भारतकोश
संग्रह पर लौटें

रामायण मीमांसा (स्वामी करपात्री जी महाराज - रामायण दार्शनिक महाग्रन्थ एवं सम्पूर्ण चरित्र-मीमांसा)

Ramayana Mimamsa of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

DevanagariHindipublished1,049 पृष्ठ

तानि चतुर्विंशतिनामानि यथा—(१) केशवाय नमः (२) नारायणाय नमः (३) माधवाय नमः (४) गोविन्दाय।नमः (५) विष्णवे नमः (६) मधुसूदनाय नमः (७) त्रिविक्रमाय नमः (८) वामनाय नमः (९) श्रीधराय नमः (१०) हृषीकेशाय नमः (११) पद्मनाभाय नमः (१२) दामोदराय नमः (१३) सङ्कर्षणाय नमः (१४) वासुदेवाय नमः (१५) प्रद्युम्नाय नमः (१६) अनिरुद्धाय नमः (१७) पुरुषोत्तमाय नमः (१८) अधोक्षजाय नमः (१९) नारसिंहाय नमः (२०) अच्युताय नमः (२१) जनार्दनाय नमः (२२) उपेन्द्राय नमः (२३) हरये नमः (२४) श्रीकृष्णाय नमः । अथ तिलकधारणम्— "ललाटे केशवं विद्यान्नारायणमथोदरे । माधवं हृदये ध्यायेद् गोविन्दं कण्ठकूपके ॥ उदरे दक्षिणे पार्श्वे विष्णुं व्यामं विचिन्तयेत् । तत्पार्श्वे बाहुमूले तु चिन्तयेन्मधुसूदनम् ॥ त्रिविक्रमं च तत्स्कन्धे वामपार्श्वे तु वामनम् । श्रीधरं बाहुके वामे हृषीकेशं तु कन्धरे ॥ अधरे पद्मनाभं च ककुद्दामोदरं न्यसेत् । तत्प्रक्षालनतोयेन वासुदेवेति मूर्धनि ॥" अथ सन्ध्याप्रकारः— रामात्मानं गुरुं ध्यात्वा जलमस्त्रेण संशोध्य कवचेनावगुण्ठ्य चक्रीकृत्य मूलेनाभिमन्त्र्य तत्र आवाहनादि- भिमुद्राभिस्तीर्थमावाह्य पूजयेत् । तद्यथा— "ब्रह्माण्डोदरतीर्थानि करैः स्पृष्टानि ते रखे । तेन सत्येन मे देव तीर्थं देहि दिवाकर ॥ गङ्गे च यमुने चैव गोदावरि सरस्वति । नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥" इत्यावाह्य दक्षिणहस्ते जलमादाय मालामन्नुं सकृज्जपन् तज्जलं सव्यहस्ते विनिक्षिपेत् । तन्निःसृताम्बुना मूर्ध्नि सिञ्चेत् । तच्छेषं जलं दशाक्षरेणाभिमन्त्र्य पिबेत् । पुनरञ्जलिना जलमादाय मूर्ध्नि त्रिरुत्क्षिपेत् । सूर्यमण्डलस्थाय रामाय अर्घ्यं कल्पयेत् । रामोऽहमस्मीति गायत्रीं नियतो जपेत् । दाशरथाय विद्महे सीतावल्लभाय धीमहि तन्नो रामः प्रचोदयात् । अस्याः श्रीरामगायत्र्या अगस्त्य ऋषिर्गायत्री च्छन्दः श्रीरामचन्द्रो देवता अर्ध्यार्थं विनियोगः । "सूर्यमण्डलमध्यस्थं रामं सीतासमन्वितम् । नमामि पुण्डरीकाक्षमाञ्जनेयगुरुं परम् ॥" इति ध्यात्वार्घ्यत्रयं कल्पयेत्— "नमस्ते रामदेवाय ज्योतिषां पतये नमः । साक्षिणे सर्वभूतानामत्यन्तानन्दमूर्तये ॥ रघुनाथाय दीनाय महाकारुणिकाय च । नमोस्तु कौशिकानन्ददायिने ब्रह्मरूपिणे ॥ स्तुवंश्च प्रणमेद् रामं यथाशक्त्या मुनीश्वर । कृत्वैतत् प्रत्यहं सम्यक् त्रिसन्ध्यञ्च यथाविधि ॥ कृतकृत्यो भवेन्मन्त्री सत्यं सत्यं न चान्यथा ।" ॥ इति सन्ध्या सम्पूर्णा ॥

