रामायण मीमांसा (स्वामी करपात्री जी महाराज - रामायण दार्शनिक महाग्रन्थ एवं सम्पूर्ण चरित्र-मीमांसा)
Ramayana Mimamsa of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 1030, कुल 1049 में से
संदर्भ में पढ़ें“कार्तिके पश्चिमे यामे स्तवं गीतं करोति यः । वसते श्वेतवैकुण्ठे पितृभिः सह नारद ॥ नीराज्येशं ततः स्नायाद्विधिना हरितुष्टये ।” वाद्यघोषैर्देवं जलाशयं नीत्वा सङ्कल्प्य मन्त्रान् पठेत् । “ब्रह्मेन्द्ररुद्राग्निकुबेरसूर्य्यसोमादिभिर्वन्दितपादपीठ । बुध्यस्व देवेश जगन्निवास मन्त्रप्रभावेण सुखेन देव ॥ उत्तिष्ठोत्तिष्ठ गोविन्द त्यज निद्रां जगत्पते । त्वयि सुप्ते जगन्नाथ जगत्सुप्तं भवेदिदम् ॥ उत्थिते चेष्टते सर्वमुत्तिष्ठोत्तिष्ठ माधव ।” ‘इदं विष्णु’ रित्यादिवैदिकांश्च मन्त्रान् पठेत् । तीरे देवं समुपवेश्यानुग्रहं प्रार्थयेत् ॥ “सोऽसावदभ्रकरुणो भगवान् प्रबुद्धः प्रेमस्मितेन नयनाम्बुरुहं विजृम्भन् । उत्थाय विश्वविजयाय च नो विषादं माध्व्या गिरापनयतात् पुरुषः पुराणः ॥” इति पुष्पाञ्जलिं दत्त्वा पञ्चामृतैः संस्नाप्य वस्त्रालङ्कारचन्दनैः स्रग्धूपदिव्यालङ्कारताम्बूलादिभिरर्चयेत् । चातुर्मास्यव्रतादिकं समर्प्य गीतवाद्यस्वनैर्देवं रथमारोहयेत् । “रथस्थितो नरैर्विप्रपूजितो मधुसूदनः । ददाति वाञ्छितं तेषामन्ते च परमां गतिम् ॥ दोलायमानं गोविन्दं रथस्थं मधुसूदनम् । नृणां भक्त्या सकृद् दृष्ट्वा पुनर्जन्म न विद्यते ॥” पौर्णमास्यां सन्ध्यायां त्रिपुरोत्सवः कार्यः । तत्र— “कीटाः पतङ्गा मशकाश्च वृक्षा जले स्थले ये विचरन्ति जीवाः । दृष्ट्वा प्रदीपं न च जन्मभागिनो भवन्ति सत्यं श्वपचोऽपि विप्राः ॥” इति स्कान्दे त्रिपुरोत्सवः मार्गशीर्षे एकभक्तं नक्तव्रतं कृत्वा हरिं सम्पूज्य ब्राह्मणांस्तर्पयेत् । अथ पौषमाघयोः कृत्यम्— “पौषस्यैकादशीं शुक्लामारेभ्य स्थण्डिलेशयः । मासमात्रं रघुप्रीत्यै द्विवारं स्नानमाचरेत् ॥ त्यक्तभोगो जितेन्द्रियः त्रिकालं श्रीरामं दध्योदनादिभिरर्चयेत् । अथ फाल्गुनमासकृत्यम्—तत्र पौर्णमास्यां होलिकोत्सवं वसन्तर्चां कुर्यात् । विमले प्रभाते प्रतिपद्भास्करोदये नित्यकर्मादिकं निर्वाह्य पितृदेवताः सन्तर्प्य सर्वोपद्रवशान्तये होलिकाविभूतिवन्दनं कुर्यात् । तत्र मन्त्रः— “वन्दितासि सुरेन्द्रेण ब्रह्मणा शङ्करेण च । अतस्त्वं पाहि भूतेभ्यो भूते भूतिप्रदा भव ॥” आम्रकुसुमप्राशनम्—आम्रकुसुमानि देवाय निवेदयेत् । विविधगीतविनोदननृत्यैर्देवं सन्तोषयेत् । उपलिप्ते गृहाजिरे अक्षतैश्चतुष्कं कृत्वा तन्मध्ये पीठं स्थापयित्वा पल्लवैर्युतं शुक्लवस्त्रोत्तरच्छदं कलशं स्थापयित्वा तत्रासन उप- विश्य भगवतोऽभिषेकं सदूर्वाश्वत्थपल्लवैः कुर्यात् ।