भारतकोश
रामायण मीमांसा (स्वामी करपात्री जी महाराज - रामायण दार्शनिक महाग्रन्थ एवं सम्पूर्ण चरित्र-मीमांसा)

रामायण मीमांसा (स्वामी करपात्री जी महाराज - रामायण दार्शनिक महाग्रन्थ एवं सम्पूर्ण चरित्र-मीमांसा)

Ramayana Mimamsa of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished1,049 पृष्ठ

पृष्ठ 989, कुल 1049 में से

संदर्भ में पढ़ें
पृष्ठ 989

संख्या १ रामोपासना ११५ यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु । न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ॥ इस मन्त्र से कर्मसम्पूर्णता की प्रार्थना भगवान् से करनी चाहिए । ३२. शान्तिपाठ— "स्वस्ति प्रजाभ्यः परिपालयन्तां न्यायेन मार्गेण महीं महीशाः । गोब्राह्मणेभ्यः शुभमस्तु नित्यं लोकाः समस्ताः सुखिनो भवन्तु ॥ काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी । देशोऽयं क्षोभरहितो ब्राह्मणाः सन्तु निर्भयाः ॥ अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः । अधनाः सधनाः सन्तु जीवन्तु शरदां शतम् ॥ सर्वेषां मङ्गलं भूयात् सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग्भवेत् ॥" इस मन्त्र को पढ़कर सबके कल्याण के लिए भगवान् से प्रार्थना करनी चाहिए । अथाग्निमुखम्— "सूर्यग्रहणकाले तु नान्यदन्वेषितं भवेत् । सूर्यग्रहणकालेन समानो नास्ति कश्चन ॥ तत्र यद्यत्कृतं सर्वमनन्तफलदं भवेत् ।" अन्यथा गुरुशुक्रशुद्धौ शुभनक्षत्रयोगवारादिषु शुद्धाहात् प्रथमेऽहनि सङ्कल्पपूर्वकमुपोष्य अङ्कुरारोपणस्वस्ति- पुण्याहवाचननान्दीमुखश्राद्धादिपञ्चाङ्गं कर्म स्वगृह्यानुसारं विदधीत । मण्डपं निर्माय तत्र वेद्यां नीलपीतसीतासि- तैस्तण्डुलैः सर्वतोभद्रमुल्लिख्य धान्याञ्जलिद्वयं निधाय तीर्थोदपूरितं वस्त्रयुग्मवेष्टितं पञ्चरत्नसमन्वितं आम्राश्वत्थप्रसूनाढ्यं शाखाभिरुपेतं नारिकेलफलोपेतं कलशं मङ्गलैः स्थापयित्वा तत्र हरिमर्चयेत् । ऋग्यजुःसामसूक्तैः स्मातैः पौराणिकै- स्तान्त्रिकैर्वा मन्त्रैर्देवमर्चयित्वा वासःकुण्डलादिभूषणैर्ब्राह्मणान् वरयेत् । गुरुः भूतशुद्धयादिकं न्यासजातं च विधिवत् कुर्यात् । गन्धपुष्प-ताम्बूल-सद्वासो-भूषणादिकमन्नपानीयादिकं पुण्यस्त्रीभ्यो गृहस्थेभ्यो दद्यात् । रात्रौ जागरणं दिवा रात्रौ च त्रिकालं पूजयेत् । तथैव परेऽहनि विधिवद्रामं पूजयित्वाग्निकार्यं कुर्यात् । तत्रादौ मण्डप-कुण्ड-वेद्यादिकं विधिवन्निर्माय कुण्डस्थलं सम्यग्गोमयेनोपलिप्य सूपविष्टः प्राणानायम्य अनन्यधीर्मनसा मन्त्रं जपेत् । सङ्कल्प्य कुण्डे मध्यतस्तिस्रः पूर्वाग्रा उत्तराग्राश्चापरास्तिस्रो रेखाः कृत्वा षट्कोणे त्रिकोणे वा वह्निमादधीत । "प्रोक्ष्योपसार्य तत्पश्चाद् दत्त्वा विष्टरमादरात् । लक्ष्मोमृतुमतीं तत्र प्रभोर्नारायणस्य च ॥ ग्राम्यधर्मेण सञ्जातमग्निं तत्र विचिन्तयेत् ।" विधिनाग्निं प्रमथ्य आहिताग्निगृहाद् वानीयाधाय कुशैः प्रज्वाल्य सम्प्रोक्ष्य क्रव्यादग्निं बहिष्कृत्य निरस्य यज्ञियैः काष्ठैः पुनः प्रज्वालयेत् । प्राणानायम्य कुशाङ्कुरैः परिस्तीर्य स्वगृह्योक्तविधानेन वासुदेवादिनामभिः पात्राण्या- साद्य इध्ममन्त्रेण तान्यपोक्ष्य पवित्रेण चोत्तानानि विधाय पुनः प्रोक्ष्य पात्रामानीय शुभाम्बुनाऽऽपूर्य तत्राक्षतान् पवित्रं च दत्वा उत्पूय उत्तरस्यां निधाय तत्र प्रणीतापात्रे विष्णुं ब्राह्मणंयुतं ब्रह्माणं च पूजयेत् । आज्यं संस्कृत्य विधिवत्स्रूक्स्रुवा- वोमिति ब्रुवन् । गर्भाधानादिकं वह्नेर्विवाहान्तं समाचरेत् ।। एकैकस्य संस्कारस्य कृते तारेणाष्टावष्टौ जुहुयात् । अर्चितेऽग्नौ वौषडन्तं कर्म समाप्य कर्मान्तरं समारभ्य तदपि समापयेत् । इध्माधानादि आज्यभागौ पुनर्जुहुयात् । तत्राग्नौ वैष्णवं