रामायण मीमांसा (स्वामी करपात्री जी महाराज - रामायण दार्शनिक महाग्रन्थ एवं सम्पूर्ण चरित्र-मीमांसा)
Ramayana Mimamsa of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 990, कुल 1049 में से
संदर्भ में पढ़ें९१६ रामायणमीमांसा परिशिष्ट चरुं श्रपयेत् । अत्राग्नौ साङ्गावरणं रामं पूजयेत् । समिदाज्यचरूणां प्रत्येकं षोडशाहुतीः मूलमन्त्रेण जुहुयात् । परिवारेभ्यो विनायकादिभ्यस्तिस्र आहुतीः, द्वाराङ्गपरिवारेभ्यः सुरेभ्यः पुनस्तिस्र आहुतीराज्येन तत्तद्द्रव्यैश्च मनोहरै- द्वारपीठसुरेभ्यो जुहुयात् । अङ्गादिवैष्णवान्तेभ्यः पृथक् पृथक् तिस्र आज्याहुतीर्दत्वा घृतेन स्विष्टकृतं हुत्वा जलेन विधिवत् समन्ततः परिषिञ्चेत् । प्रणीतामार्जनं कृत्वा स्ववित्तानुसारेण ब्रह्मणे दक्षिणां दद्यात् । ततो ब्रह्माणमुद्वास्य ब्राह्मणान् भोजयेत् । अग्निमध्यगतं देवं पुनः स्वात्मनि योजयेत् । एकीभूतं विचिन्त्य स्वस्तिवाचनं कारयेत् । विदुषामाशीर्वचो- भिरेधमानः हुतशेषं प्राश्य कुक्कुटाण्डप्रमाणकं रामगायत्र्याभिमन्त्रितं तस्मै बलि हरेत् । इति अग्निमुखविधानम् । अथाभिषेकः—कलशस्थाय रामाय पुष्पाञ्जलिं दत्त्वा शिष्यमुपानीय प्राणानायम्य भूतशुद्ध्यादिकं विधाय बहुभिः ब्राह्मणैः सह तं मूर्ध्नि अभिषिञ्चेत् । तत्र मन्त्राः— “सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः । वासुदेवो जगन्नाथस्तथा सङ्कर्षणो विभुः ॥ प्रद्युम्नश्चानिरुद्धश्च भवन्तु विजयाय ते । आखण्डलोऽग्निर्भगवान् यमो वै निर्ऋतिस्तथा ॥ वरुणः पवनश्चैव धनाध्यक्षस्तथाश्विनौ । ब्रह्मणा सहिता होते दिक्पालाः पान्तु ते सदा ॥ कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया मतिः । बुद्धिर्लज्जा वपुः शान्तिर्माया निद्रा च भावना ॥ एतास्त्वामभिषिञ्चन्तु तुष्टिः कान्तिः क्षमा तथा । आदित्यश्चन्द्रमा भौमो बुधजीवसितार्कजाः ॥ ग्रहास्त्वामभिषिञ्चन्तु राहुः केतुश्च तर्पिताः । देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ॥ ऋषयो मनवो गावो देवमातर एव च । देवपत्न्यो ध्रुवा नागा दैत्याश्चाप्सरसां गणाः ॥ अस्त्राणि चैव शस्त्राणि राजानो वाहनानि च । औषधानि च रत्नानि कालस्यावयवाश्च ये ॥ सरितः सागराः शैलास्तीर्थानि जलदा नदाः । एते त्वामभिषिञ्चन्तु सर्वकामार्थसिद्धये ॥” इति वशिष्ठसंहितोक्ता मन्त्रा रामार्चनचन्द्रिकायाम् । “नारायणः स्वयं रामः शिष्ये सन्निदधातु वै । सर्वंगः सर्वतोऽप्यस्ति प्रसीदतु दयानिधिः ॥ इति संस्मृत्य संस्मृत्य तज्जलैरभिषेचयेत् ।” इत्यभिषेकः । अथ मन्त्रदीक्षा— सुवासः परिधाय चन्दनाद्यवलिप्य कुण्डले अङ्गुलीयकञ्च धारयित्वा न्यसेत् । शिष्यशिरसि स्वस्य हस्तं दत्त्वा मनुमष्टोत्तरशतं जपित्वा उदकपूर्वकं मन्त्रं दद्यात् । आवयोस्तुल्यफलदो भवत्वैवमुदीरयेत् । प्रसन्नवदनो गुरुर्ज्योतिर्मयीं विद्यां शिष्ये गच्छन्तीं भावयेत् । शिष्यश्च तादृशीमागतां विद्यां भावयेत् ।