रामायण मीमांसा (स्वामी करपात्री जी महाराज - रामायण दार्शनिक महाग्रन्थ एवं सम्पूर्ण चरित्र-मीमांसा)
Ramayana Mimamsa of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 623, कुल 1049 में से
संदर्भ में पढ़ें'५४६ रामायणमीमांसा अष्टादश
“रामस्यानुग्रहार्थं वै रावणस्य वधाय च। रात्रावेव महादेवी ब्रह्मणा बोधिता पुरा॥ ततस्तु त्यक्तनिद्रा सा नन्दायामाश्विने सिते। जगाम नगरीं लङ्कां यत्रासीद् राघवः पुरा॥ आगत इति शेषः। इदमागमनं रात्र्यन्ते, तदैव मातलि-रथागमनम् । रामेण घातयामास महामाया जगन्मयी। यावत्तयोः स्वयं देवी युद्धकेलिमुदैक्षत ॥ तावत्तु अष्टरात्राणि सर्वैर्देवैः सुपूजिता। निहते रावणे वीरे नवम्यां सकलैः सुरैः। विशेषपूजां दुर्गायाश्चक्रे लोकपितामहः॥” राम के अनुग्रहार्थ और रावण के वधार्थ ब्रह्मा द्वारा प्रबोधित देवी लङ्का में आयी। राम और रावण का सात दिन तक युद्ध कराया। नवमी को राम से रावण का वध कराया। सब देवताओं तथा ब्रह्मा के द्वारा ८ दिन तक दुर्गा की पूजा होती रही। अग्निवेश्य प्रसिद्ध रामायण में कहा गया है— मार्गशुक्लदशम्यां तु वसन्तीं रावणालये। सम्पातिर्दशमे मासि आचख्यौ वानरेषु ताम् ॥ एकादश्यां महेन्द्राग्रात् पुप्लुवे शतयोजनम्। तद्रात्रिशेषे सीताया दर्शनं हि हनूमतः ॥ द्वादश्यां शिंशपावृक्षे हनूमान् पर्यवस्थितः। तस्यां निशायां सीताया विश्वासालापसत्कथाः ॥ अक्षादिभिस्त्रयोदश्यां ततो युद्धमवर्तत। वधो ह्यक्षकुमारस्य वनविध्वंसनं तथा॥ × × × पौषशुक्लप्रतिपदस्तृतीयां यावदम्बुधेः। उपस्थानं ससैन्यस्य राघवस्य बभूव ह॥ विभीषणश्चतुर्थ्यां वै रामेण सह संगतः। समुद्रतरणार्थाय पञ्चम्यां मन्त्र उद्गमः ॥ प्रायोपवेशनं चक्रे रामो दिनचतुष्टयम्। समुद्रवरलाभश्च सेतूपायप्रकीर्तनम् ॥ सेतोर्दशम्यामारम्भस्त्रयोदश्यां समापनम्। चतुर्दश्यां सुवेलाग्रे रामः सैन्यं न्यवेशयत् ॥ पौर्णमास्यां द्वितीयान्तं सम्पन्नं सैन्यतारणम्। दशम्यन्तं मन्त्रणमेकादश्यां शुकसारणयोः सैन्यप्राप्तिः। माघेऽसितायां द्वादश्यां सैन्यसंख्या कृता। सारणेन कपीनां तु सारासारोपवर्णनम् ॥