रामायण मीमांसा (स्वामी करपात्री जी महाराज - रामायण दार्शनिक महाग्रन्थ एवं सम्पूर्ण चरित्र-मीमांसा)
Ramayana Mimamsa of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 1028, कुल 1049 में से
संदर्भ में पढ़ें९५४ रामायणमीमांसा परिशिष्ट अशोकमूले गन्धाद्यैः स्थण्डिले पूजयेत् क्रमात् । अशोकं च तथा कालं वसन्तं काममेव च ॥ ॐ अशोकाय नमस्तुभ्यं कामस्त्रीशोकनाशन । शोकार्ती हर मे नित्यमानन्दं जनयस्व मे ॥ त्रुट्यादिकालपर्यन्तः कालरूपी महाबलः । फलते चैव यः सर्वं तस्मै कालात्मने नमः ॥ वसन्ताय नमस्तुभ्यं वृक्षगुल्मलताप्रिय । सहस्रमुखसंवाह कामरूप नमोऽस्तु ते ॥ कामभस्मसमुद्भूत रतिबाष्पपरिप्लुत । ऋषिगन्धर्वदेवाविविमोहक नमोऽस्तु ते ॥ सङ्गृह्य दमनं पुण्यं पूजयेन्मनुनाऽमुना । नमोऽस्तु पुष्पबाणाय जगदाह्लादकारिणे ॥ मन्मथाय जगन्नेत्रे रतिप्रीतिप्रियाय ते ।” अनेन मन्त्रेण दमनकमुपस्थाय परिवारसमन्वितं कामरूपिणं दमनकं पूजयित्वा धोतेन वाससाच्छाद्य घण्टा- पुरुषसूक्तादिभिः स्वगृहमानयेत् । ततो निशायां श्रीरामस्याग्रे सर्वतोभद्रं निर्माय तत्र कुम्भं संस्थाप्य पुण्यैनाम्बुनाऽऽपूर्य तत्र पूजयेत् । पञ्चवर्णोढ्यवितानमारोप्य महतीं पूजां कृत्वा तदधिवासनं कुर्यात् । ‘दमन त्वमिहागच्छ सान्निध्यं कुरु ते नमः ।’ इत्यावाह्य (१) क्लीं कामदेवाय नमः (२) श्रीं ह्रीं रत्यै नमः (३) ॐ मन्मथाय रामाय क्लीं वसन्तसखाय च । स्मराय चेक्षुचापाय पुष्पास्त्रायेति पूजयेत् । ॐ तत्स्वरूपाय विद्महे कामदेवाय धीमहि । तन्नोऽनङ्गः प्रचोदयात् । इत्यादिभिः सम्पूज्य प्रातस्तुभ्यं दमनकं निवेदयिष्यामीति भगवन्तमामन्त्र्य प्रातर्भगवन्तं सम्पूज्य । “देवदेव जगन्नाथ वाञ्छितार्थप्रदायक । हृदिस्थान् पूरयेः कामान् मम कामेश्वरप्रिय ॥ इमं दमनकं देव गृहाण मदनुग्रहात् । वनमालां यथा देव कौस्तुभं सततं हृदि ॥ तद्वद् दामनकं मालं पूजां च हृदये वह ।” इति चैत्रकृत्यम् अथ वैशाखज्येष्ठयोः कृत्यम्—वैशाखे ज्येष्ठे च द्वादश्यां स्वर्णरौप्यादिपात्रे तोयस्थं हरिं पूजयेत् । अथाषाढकृत्यम् “आषाढ़शुक्लद्वादश्यां क्षीराब्धिशयनोत्सवः । कार्योऽन्यथा त्वनावृष्टिर्भवेत्पौराणिकवाक्यतः ॥” अथ रामशयनविधिः—गीतवादित्रादिघोषेण शिविकया देवं जलाशयं नीत्वा पुष्पाञ्जलिं दत्त्वा पुरुष- सूक्तादिभिः सम्पूज्य देवं तत्र तोरणाद्यलङ्कृतायां नावि शेषपर्यङ्के फणामणिगणामले स्वापयेत् । विविधोपचारैः सम्पूज्य— “सुप्ते त्वयि जगन्नाथ जगत्सुप्तं भवेदिदम् । विबुद्धे च विबुध्येत प्रसन्नो मे भवाव्यय ॥” इति प्रार्थयेत