१२० रामायणमीमांसा परिशिष्ट अथ दिनद्वितीयभागकृत्यम् —"दिवसस्य द्वितीयेऽंशे वेदस्याभ्यसनं चरेत् । मीमांसातर्कधर्मार्थशास्त्रादीनामपि द्विजः ॥ सालङ्कारः ससुमनाः सम्पश्येन्मङ्गलाष्टकम् । गोभृविप्राम्बुहेमद्युमणिस्नेहनृपानिह ॥” यो देवः पूजकश्चाथ पूजाद्रव्याणि तत्फलम् । प्राणबुद्ध्यादिकं सर्वं तस्मै रामात्मने नमः ॥" इति विभाव्य अगस्त्यसंहिताक्रमेण पूजयेत् । तद्यथा—“ॐ नमो रामभद्राय गं गणेशाय ते नमः । सं सवित्रे हौं शिवाय ऐं ह्रीं श्रीं परशक्तये ॥ ॐ दिं दीं दीपनाथाय क्षं क्षेत्रपतये नमः ॥ पुष्पाक्षतादिभिः पूज्याः श्रीरामद्वारदेवताः । षडङ्गाःपुरतः स्वस्मिन् प्रथमामर्चयेत् सुधीः ॥ द्वारश्रियै नमश्चोर्ध्वं देहल्यै तदधस्ततः । द्वारस्य शोभनस्याथ शाखयोर्दक्षवामयोः ॥ धात्रे विधात्रे गङ्गायै यमुनायै च पूर्वतः । ॐ भद्राय सुभद्राय गोदां कृष्णां च दक्षिणे ॥ ॐ चण्डाय प्रचण्डाय रेवां तापीं च पश्चिमे । शङ्खाय पद्मनिधये वेणीं वेणां तथोत्तरे ॥ चतुर्द्वारं सुसम्पूज्य गृहोपरि ततोऽर्चयेत् । गृहेशाय गृहायाथ कुलदेव्यै नमोऽस्त्विति ॥ नमः सशरशाङ्गय विनायकाय फण्नमः । आभ्यामन्तर्गतं पुष्पं शरयोगेन वामतः ॥ निःसार्य विघ्नसङ्घं त्रिः पार्ष्णिघातं समभ्ययेत् । देहलीमस्पृशन् दक्षपादपूर्वं प्रविश्य च ॥ शेषाय विद्यापीठाय वास्तुपुंसे नमोऽर्चयेत् ।” इति द्वारपूजा । अथासनविचारः— कृष्णाजिनव्याघ्रचर्मकौशेयकम्बलाद्यन्यतमं मृदु आसनमास्तीर्य पात्रासादनं कुर्यात् । विविधैः पुष्पैः पूर्णां पुष्पडालिकां दक्षिणे, तीर्थादिशुद्धवारिपूर्णं कलशं वामे, पुरतश्च शङ्खं करक्षालनाद्यर्थं पात्रं दर्पणच्छत्रचामरादीनि वामभागे तैलदीपं दक्षिणे घृतदीपं च स्थापयेत् । रुद्राक्ष-शङ्ख-चक्र-गदा-पद्म-पादुकाद्याकारेण परिणततुलसीकाष्ठरचितां मालिकां कण्ठे विधायार्चनमारभेत । "मौक्तिकं च प्रवालं च रुद्राक्षं तुलसीमणिम् । जपपूजनवेलायां धारयेद् यः स वैदिकः ॥ धारयेदक्षमालां च पद्माक्षं वाथ धारयेत् । कुर्यादाराधनं विष्णोर्देवदेवस्य चक्रिणः ॥”

