ३२७ ब्रह्माण्डविवेक २७९ भक्तकूर्मवराहरामायण ३३१ भक्तिरसामृतसिन्धु ७१२ भट्टिकाव्य ५४, १९६, ३१३, ३३४, ४०९, ४१०, ४४१, ६०७, ७०० भद्रकल्पावदान ६०५ भरतमिलाप ३२९ भरतज्यैष्ठ्यविचार ३७९ भविष्यपुराण २७८, २८१, ३७४. ६०१, ६२१, ६२२, ६३०, ६३४, ६८८ भविष्योत्तरपुराण ८७९ भागवत ७८, १९४, २११, २१७, २१९, २२०, २२४, २५२, २५३, २५४, २५५, २५६, २५७, २५८, २५९, २६२, २६३, २६५, २६६, २६७, २६८, २६९, २७०, २७३, २७७, २७८, २८१, २८५, २९७, २९८, ३०६, ३०७, ३२९, ३८३, ३९५, ४०७, ४०८, ४१६, ४१७, ४२०, ४२२, ४२५, ४२७, ४२९, ४३०, ४३२, ४३३, ४३९, ४७३. ४८१, ४८२, ४९९, ५०५, ५१४, ५३७, ५५१, ५९६, ६०३, ६३२ ६३४, ६४२, ६५५, ६७२, ६७७, ६८७, ६८८, ६८९, ६९७, ७०९, ७१५, ७१६, ७१८, ७३०, ७३२, ७३४, ७३५, ७३६, ७३७, ७३८, ७३९, ७४०, ७४१, ७४३, ७४४, ७४५, ७४६, ७४८, ७५४, ७६१, ७६३, ७६५, ७६६, ७६७, ७६८, ७७६, ७९२, ७९४, ७९९, ८००, ८०६, ८११, ८१३. ८१८, ८१९, ८२०, ८३४, ८३५, ८४९, ८७३ भागवतटीका श्रीधरी ४९, ७३८ भागवततात्पर्यनिर्णय २५८ भागवतमहात्म्य १८४, २६९ भागवतसारबोधक २५८ भागवतानुकमणिका २५८ भानुभट्टकृतरामायण ३२५ भामती ७८७
संख्या २ अनुक्रमणिका ९६७ भारत और भारतीय संस्कृति २५८ भारत में अंग्रेजी राज ७१२ भारतभ्रमण ८६० भारतीयज्योतिष ८५६, ८७४ भारतीय साहित्य का इतिहास ८५३ भार्गवपुराण २८२ भावरामायण १८७ भावार्थरामायण ६, ३३०, ३३१ ३७६, ३७८, ३८१, ३८६, ४०९, ४२९, ४३४, ४३९, ४७०, ४७३, ४८०, ४८१, ४८३, ४८५, ४९०, ४९८, ५०२, ५०६, ५०७ ५०८, ५१२, ५१७, ५२४, ५२६ ५२७, ५२८, ५६७, ५६८, ५७१, ५७४, ५७६, ५७८, ६२१, ६२३, ६२७, ६३१, ६३५, ६४५, ६९४, ७०० भाषायोगवासिष्ठ ३२९ भास्कररामायण ३२४ भिलोदीरामायण ३२५ भुशुण्डिरामायण २६५, ३०४, ३०५, ४३२, ४४२, ७८५ भोजपुरी ग्रामगीत ५८४ भ्रमरदूत ३२० मञ्जुलरामायण ३१० मत्स्यपुराण ६२, ७६, ७७, ७८, २५३, २६८, २७८, ३८०, ३८१, ३८३, ४२३, ४२५, ७०२. ८५९ मनुस्मृति ५, ७१, ११३, १४४, १७५ २०६, ४६१, ४७९, ४८८, ५१४, ६६२, ६७९, ७३१, ७३२, ७५६, ८१५. ८१९, ८४७, ८५५, ८५७, ८६३, ८७५ मन्त्रभागवत १३६, १८१ मन्त्ररामायण ६, ५७, १३६, ३०५, ३०६, ७०२ महाकालीरामायण ३३१ महाकुणालजातक १६८ महानाटक ३१७, ३३४, ३३५, ३८६, ३८७ ३८८, ४०४, ४०७, ४३०, ४९६, ५०९, ५११, ५७३, ५७८, ५८०, ५८२, ७०० महानारायणोपनिषद् ७१७ महानिर्वाणमुक्त ८५७ महाभागवतपुराण २७७, ४२०, ४५१, ५६४, ६८८, ७०० महाभारत ६, १९, २१, ३०, ३२, ३६, ४५, ५६, ५८, ६२, ६३, ६८, ६९, ७०, ७१, ७६, ७७ ७८, ८४, ८५, ८६, ८८, ९२, ९३, ९५, ९६, ९७, ९८, १२९, १३६, १३९, १४४, १६५, १६६, १७८, १८१, १८५, १८६, १९७, २०६, २०९, २१९, २२३, २२५, २२६, २२७, २२९, २३०, २४५, २४६, २५०, २५१, २५२, २५३, २५४, २५६, २५९, २६०, २६५, २६९, २७०, २७२, २७७, २८६, ३१२, ३२१, ३२७, ३३८, ३३९, ३४०, ३७३, ३७६, ३७८, ३८०, ३८१, ३८३. ३८४, ३८५, ३८६, ३८७, ३९२, ३९३, ३९४, ३९५, ४०५, ४०६, ४०७, ४०८, ४१४, ४२१, ४२२, ४२३, ४२७, ४३०, ४३६, ४३७, ४३८, ४४४, ४४५, ४५६, ४६०, ४६४, ४६९, ४८३, ४८९, ४९५, ५०२, ५०३, ५०४, ५०७, ५१०, ५१३, ५१४, ५२३, ५२९ ५३०, ५३२, ५४९, ५६६, ५७०, ५७२, ५७५, ५७६, ५७८, ५७९, ५८१, ५८२, ५९०, ५९२, ५९५, ५९६, ५९७, ५९९, ६००, ६०४, ६०५ ६०६, ६०७, ६०८, ६१६, ६१७, ६१८, ६२४, ६२५, ६२६, ६२७. ६२८, ६२९, ६३०, ६३८, ६३९, ६४०, ६४६, ६४७, ६७३, ६७४, ६७५, ६७६, ६७७, ६७८, ६८६, ६९९, ७००, ७०१, ७०२, ७०७. ७१०, ७१२, ७१४, ७१५, ७१६, ७१७, ७२९, ७३२, ७३३, ७३४, ७३७, ७३८, ७३९, ७४०, ७४१, ७४२, ७४४, ७४५, ७४६, ७४८, ७५३, ७६१, ७६३, ७६७, ७६८, ७७२ ७७३, ८३४, ८३६, ८५१, ८५५, ८५६, ८५९ ८६३, ८६५, ८७४, ८७५, ८७६, ८७७, ८७८, ८७९ महाभारत और भारतीय संस्कृति ८५२ महाभारतमीमांसा ८६० महाभारतरामायण ३३१ महाभारतीरामायण ३३१ महाभाष्य ५२, ७४, ३९०, ७७१, ८४६, ८६२, ८७४, ८७९ महारामायण २४७, ३०५, ३१०, ४२०, ४९८
९६८ रामायणमीमांसा परिशिष्ट
[स्तम्भ १]
महाराजमोत्सव ३०८ महावंश १८३ महावग्ग ८५६ महावीरचरित्र ३१४, ३१५, ३९४, ४०४, ४०६, ४३७, ४४०, ४७१, ५१२, ७०० महाशम्भुसंहिता ६८८ महासदाशिवसंहिता ६८८ महासुतसोमजातक १७५ महासुन्दरीतन्त्र ४४८ महीधरभाष्य १९१ महीरावणवध ३२६, ६८८ माण्डूक्य उपनिषद् ७१७ माधवकन्दली रामायण ३२६, ४६६, ६४५ मानवपुराण २७९ मानवमहासूत्र २४, ३५ मायापुष्पक ३१७ मारीचपुराण २७९ मारुतिस्तवराज ६३१, ६३६ मार्कण्डेयपुराण ७१, २६८, २७८, ६८८ मार्क्सवाद और रामराज्य ८३८ मालविकाग्निमित्र ८६८ माहेशपुराण २८२ माहेश्वरपुराण २७९ मिताक्षरा ६२, ७९, १९६, २६९, २९९ मिथोलोजो डेस इंडू ३७१ मिलिन्दप्रश्न ८५७ मुक्ताफल २५४ मुक्तिकोपनिषद् ६, २९, १३६, १८४, २६२, ६२८ मुद्गलपुराण २७९ मुण्डकोपनिषद् ६५, ४४३, ७८७, ८४४ मूलरामायण ६, ७, ५०, १९४, १९९, २०८, २२८, २३१, ३०४, ४२८, ४२९, ६८५ मृच्छकटिक ८६८ मेघदूत २५३, ३२०, ८६६, ८७१ मेघनादवध ३२७ मेधातिथिकृतमनुटीका ८७८ मेकॉजिफ, दि सिक्ख रिलीजन ३८७
[स्तम्भ २]
मैत्रायणी उपनिषद् ८५४ मैत्रायणीसंहिता १८, ८५४ मैथिलीकल्याण ३१३, ३१९ मैथ्यू ८५९ मैन्दरामायण ३११ मैरावणचरित अथवा हनुमद्विजय ३०७, ६३१ मोल्लरामायण ३२४ यजुःसंहिता १९१, १९५, २५५, २५७, २९७, ४५८, ४६६, ६२८, ६५०, ६५१, ६५२, ६५३, ६७३, ८५४ यज्ञफलनाटक ६७५ याज्ञवल्क्यस्मृति ३२, ८७८ यादवराघवीय ३२० यूवेर दाई मिथिश गुंड लेड दे भारत ८५२ योगभाष्य ८६७ योगभाष्य टीका ८७९ योगवासिष्ठ १५३, २१४, २८४, २८५, ३२९, ३३१, ३८६, ३९२, ४०८, ४२५, ४३२, ४३४ योगवासिष्ठसार २८४ योगशास्त्र टीकान्तर्गत सीतागावणकथानम् १३० योगशास्त्र (जैन) ५३० रघुनाथविलास ३१७ रघुवंश ५६, १०५, १४५, १४६, १६०, २१०, २३०, २८८, २८९, २९०, २९१, २९२, २९६, २९९, ३००, ३०१, ३०२, ३१२, ३७४, ३७६, ३७८, ३८६, ३९३, ४०९, ४११, ४१२, ४१६, ४१७, ४२०, ४२९, ४३०, ४३७, ५३०, ६०८, ६४७, ६७५, ६७७, ६७९, ६८२, ६९७, ७००, ७२३, ७८२, ७८४, ८६८, ८७१ रघुविलास ३१८ रघुवीरस्तव २८६ रङ्गनाथरामायण ३३७, ३८४, ३०५, ३८६, ५०७, ५०९, ५२७, ५६६, ५७०, ५७४, ५८२ रणयज्ञ ३३१ रलासियों डेस एरयर ३७० रसगङ्गाधर १११ रसिकावली ४८८
संख्या २ अनुक्रमणिका ९६९ राघवनैषधीय ३२० राघवपाण्डवीय ३२० राघवविलास ३२१ राघवानन्द ३१७ राघवाभ्युदय ३१८ राघवीययादव ३२० राघवीयसंहिता २६१ राघबोल्लास ३१३, ३८६, ३८८, ४०४, ४४३ राधासुधानिधिस्तोत्र २६७ रामकथा १५५, १९२, १९३, २२३, ३२२, ६२५ रामकल्पद्रुम ३२२ रामकियेन ३३९, ३४०, ३४१, ३४२, ३६८, ३६९, ३७२, ४०६, ४१०, ४१८, ४४१, ४५२, ४६७, ४७०, ४८३, ५०७. ५०९, ५२४, ५२५, ५२९, ५३१, ५६४, ५६७, ५७०, ५७१, ५८०, ५८१, ५८२, ५८६, ५८८, ५८९, ५९१, ५९४, ५९६, ५९७, ५९८, ५९९, ६१०, ६२२, ६२५, ६३२, ६४४, ६९३, ६९४, ६९८, ७००, ७१६ राम की कहानी राम की जबानी १०२, १२१ रामकीर्ति १४०, १४१, ३४२, ४०४ रामकृष्ण केलिकल्लोल ३२८ रामकृष्णविलोमकाव्य ३२० रामकेलि ३३९, ३४०, ३४१, ३७२, ३९२, ४०४, ४३४, ४३९, ४४०, ४४१, ४५२, ४६७, ४७४, ४८०, ४८३, ५०७, ५६७, ५८१, ६४४, ६९५, ६९८, ७०० रामकेलिङ्ग ३३५, ३३६, ४५५ रामगीतगोविन्द ३२०, ४८५ रामगीता २६२, ६२८, ८०१ रामचन्द अश्वमेध ३२६ रामचन्द्रविहार - ३२७ रामचन्द्रिका ३२९, ३३०, ४०४, ४९८, ५२५, ५७२, ६९८ रामचन्द्रोदय ३३० रामचरित १९६, ३१३, ३२९, ५१४, ५७२ रामचरितचिन्तामणि ३३० रामचरितं तथा रामकथप्पाट्टू रामकथा ३२४ १२२
रामचरितमानस २, ३, ६, १९, २५, ४९, ५०, ५४, ५५, ५८, ५९, ७४, ११५, १२४, १३६, १३९, १४०, १४१, १४२, १४३, १४५, १४६, १५०, १५१, १५२, १५७, १८०, २४१, २५४, २६०, २६२, २६४, २७५, २९२, ३०३, ३०७, ३०८, ३१०, ३१३, ३१४, ३२१, ३२८, ३२९, ३३१, ३७२, ३७६, ३७७, ३८६, ३८८, ४०४, ४०५, ४०६, ४०९, ४१०, ४१४, ४१५, ४१६, ४१९, ४२१, ४२२, ४२३, ४२४, ४२५, ४२६, ४२७, ४२८, ४२९, ४३०, ४३१, ४३२, ४३३, ४३६, ४४०, ४४१, ४४२, ४४३, ४५०, ४६४, ४६६, ४६७, ४६९, ४७१, ४७३, ४७९, ४८४, ४८५, ४८७, ४८८, ४९४, ४९८, ५०२, ५११, ५१२, ५१५, ५२६, ५२७, ५२८, ५३०, ५३३, ५६३, ५६४, ५६५, ५६७, ५७१, ५७२, ५७३, ५७४, ५७५, ५७६, ५७८, ५७९, ५८२, ५९६, ६००, ६११, ६३६, ६३९, ६४२, ६६५, ६६६, ६७९, ६८०, ६८१, ६८२, ६८४, ६८५, ६८६, ६८७, ६८८, ७००, ७१०, ७१६, ७१८, ७१९, ७२०, ७२१, ७२९, ७३०, ७३२, ७३५, ७३६, ७३९, ७४१, ७४३, ७४४, ७४५, ७४६, ७४७, ७४८, ७४९, ७५०, ७५१, ७५२, ७५३, ७५५, ७५६, ७५८, ७५९, ७६१, ७६२, ७६४, ७६५, ७६६, ७६८, ७६९, ७७०, ७७४, ७७५, ७७६, ७७७, ७८०, ७८४, ७८५, ७८८, ७९०, ७९१, ७९३, ७९५, ८००, ८०१, ८०२, ८०३, ८०४, ८०५, ८०६, ८०७, ८०८, ८०९, ८१०, ८११, ८१२, ८१३, ८१४, ८१५, ८१६, ८२१, ८२५, ८२६, ८२७, ८२८, ८२९, ८३०, ८३१, ८३२, ८३३, ८३६, ८३७, ८३९, ८४०, ८४१, ८४२, ८४३, ८४५, ८४८, ८४९, ८५० रामजन्म ३२९ रामजातक ३०४, ३६८, ३८१, ४५२, ५२४, ६२३ रामतापनीय उपनिषद् १६, ३६, ४१, १३६, १८४, २५२, २५६, २५९, २६१, २९९, ४१५, ४१६, ४२०, ४९१, ५१६, ५९०, ७१७