भारतकोश
रामायण मीमांसा (स्वामी करपात्री जी महाराज - रामायण दार्शनिक महाग्रन्थ एवं सम्पूर्ण चरित्र-मीमांसा)

रामायण मीमांसा (स्वामी करपात्री जी महाराज - रामायण दार्शनिक महाग्रन्थ एवं सम्पूर्ण चरित्र-मीमांसा)

Ramayana Mimamsa of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished1,049 पृष्ठ

पृष्ठ 993, कुल 1049 में से

संदर्भ में पढ़ें
पृष्ठ 993

तानि चतुर्विंशतिनामानि यथा—(१) केशवाय नमः (२) नारायणाय नमः (३) माधवाय नमः (४) गोविन्दाय।नमः (५) विष्णवे नमः (६) मधुसूदनाय नमः (७) त्रिविक्रमाय नमः (८) वामनाय नमः (९) श्रीधराय नमः (१०) हृषीकेशाय नमः (११) पद्मनाभाय नमः (१२) दामोदराय नमः (१३) सङ्कर्षणाय नमः (१४) वासुदेवाय नमः (१५) प्रद्युम्नाय नमः (१६) अनिरुद्धाय नमः (१७) पुरुषोत्तमाय नमः (१८) अधोक्षजाय नमः (१९) नारसिंहाय नमः (२०) अच्युताय नमः (२१) जनार्दनाय नमः (२२) उपेन्द्राय नमः (२३) हरये नमः (२४) श्रीकृष्णाय नमः । अथ तिलकधारणम्— "ललाटे केशवं विद्यान्नारायणमथोदरे । माधवं हृदये ध्यायेद् गोविन्दं कण्ठकूपके ॥ उदरे दक्षिणे पार्श्वे विष्णुं व्यामं विचिन्तयेत् । तत्पार्श्वे बाहुमूले तु चिन्तयेन्मधुसूदनम् ॥ त्रिविक्रमं च तत्स्कन्धे वामपार्श्वे तु वामनम् । श्रीधरं बाहुके वामे हृषीकेशं तु कन्धरे ॥ अधरे पद्मनाभं च ककुद्दामोदरं न्यसेत् । तत्प्रक्षालनतोयेन वासुदेवेति मूर्धनि ॥" अथ सन्ध्याप्रकारः— रामात्मानं गुरुं ध्यात्वा जलमस्त्रेण संशोध्य कवचेनावगुण्ठ्य चक्रीकृत्य मूलेनाभिमन्त्र्य तत्र आवाहनादि- भिमुद्राभिस्तीर्थमावाह्य पूजयेत् । तद्यथा— "ब्रह्माण्डोदरतीर्थानि करैः स्पृष्टानि ते रखे । तेन सत्येन मे देव तीर्थं देहि दिवाकर ॥ गङ्गे च यमुने चैव गोदावरि सरस्वति । नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥" इत्यावाह्य दक्षिणहस्ते जलमादाय मालामन्नुं सकृज्जपन् तज्जलं सव्यहस्ते विनिक्षिपेत् । तन्निःसृताम्बुना मूर्ध्नि सिञ्चेत् । तच्छेषं जलं दशाक्षरेणाभिमन्त्र्य पिबेत् । पुनरञ्जलिना जलमादाय मूर्ध्नि त्रिरुत्क्षिपेत् । सूर्यमण्डलस्थाय रामाय अर्घ्यं कल्पयेत् । रामोऽहमस्मीति गायत्रीं नियतो जपेत् । दाशरथाय विद्महे सीतावल्लभाय धीमहि तन्नो रामः प्रचोदयात् । अस्याः श्रीरामगायत्र्या अगस्त्य ऋषिर्गायत्री च्छन्दः श्रीरामचन्द्रो देवता अर्ध्यार्थं विनियोगः । "सूर्यमण्डलमध्यस्थं रामं सीतासमन्वितम् । नमामि पुण्डरीकाक्षमाञ्जनेयगुरुं परम् ॥" इति ध्यात्वार्घ्यत्रयं कल्पयेत्— "नमस्ते रामदेवाय ज्योतिषां पतये नमः । साक्षिणे सर्वभूतानामत्यन्तानन्दमूर्तये ॥ रघुनाथाय दीनाय महाकारुणिकाय च । नमोस्तु कौशिकानन्ददायिने ब्रह्मरूपिणे ॥ स्तुवंश्च प्रणमेद् रामं यथाशक्त्या मुनीश्वर । कृत्वैतत् प्रत्यहं सम्यक् त्रिसन्ध्यञ्च यथाविधि ॥ कृतकृत्यो भवेन्मन्त्री सत्यं सत्यं न चान्यथा ।" ॥ इति सन्ध्या सम्पूर्णा ॥

रामायण मीमांसा (स्वामी करपात्री जी महाराज - रामायण दार्शनिक महाग्रन्थ एवं सम्पूर्ण चरित्र-मीमांसा) · पृष्ठ 993, कुल 1049 में से · BharatKosha