संख्या १ रामोपासना १२१ अथ शुद्धिचतुष्टयम्— पुष्पाक्षतादिद्रव्याणां क्षालनादिना जन्त्वादिशुद्धिम्, अनुलेपाद्यैर्मू'तिशुद्धिम्, अव्यग्रत्वेन आत्मशुद्धिम्, मृद्गोम- यादिना मण्डलादिनिर्माणैर्भूमि'शुद्धिं च कुर्यात् । वेदिकां विलिप्य रक्तंनीलपीतैः सितासितैश्च तण्डुलैर्मण्डलं विधाय मध्ये षट्कोणं कोणाग्रै रुपशोभितं वृत्तत्रयम्, ततः परं चतुरस्रं तद्वहिराष्टदलं भूपुरत्रयं च निर्माय तत्र सिंहासनं न्यसेत् । “चन्द्रातपपताकैश्च तोरणैरपि सर्वतः । चित्रितं तत्र तत्रापि भित्तिस्तम्भस्थलादिषु ।। अणुमात्रं तु यः कुर्यान्मण्डलं राघवाग्रतः । मृद्गोमयैर्धातुभिर्वा सोऽनन्तफलमश्नुते ॥” पूजादिस्थानं त्रिः प्रोक्ष्य, पृथिवीति मन्त्रस्य मेरुपृष्ठ ऋषिः सुतलं छन्दः कूर्मो देवता आसनस्थापने विनियोगः । [L

१२२ रामायणमीमांसा परिशिष्ट भूतशुद्धौ विशेषो यथा अथ भूतोपसंहारः— "पादाद्याजान्वम्बुजान्तां पीतां द्रुहिणदेवताम् । चतुरस्रां पञ्चगुणां ह्नां ह्रः फट् भुवं जले ॥” जान्वाद्या नाभिपद्मान्ताश्चेतदर्धेन्दुवैष्णवम् । रसरूपस्पर्शशब्दं वं ह्रीं ह्रः फट् जलं शुचौ ॥ नाभ्या हृदन्तं प्राद्युम्नं त्रिकोणं स्वस्तिकारुणम् । वह्नि रूपरसस्पर्शं रं ह्रूं ह्रः फट् समीरणे ॥ भ्रूपर्यन्तं हृदो वायोः षड्बिन्दु स्पर्शशब्दवत् । वृत्तं सांकर्षणं धूम्रं यं ह्रैं ह्रः फट् विहायसि ॥ भ्रूमध्याद् ब्रह्मरन्ध्रान्तं वासुदेवं सशब्दकम् । हं ह्लौं ह्रः फदहङ्कारे हं महत्सत्त्वके च तत् ॥ प्रकृतौ तां च रामाख्ये परे ब्रह्मणि संहरेत् ।” ॥ इति भूतोपसंहारः ॥ अथ भूतशुद्धिः— "शरीररूपभूतानां भूतानां यद्विशोधनम् । अव्यक्तब्रह्मसम्पर्काद् भूतशुद्धिरियं मता ॥” शरीररूप में परिणत भूतों का लयक्रम से अव्यक्त ब्रह्मरूपता सम्पादन द्वारा संशोधन ही भूतशुद्धि है । नित्य शुद्धबुद्धमुक्तस्वभाव सच्चिदानन्दस्वरूप ब्रह्म की भावना करके मूलाज्ञान और उसके कारण उत्पन्न जन्मादि दुःखप्रद पापपुरुष को वामकुक्षि में भावना करनी चाहिये । पापपुरुष के सिर ब्रह्महत्या, भुजाएँ स्वर्णस्तेय, सुरापान हृदय, गुरुतल्पगमन कटि, तत्संसर्ग पाद एवं उपपातक रोम हैं । वह अत्यन्त क्रूर अतिभीषण काले वर्ण का है । उसकी आँखें और दाढ़ी लाल हैं । वह अचेतन है । उसका सिर नीचे की ओर है । उसने खड्ग और चर्म धारण कर रखे हैं । उसका चिन्तन करके— “महापातकपञ्चाङ्गं पातकोपाङ्गसंश्रयम् । उपपातकरोमाणं कृष्णं क्रूरातिभीषणम् ॥” वाम नासिका से पूरक करते हुए ‘यं’ वायुबीज से पापपुरुष का शोषण, ‘रं’ कुम्भक में उसका दहन और रेचक में ‘वं’ अमृतबीज से