भारतकोश
रामायण मीमांसा (स्वामी करपात्री जी महाराज - रामायण दार्शनिक महाग्रन्थ एवं सम्पूर्ण चरित्र-मीमांसा)

रामायण मीमांसा (स्वामी करपात्री जी महाराज - रामायण दार्शनिक महाग्रन्थ एवं सम्पूर्ण चरित्र-मीमांसा)

Ramayana Mimamsa of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished1,049 पृष्ठ

पृष्ठ 994, कुल 1049 में से

संदर्भ में पढ़ें
पृष्ठ 994

१२० रामायणमीमांसा परिशिष्ट अथ दिनद्वितीयभागकृत्यम् —"दिवसस्य द्वितीयेऽंशे वेदस्याभ्यसनं चरेत् । मीमांसातर्कधर्मार्थशास्त्रादीनामपि द्विजः ॥ सालङ्कारः ससुमनाः सम्पश्येन्मङ्गलाष्टकम् । गोभृविप्राम्बुहेमद्युमणिस्नेहनृपानिह ॥” यो देवः पूजकश्चाथ पूजाद्रव्याणि तत्फलम् । प्राणबुद्ध्यादिकं सर्वं तस्मै रामात्मने नमः ॥" इति विभाव्य अगस्त्यसंहिताक्रमेण पूजयेत् । तद्यथा—“ॐ नमो रामभद्राय गं गणेशाय ते नमः । सं सवित्रे हौं शिवाय ऐं ह्रीं श्रीं परशक्तये ॥ ॐ दिं दीं दीपनाथाय क्षं क्षेत्रपतये नमः ॥ पुष्पाक्षतादिभिः पूज्याः श्रीरामद्वारदेवताः । षडङ्गाःपुरतः स्वस्मिन् प्रथमामर्चयेत् सुधीः ॥ द्वारश्रियै नमश्चोर्ध्वं देहल्यै तदधस्ततः । द्वारस्य शोभनस्याथ शाखयोर्दक्षवामयोः ॥ धात्रे विधात्रे गङ्गायै यमुनायै च पूर्वतः । ॐ भद्राय सुभद्राय गोदां कृष्णां च दक्षिणे ॥ ॐ चण्डाय प्रचण्डाय रेवां तापीं च पश्चिमे । शङ्खाय पद्मनिधये वेणीं वेणां तथोत्तरे ॥ चतुर्द्वारं सुसम्पूज्य गृहोपरि ततोऽर्चयेत् । गृहेशाय गृहायाथ कुलदेव्यै नमोऽस्त्विति ॥ नमः सशरशाङ्गय विनायकाय फण्नमः । आभ्यामन्तर्गतं पुष्पं शरयोगेन वामतः ॥ निःसार्य विघ्नसङ्घं त्रिः पार्ष्णिघातं समभ्ययेत् । देहलीमस्पृशन् दक्षपादपूर्वं प्रविश्य च ॥ शेषाय विद्यापीठाय वास्तुपुंसे नमोऽर्चयेत् ।” इति द्वारपूजा । अथासनविचारः— कृष्णाजिनव्याघ्रचर्मकौशेयकम्बलाद्यन्यतमं मृदु आसनमास्तीर्य पात्रासादनं कुर्यात् । विविधैः पुष्पैः पूर्णां पुष्पडालिकां दक्षिणे, तीर्थादिशुद्धवारिपूर्णं कलशं वामे, पुरतश्च शङ्खं करक्षालनाद्यर्थं पात्रं दर्पणच्छत्रचामरादीनि वामभागे तैलदीपं दक्षिणे घृतदीपं च स्थापयेत् । रुद्राक्ष-शङ्ख-चक्र-गदा-पद्म-पादुकाद्याकारेण परिणततुलसीकाष्ठरचितां मालिकां कण्ठे विधायार्चनमारभेत । "मौक्तिकं च प्रवालं च रुद्राक्षं तुलसीमणिम् । जपपूजनवेलायां धारयेद् यः स वैदिकः ॥ धारयेदक्षमालां च पद्माक्षं वाथ धारयेत् । कुर्यादाराधनं विष्णोर्देवदेवस्य चक्रिणः ॥”

रामायण मीमांसा (स्वामी करपात्री जी महाराज - रामायण दार्शनिक महाग्रन्थ एवं सम्पूर्ण चरित्र-मीमांसा) · पृष्ठ 994, कुल 1049 में से · BharatKosha