भारतकोश
रामायण मीमांसा (स्वामी करपात्री जी महाराज - रामायण दार्शनिक महाग्रन्थ एवं सम्पूर्ण चरित्र-मीमांसा)

रामायण मीमांसा (स्वामी करपात्री जी महाराज - रामायण दार्शनिक महाग्रन्थ एवं सम्पूर्ण चरित्र-मीमांसा)

Ramayana Mimamsa of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished1,049 पृष्ठ

पृष्ठ 982, कुल 1049 में से

संदर्भ में पढ़ें
पृष्ठ 982

९०८ रामायणमीमांसा परिशिष्ट

केसरेषु षट्कोणे अग्निकोणं प्रारभ्य--- (१) रां हृदयाय नमः हृदयशक्तिश्रीपादुकां पूजयामि तर्पयामि नमः । (२) नैर्ऋते रीं शिरसे स्वाहा शिरः- शक्तिश्रीपादुकां पूजयामि तर्पयामि नमः । (३) पश्चिमायां रूं शिखायै वषट् शिखाशक्तिश्रीपादुकां पूजयामि तर्पयामि नमः (४) वायव्ये रैं कवचाय हुम् कवचशक्तिश्रीपादुकां पूजयामि तर्पयामि नमः । (५) ऐशान्यां रौं नेत्रत्रयाय वौषट् नेत्रत्रयशक्तिश्रीपादुकां पूजयामि तर्पयामि नमः । (६) पूर्वस्यां रः अस्त्राय फट् अस्त्रशक्तिश्रीपादुकां पूजयामि तर्पयामि नमः । पुष्पाञ्जलिं दत्त्वा— “अभीष्टसिद्धिं मे देहि शरणागतवत्सल । भक्त्या समर्पये तुभ्यं द्वितीयावरणार्चनम् ॥ पुनः पुष्पाञ्जलिं दत्त्वा द्वितीयावरणदेवताः पूजितास्तर्पिताः सन्तु नमः ।” षट्कोणाद् बहिरष्टदलेषु पूर्वादिप्रादक्षिण्यक्रमणेन--- (१) हं हनुमते नमः हनुमच्छ्रीपादुकां पूजयायि तर्पयामि नमः । (२) सुं सुग्रीवाय नमः सुग्रीवश्रीपादुकां पूजयामि तर्पयामि नमः । (३) भं भरताय नमः भरतश्रीपादुकां पूजयामि तर्पयामि नमः । (४) विं विभीषणाय नमः विभीषणश्रीपादुकां पूजयामि तर्पयामि नमः । (५) लं लक्ष्मणाय नमः लक्ष्मण श्रीपादुकां पूजयामि तर्पयामि नमः । (६) अं अङ्गदाय नमः अङ्गदश्रीपादुकां पूजयामि तर्पयामि नमः । (७) शं शत्रु- घ्नाय नमः शत्रुघ्नश्रीपादुकां पूजयामि तर्पयामि नमः । (८) जां जाम्बवते नमः जाम्बवच्छ्रीपादुकां पूजयामि तर्पयामि नमः । पुष्पाञ्जलिं दत्त्वा— “अभीष्टसिद्धिं मे देहि शरणागतवत्सल । भक्त्या समर्पये तुभ्यं तृतीयावरणार्चनम् ॥ पुनः पुष्पाञ्जलिं दत्त्वा--- तृतीयावरणदेवताः पूजितास्तर्पिताः सन्तु नमः ।” अष्टदलाग्रेषु तेनैव क्रमेण---(१) धृं धृष्टये नमः धृष्टिश्रीपादुकां पूजयामि तर्पयामि नमः । (२) जं जयन्ताय नमः जयन्तश्रीपादुकां पूजयामि तर्पयामि नमः । (३) विं विजयाय नमः विजयश्रीपादुकां पूजयामि तर्पयामि नमः । (४) सुं सुराष्ट्राय नमः सुराष्ट्रश्रीपादुकां पूजयामि तर्पयामि नमः (५) रां राष्ट्रवर्धनाय नमः राष्ट्रवर्धनश्रीपादुकां पूजयामि तर्प- यामि नमः । (६) अं अकोपाय नमः अकोपनश्रीपादुकां पूजयामि तर्पयामि नमः । (७) धं धर्मपालाय नमः धर्मपाल- श्रीपादुकां पूजयामि तर्पयामि नमः । (८) सुं सुमन्ताय नमः सुमन्तश्रीपादुकां पूजयामि तर्पयामि नमः । पुष्पाञ्जलिं दत्त्वा— “अभीष्टसिद्धिं मे देहि शरणागतवत्सल । भक्त्या समर्पये तुभ्यं चतुर्थावरणार्चनम् ॥ पुनः पुष्पाञ्जलिं दत्त्वा— चतुर्थाविरणदेवताः पूजितास्तर्पिताः सन्तु नमः ।” भूपुरे प्रवेशद्वारेषु सूर्योदयाप्रागादिषु प्रादक्षिण्यक्रमणेन—(१) लं इन्द्राय नमः इन्द्रश्रीपादुकां पूजयामि तर्पयामि नमः । (२) रं अग्नये नमः अग्निश्रीपादुकां पूजयामि तर्पयामि नमः । (३) मं यमाय नमः यमश्रीपादुकां पूजयामि तर्पयामि नमः । (४) क्षं निर्ऋतये नमः निर्ऋतिश्रीपादुकां पूजयामि तर्पयामि नमः । (५) वं वरुणाय नमः वरुणश्रीपादुकां पूजयामि तर्पयामि नमः । (६) यं वायवे नमः वायुश्रीपादुकां पूजयामि तर्पयामि नमः । (७) कुं कुबेराय नमः कुबेरश्रीपादुकां पूजयामि तर्पयामि नमः । (८) हं ईशानाय नमः ईशानश्रीपादुकां पूजयामि तर्पयामि नमः । (९) ईशानीप्रागन्तराले आं ब्रह्मणे नमः ब्रह्मश्रीपादुकां पूजयामि तर्पयामि नमः । (१०) निर्ऋतिवरुणान्तराले ह्रीं शेषाय नमः शेषश्रीपादुकां पूजयामि तर्पयामि नमः । पुष्पाञ्जलिं दत्त्वा— “अभीष्टसिद्धिं मे देहि शरणागतवत्सल । भक्त्या समर्पये तुभ्यं पञ्चमावरणार्चनम् ॥ पुनः पुष्पाञ्जलिं दत्त्वा— पञ्चमावरदेवताः पूजितास्तर्पिताः सन्तु नमः ।”