पीयूषप्रवाह में उस भस्म को प्लावित कर उसे बहिष्कृत कर देना चाहिये । वाग्बीज से या पञ्चमहाभूतबीज से पञ्चमहाभूतों का कारण में विलयन ही पापपुरुष के भस्म का प्लावन है । अखण्ड सच्चिदानन्द ब्रह्मरन्ध्रसहस्राब्ज में स्थित श्रीराम की प्रेरणा से वं बीज द्वारा महदादिक्रमेण पञ्चभूतों का उत्पादन कर दिव्यदेह निर्माण कर परमात्मस्वरूप के साथ एकीभूत जीवकला को हंसः सोहं मन्त्र से हृदय में स्थापित करना चाहिये । अथ प्राणप्रतिष्ठा—अस्य श्रीप्राणप्रतिष्ठामन्त्रस्य ब्रह्मविष्णुरुद्रा ऋषयः ऋग्यजुःसामानि छन्दांसि अतिच्छन्दो वा छन्दः प्राणो देवता आं बीजं ह्रीं शक्तिः क्रों कीलकम् प्राणप्रतिष्ठायां विनियोगः । ब्रह्मविष्णुरुद्रऋषिभ्यो नमः शिरसि । ऋग्यजुःसामच्छन्दोभ्यो नमो मुखे । प्राणदेवतायै नमो हृदये । आं बीजाय नमो गुह्ये । ह्रीं शक्तये नमः पादयोः । क्रों कीलकाय नमो लिङ्गे ।

आं ह्रीं क्रों ॐ अं कं खं गं घं ङं आं पृथिव्यप्तेजोवाय्वाकाशात्मने अङ्गुष्ठाभ्यां नमः । आं ह्रीं क्रों ॐ इं चं छं जं झं ञं ईं शब्दस्पर्शरूपरसगन्धात्मने तर्जनीभ्यां नमः । आं ह्रीं क्रों ॐ उं टं ठं डं ढं णं ऊं श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणात्मने मध्यमाभ्यां नमः । आं ह्रीं क्रों ॐ एं तं थं दं धं नं ऐं वाक्पाणिपादपायूपस्थात्मने अनामिकाभ्यां नमः । आं ह्रीं क्रों ॐ ओं पं फं बं भं मं औं वक्तव्यादानगमनविसर्गानन्दात्मने कनिष्ठिकाभ्यां नमः । आं ह्रीं क्रों ॐ अं यं रं लं वं शं षं सं हं लं क्षं अः मनोबुद्धयहङ्कारचित्तात्मने करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिषडङ्गन्यासान् विधाय— आं नाभेराधः । ह्रीं हृदयादिनाभिपर्यन्तम् । क्रों मस्तकादिहृदयपर्यन्तम् । यं त्वगात्मने नमो हृदि । रं असृगात्मने नमो दक्षदोर्मूले । लं मांसात्मने नमः ककुदि । वं मेदआत्मने नमो वामांसे । शं अस्थ्यात्मने नमो हृदयादि- पाणियुगले । षं मज्जात्मने नमो हृदयादिपाद्युगले । सं शुक्रात्मने नमो जठरे । हं प्राणात्मने नम आनने । लं जीवात्मने नमो व्यापकम् । हृदि अङ्गुष्ठं दत्त्वा आं ह्रीं क्रों यं रं लं वं शं षं सं हं लं क्षं हंसः सोहं मम प्राणा इह प्राणाः । पुनरेतान्येव बीजाक्युच्चार्य मम जीव इह स्थितः । पुनरेतान्येव बीजान्युच्चार्य मम सर्वेन्द्रियाणि इह स्थितानि । पुनरेतान्येव बीजान्यु- च्चार्य मम वाङ्मनस्त्वक्चक्षुर्जिह्वाश्रोत्रघ्राणप्राणाः सर्वे इहागत्य स्वस्तये चिरं