रामायण मीमांसा (स्वामी करपात्री जी महाराज - रामायण दार्शनिक महाग्रन्थ एवं सम्पूर्ण चरित्र-मीमांसा)
Ramayana Mimamsa of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 1027, कुल 1049 में से
संदर्भ में पढ़ेंसंख्या १ रामोपासना १५३ “मत्वेवं वादयेद् वाद्यान्यर्घ्यं दद्याज्जगत्पतेः । फलपुष्पाम्बुसम्पूर्णं गृहीत्वा शङ्खमुज्ज्वलम् ॥ अशोकचूतकुसुमैर्युक्तं च तुलसीदलैः । गृहाणार्घ्यं मया दत्तं भ्रातृभिः सहितोऽनघ ॥” इत्यर्घ्यमन्त्रः । “पुनः पुष्पाञ्जलिं दत्त्वा प्रतियाममतन्द्रितोऽर्चयेत् ।” अथ दशमीकृत्यम्—दशम्यां स्नात्वा सन्ध्यादिकं कृत्वा श्रीरामं यथाविधि सम्पूज्य साज्येन पायसेनाष्टोत्तर- शतं मन्त्रैर्हुत्वा आचार्यं भक्त्या सन्तोष्य रत्नकुण्डलाङ्गुलीयकादिभिः पूजयेत् । ततः— “इमां स्वर्णमयीं रामप्रतिमां समलङ्कृताम् । चित्रवस्त्रयुगच्छन्नां रामोऽहं राघवाय ते ॥ श्रीरामप्रीतये दास्ये तुष्टो भवतु राघवः ।” इति प्रतिमां दत्त्वा भुवं दद्यात् । अन्येभ्योऽपि यथान्यायं गोहिरण्यादिकं दद्यात् । वासोयुगं धान्यं यथा- विभवं दत्त्वा ब्राह्मणैः सह भुञ्जीत । तेभ्यो दक्षिणां दद्यात् । अथ पारणासङ्कल्पः— ‘तव प्रसादस्वीकारः कृतं यत्पारणं मया । व्रतेनानेन सन्तुष्टः स्वामिन् भक्तिं प्रयच्छ मे ॥ कृत्वैवं ब्रह्महत्यादिपापेभ्यो मुच्यते ध्रुवम् । बहुना किमिहोक्तेन मुक्तिस्तस्य करे स्थिता ॥ कुरुक्षेत्रे महापुण्ये सूर्यपर्वण्यनेकंशः । तुलापुरुषदानाद्यैः कृतैर्यल्लभ्यते फलम् ॥ तत्फलं लभते मर्त्यो दानेनानेन सुव्रत ।” अथाकिञ्चनव्रतम्— “अकिंचनोऽपि नियतमुपोष्य नवमीदिने । कृत्वा जागरणं भक्त्या रामभक्तैः समन्वितः ॥ स्मरन् रामं धिया भक्त्या पूजयेत् विधिवन्मुने ।” शक्तावुद्यापनमपि कर्तव्यम् । अशक्तौ तु— “वर्षे वर्षेऽसमर्थस्य व्रतेनैव प्रपूर्णता । न तस्योद्यापनं किञ्चिद् व्रतादन्यद् विधीयते ॥ सर्वव्रतस्य पूत्यर्थमिदं रामव्रतं चरेत् । नान्येनास्याब्धिवत्पूर्तिरनेनैवास्य पूर्णता ॥” अथ चैत्रद्वादश्यां दमनकोत्सवः—प्रातः स्नात्वा देवेशं समभ्यर्च्य— “गच्छेद् दमनकाराममेकादश्यां सुशोभितम् । क्रमेणादाय तत्रैव पूजयेच्चन्दनादिना ॥ नेष्यामि रामपूजार्थमिति सम्प्रार्थ्य तं नमेत् । उत्पाट्य पञ्चगव्येन प्रोक्ष्य प्रक्षाल्य वारिणा ॥