रामायण मीमांसा (स्वामी करपात्री जी महाराज - रामायण दार्शनिक महाग्रन्थ एवं सम्पूर्ण चरित्र-मीमांसा)
Ramayana Mimamsa of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 1031, कुल 1049 में से
संदर्भ में पढ़ें“कुसुमं चूतवृक्षस्य वसन्तनवपल्लवम् । सम्प्राशयामि सुखदमायुरारोग्यवर्धनम् ॥” इति भगवते निवेद्य प्राश्नीयात् । “ये पिबन्ति वसन्तादौ चूतपुष्पं सचन्दनम् । सम्यग्हृदिष्टकामस्य पूजां ते कुर्वते जनाः॥ अनन्तरं द्विजेन्द्राणां सूतमागधवन्दिनाम् । दद्याद्दानं यथाशक्ति कामात्मा प्रीयतामिति ॥ सायं चतुष्कगश्वेतच्छदपीठस्थितान् शुचीन् । रत्नकुम्भाम्भसा चूतपल्लवैरभिषेचयेत् ॥” अथाधिकमासकृत्यम्—“अधिकमासे तु सम्प्राप्ते स्मृत्वा सीतापतिं हरिम् । सुवर्णेनाज्यसंयुक्तांश्चयत्रिंशदपूपकान् ॥ दद्याच्च वेदविदुषे श्रोत्रियाय कुटुम्बिने । नश्यत्यकरणे शीघ्रं पुण्यं द्वादशमासजम् ॥” अथ दशमीसङ्कल्पः—द्वादशस्वपि मासेषु, उभयोरपि पक्षयोर्दशम्यां प्रातरुत्थाय नित्यं निर्वाह्य दशमीदिन- मारभ्य व्रतमहं करिष्य इति सङ्कल्प्य श्रीरामपादयोः पुष्पाञ्जलिं दत्वा शङ्खोदकेन सङ्कल्प्य प्रणमेत् । एकादश्यां पर्णाद्यै- र्दन्तधावनं कृत्वा स्नात्वा देवार्चनं कृत्वा व्रतसङ्कल्पं कुर्यात् । “एकादश्यां निराहारः स्थित्वाहमपरेऽहनि । भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाव्यय ॥ गृहीत्वौदुम्बरं पात्रं वारिपूर्णमुदङ्मुखः । उपवासं गृहीत्वाथ मन्त्रपूतं जलं पिबेत् ॥ कृत्वा चावश्यकं सर्वं द्वादश्यां व्रतमर्पयेत् ।” “कार्कश्यं दशकन्धरो मधुपतेः सन्मार्दवं मैथिलो दातृत्वं च विभीषणो बहुविधं स्नेहं पुनर्लक्ष्मणः । स्वामित्वं हनुमानुपेत्युपकृतिं देवा वियोगं पिता कोपानुग्रहमम्बुधिर्वयमपि प्रेमाऽङ्घ्रिजं साम्प्रतम् ॥ एवं श्रीरामपूर्वोत्तरतापनीयारामरहस्याद्युपनिषदगस्त्यसंहितावाशिष्ठसंहितारामार्चनचन्द्रिकाद्यनुसारिश्रीरामो- पासनसंक्षेपः । “वेदेषु चेतिहासेषु पुराणेषु महत्स्वपि । महाकाव्येषु चम्प्वादिनिबन्धेसु महोज्ज्वलम् ॥ आर्याणां जीवनोपायमनार्याणां कुतूहलम् । इतरेषां जनानां यदाश्चर्योन्मादकारकम् ॥ अतिक्रान्तैर्भविष्यद्भिर्वर्तमानैः सुधीश्वरैः । हृद्गतोत्तापशान्त्यर्थं गृह्यमाणतयाऽऽस्थितम् ॥ सौजन्योपज्ञमन्तःस्थगाढध्वान्तनिवारकम् । यद्धि सुश्लोकयामास वाल्मीकिर्भगवानृषिः ॥