सुखेन तिष्ठन्तु स्वाहा । अथ प्राणशक्तेर्ध्यानम्— "रक्ताम्भोधिस्थपोतोल्लसदरुणसरोजाधिरूढा कराब्जैः पाशं कोदण्डमिक्षूद्भवमथ गुणमप्यङ्कुशं पञ्चबाणान् । बिभ्राणासृक्कपालं त्रिनयनलसिता पीनवक्षोरुहाढ्या देवी बालार्कवर्णा भवतु सुखकरी प्राणशक्तिः परा नः ॥" ततो जन्मादिषोडशसंस्कारसिद्ध्यर्थं षोडशवारं प्रणवं जपित्वा परां शक्तिं स्मरेत् भगवन्नामोच्चारणं च कुर्यात् । "यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु । न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ॥" ( इति प्राणप्रतिष्ठा ) अथ निवृत्त्यादिन्यासः—अं निवृत्त्यै नमो मौलौ । आं प्रतिष्ठायै नमो मुखवृत्ते । इं विद्यायै नमो दक्षिणनेत्रे । ईं ईशानायै नमो वामनेत्रे । उं इन्धिकायै नमो दक्षिणकर्णे । ऊं दीपिकायै नमो वामकर्णे । ऋं रेचिकायै नमो दक्षिण- नासापुटे । ॠं मोचिकायै नमो वामनासापुटे । लूं परायै नमो दक्षिणकपोले । लॄं सूक्ष्मायै नमो वामकपोले । एं मृडायै नमो ऊर्ध्वोष्ठे । ऐं ज्ञानायै नमः अधरोष्ठे । ओं आप्यायिन्यै नमः ऊर्ध्वदन्तपङ्क्तौ । औं व्यापिन्यै नमः अधोदन्त- पङ्क्तौ । अं व्योमरूपायै नमो मूर्ध्नि । अः अनन्तायै नमः मुखमध्ये जिह्वायां च । कं सृष्ट्यै नमः दक्षबाहुमूले । खं ऋद्ध्यै नमः कूर्परे । गं स्मृत्यै नमो मणिबन्धे । घं मेधायै नमः अङ्गुलिमूले । ङं कान्त्यै नमः अङ्गुल्यग्रे । चं लक्ष्म्यै नमो वामबाहुमूले । छं द्युत्यै नमः कूर्परे । जं स्थिरायै नमो मणिबन्धे । झं स्थित्यै नमः अङ्गुलिमूले । ञं सिद्ध्यै नमः अङ्गुल्यग्रे । टं जरायै नमो दक्षपादमूले । ठं पालिन्यै नमो जानुनि । डं क्षान्त्यै नमो गुल्फे । ढं ऐश्वर्यै नमः अङ्गुलि- मूले । णं रत्यै नमः अङ्गुल्यग्रे । तं कामिकायै नमो वामपादमूले । थं वरदायै नमो जानुनि । दं आह्लादिन्यै नमः गुल्फे । धं प्रीत्यै नमः अङ्गुलिमूले । नं दीर्घायै नमः अङ्गुल्यग्रे । पं तीक्ष्णायै नमः दक्षपार्श्वे । बं अभयायै नमः पृष्ठे । भं निद्रायै नमः नाभौ । मं तन्द्रायै नमः उदरे । यं क्षुधायै नमः हृदि । रं क्रोधिन्यै नमो दक्षदोर्मूले । लं क्रियायै नमः

ककुदि । वं उल्कायै नमः वामबाहुमूले । शं मृत्यवे नमः हृदादिदक्षकरे । षं पीतायै नमः हृदादिवामकरे । सं श्वेतायै नमः हृदादिदक्षिणचरणे । हं अरुणायै नमः हृदादिवामचरणे । लं असितायै नमः जठरे । क्षं अनन्तायै नमः मुखे । अथ अष्टात्रिंशत्कलान्यासः— (१) अं अमृतायै नमो दक्षबाहुमूले । (२) आं आनन्दायै नमः कूर्परे (३) इं पूषायै नमः मणिबन्धे (४) ईं तुष्ट्यै नमः अङ्गुलिमूले (५) उं पुष्ट्यै नमः अङ्गुल्यग्रे (६) ऊं रत्यै नमः वामबाहुमूले (७) ऋं धृत्यै नमः कूर्परे (८) ॠं शशिन्यै नमः मणिबन्धे (९) ऌं चन्द्रिकायै नमः अङ्गुलिमूले (१०) ॡं कान्त्यै नमः अङ्गुल्यग्रे (११) एं ज्योत्स्नायै नमः दक्षपादमूले (१२) ऐं श्रियै नमः दक्षजानुनि (१३) ओं प्रीत्यै नमः दक्षगुल्फे (१४) औं अङ्गदायै नमः दक्षपादाङ्गुलिमूले (१५) अं पूर्णायै नमः दक्षपादाङ्गुल्यग्रे (१६) अः पूर्णामृतायै नमः सर्वाङ्गे (१७) क भं तपिन्यै नमः दक्षबाहुमूले (१८) ख बं तापिन्यै नमः कूर्परे (१९) गं फं धूम्रायै नमः मणिबन्धे (२०) घं पं मरीच्यै नमः अङ्गुलिमूले । (२१) ङं नं ज्वालिन्यै नमः अङ्गुल्यग्रे । (२२) चं धं रुच्यै नमः वामबाहुमूले (२३) छं दं सुषुम्णायै नमः कूर्परे (२४) जं थं भोगदायै नमः मणिबन्धे (२५) झं तं विश्वायै नमः अङ्गुलिमूले (२६) ञं णं बोधिन्यै नमः अङ्गुल्यग्रे (२७) टं ढं धारिण्यै नमः दक्षपादमूले (२८) ठं डं क्षमायै नमः दक्षजानुनि (२९) यं धूम्रार्चिषे नमः दक्षगुल्फे (३०) रं ऊष्मायै नमः दक्षाङ्गुलिमूले (३१) लं ज्वालिन्यै नमः दक्षाङ्गुल्यग्रे (३२) वं ज्वालामालिन्यै नमः वामपादमूले (३३) शं विस्फुलिङ्गिन्यै नमः वामजानुनि (३४) षं सुश्रियै नमः वामगुल्फे (३५) सं सुरूपायै नमः वामाङ्गुलिमूले (३६) हं कमलायै नमः वामाङ्गुल्यग्रे (३७) ळं हव्यवाहनायै नमः मस्तके (३८) क्षं कव्यवाहनायै नमः इति व्यापकम् । अथ केशवादिमातृकान्यासः—अस्य श्रीकेशवादिमातृकान्यासस्य साध्यनारायण ऋषिः देवीगायत्री च्छन्दः श्रीमहालक्ष्मीनारायणो देवता हलो बीजं स्वराः शक्तिः दृष्टार्थे न्यासे विनियोगः । ॐ श्रीं ॐ नमो नारायणाय हंसः सोहं अं कं खं गं घं ङं आं ह्रीं सोहं हंसः ॐ नमो नारायणाय बुद्धोल्काय स्वाहा श्रीं देव्यै हृदयाय नमः, हृदये । ॐ श्रीं ॐ नमो नारायणाय हंसः सोहं इं चं छं जं झं ञं ईं ह्रीं सोहं हंसः ॐ नमो नारायणाय महोल्काय स्वाहा श्रीं पद्मिन्यै नमः शिरसे स्वाहा, शिरसि । ॐ श्रीं ॐ नमो नारायणाय हंसः सोहं उं टं ठं डं ढं णं ऊं ह्रीं सोहं हंसः ओं नमो नारायणाय वीरोल्काय स्वाहा श्रृं विष्णुपत्न्यै नमः शिखायै वषट् । ॐ श्रीं ॐ नमो नारायणाय हंसः सोहं एं तं थं दं धं नं ऐं ह्रीं सोहं हंसः ॐ नमो नारायणाय विद्युदुल्काय स्वाहा श्रों वरदायै नमः कवचाय हुम् । ॐ श्रीं ॐ नमो नारायणाय हंसः सोहं ओं पं फं बं भं मं औं ह्रां सोहं हंसः अं नारायणाय सहस्रोल्काय स्वाहा श्रौं कमलरूपायै नमः नेत्रत्रयाय वौषट् । ॐ श्रीं ओं नमः नारायणाय हंसः सोहं अं यं रं लं वं शं षं सं हं लं क्षं अः ह्रीं सोहं हंसः ॐ नमो नारायणाय अनन्तोल्काय स्वाहा श्रः शूलिन्यै नमः अस्त्राय फट् । इति षडङ्गन्यासः । अथ केशवादिमातृकाध्यानम्— “विद्युदरविन्दमुकुरामृतकुम्भपद्मकोमोदकीदरसुदर्शनशोभिहस्तम् । सौदामिनीमुकुरकान्तिविकामिलक्ष्मीनारायणात्मकमखण्डितमादिमूर्तिम् ॥” (१) ॐ ह्रीं श्रीं क्लीं अं क्लीं श्रीं ह्रीं केशवाय कीर्त्यै नमो मौलौ । (२) ,, ,, आं ,, नारायणाय कान्त्यै नमो मुखवृत्ते । (३) ,, ,, इं ,, माधवाय तुष्ट्यै नमो दक्षिणनेत्रे । (४) ,, ,, ईं ,, गोविन्दाय पुष्ट्यै नमो वामनेत्रे । (५) ,, ,, उं ,, विष्णवे धृत्यै नमो दक्षिणकर्णे ।

संख्या १ रामोपासना १२५ ( ६ ) ॐ ह्रीं श्रीं क्लीं ऊं क्लीं श्रीं ह्रीं मधुसूदनाय क्षान्त्यै नमो वामकर्णे । ( ७ ) ,, ,, ऋं ,, त्रिविक्रमाय क्रियायै नमो दक्षिणनासापुटे ( ८ ) ,, ,, ॠं ,, वामनाय दयायै नमो वामनासापुटे । ( ९ ) ,, ,, लृं ,, श्रीधराय मेघायै नमो दक्षकपोले । ( १० ) ,, ,, ॡं ,, हृषीकेशाय हर्षायै नमो वामकपोले । ( ११ ) ,, ,, एं ,, पद्मनाभाय श्रद्धायै नमो ऊर्ध्वोष्ठे । ( १२ ) ,, ,, ऐं ,, दामोदराय लज्जायै नमोऽधरोष्ठे । ( १३ ) ,, ,, ओं ,, सङ्कर्षणाय सरस्वत्यै नमो ऊर्ध्वदन्तपङ्क्तौ । ( १४ ) ,, ,, औं ,, वासुदेवाय लक्ष्म्यै नमोऽधोदन्तपङ्क्तौ । ( १५ ) ,, ,, अं ,, प्रद्युम्नाय प्रीत्यै नमो मूर्ध्नि । ( १६ ) ,, ,, अः ,, अनिरुद्धाय रत्यै नमो मुखमध्ये जिह्वायाम् । ( १७ ) ,, ,, कं ,, चक्रिणे जयायै नमो दक्षबाहुमूले । ( १८ ) ,, ,, खं ,, गदिने दुर्गायै नमो दक्षकूर्परे । ( १९ ) ,, ,, गं ,, शार्ङ्गिणे प्रभायै नमो दक्षमणिबन्धे । ( २० ) ,, ,, घं ,, खड्गिने सत्यायै नमो दक्षाङ्गुलिमूले । ( २१ ) ,, ,, ङं ,, शङ्खिने चण्डायै नमो दक्षाङ्गुल्यग्रे । ( २२ ) ,, ,, चं ,, हलिने वाण्यै नमो वामबाहुमूले । ( २३ ) ,, ,, छं ,, मुसलिने विलासिन्यै नमो वामकूर्परे । ( २४ ) ,, ,, जं ,, शूलिने विजयायै नमो वाममणिबन्धे । ( २५ ) ,, ,, झं ,, पाशिने विरजायै नमो वामाङ्गुलिमूले । ( २६ ) ,, ,, ञं ,, अङ्कुशिने विश्वायै नमो वामाङ्गुल्यग्रे । ( २७ ) ,, ,, टं ,, मुकुन्दाय विमदायै नमो दक्षपादमूले । ( २८ ) ,, ,, ठं ,, नन्दजाय सुनन्दायै नमो दक्षजानुनि । ( २९ ) ,, ,, डं ,, नन्दाय स्मृत्यै नमो दक्षगुल्फे । ( ३० ) ,, ,, ढं ,, नादाय ऋद्धधै नमो दक्षपादाङ्गुलिमूले । ( ३१ ) ,, ,, णं ,, नरकजिते समृद्धधै नमो दक्षपादाङ्गुल्यग्रे । ( ३२ ) ,, ,, तं ,, हरये शुद्धधै नमो वामपादमूले । ( ३३ ) ,, ,, थं ,, कृष्णाय भुक्त्यै नमो वामजानुनि । ( ३४ ) ,, ,, दं ,, सत्याय मुक्त्यै नमो वामगुल्फे । ( ३५ ) ,, ,, धं ,, सात्वताय मत्यै नमो पादाङ्गुलिमूले । ( ३६ ) ,, ,, नं ,, शौरिणे क्षमायै नमो वामपादाङ्गुल्यग्रे । ( ३७ ) ,, ,, पं ,, शूराय परमायै नमो दक्षपार्श्वे । ( ३८ ) ,, ,, फं ,, जनार्दनाय उमायै नमो वामपार्श्वे । ( ३९ ) ,, ,, बं ,, भूधराय क्लेदिन्यै नमः पृष्ठे । ( ४० ) ,, ,, भं ,, विश्वमूर्तये क्लिन्नायै नमो नाभौ । ( ४१ ) ,, ,, मं ,, वैकुण्ठाय वसुदेवायै नमो जठरे ।

९२६ रामायणमीमांसा परिशिष्ट ( ४२ ) ॐ ह्रीं श्रीं क्लीं यं क्लीं श्रीं ह्रीं त्वगात्मने पुरुषोत्तमाय वसुधायै नमो हृदि । ( ४३ ) ,, ,, रं ,, असृगात्मने बलिने परायै नमो दक्षदोर्मूले । ( ४४ ) ,, ,, लं ,, मांसात्मने बलानुजाय परायणायै नमः ककुदि । ( ४५ ) ,, ,, वं ,, मेदआत्मने बलाय सूक्ष्मायै नमो वामबाहुमूले । ( ४६ ) ,, ,, शं ,, अस्थ्यात्मने वृषघ्नाय सन्ध्यायै नमो हृदादिदक्ष- करान्तम् । ( ४७ ) ,, ,, षं ,, मज्जात्मने वृषाय प्रज्ञायै नमो हृदादिवामकरान्तम् । ( ४८ ) ,, ,, सं ,, शुक्रात्मने हंसाय प्रभायै नमो हृदादिदक्षिण- चरणान्तम् । ( ४९ ) ,, ,, हं ,, प्राणात्मने वराहाय निशायै नमो हृदादिवाम- चरणान्तम् । ( ५० ) ,, ,, लं ,, क्रियाशक्त्यात्मने विमलाय अमोघायै नमो जठरे । ( ५१ ) ,, ,, क्षं ,, परमात्मने नृसिंहाय विद्युतायै नमो मुखे । “केशवादिरयं न्यासो न्यासमात्रेण देहिनाम् । अच्युतत्वं ददात्येव सत्यं सत्यं न चान्यथा ॥” इति केशवादिमातृकान्यासः । अथ श्रीकण्ठादिमातृकान्यासः— “वाङ्मायाद्यादिकान् वर्णान् मातृकायाः सबिन्दुकान् । श्रीकण्ठादीनथादित्यान् न्यसेत् स्थानेषु तेषु हि ॥” अस्य श्रीकण्ठादिमातृकान्यासस्याम्बरीष ऋषिः । अनुष्टुप् छन्दः अर्धनारीश्वरो देवता । हलो बीजानि स्वराः शक्तयः ज्ञानविज्ञानार्थे न्यासे विनियोगः । ( १ ) ॐ ऐं ह्रीं श्रीं अं कं खं गं घं ङं आं अङ्गुष्ठाभ्यां नमः । (हृदयाय नमः) ( २ ) ,, ,, इं चं छं जं झं ञं ईं तर्जनीभ्यां नमः । (शिरसे स्वाहा) ( ३ ) ,, ,, उं टं ठं डं ढं णं ऊं मध्यमाभ्यां नमः । (शिखायै वषट् ) ( ४ ) ,, ,, एं तं थं दं धं नं ऐं अनामिकाभ्यां नमः । (कवचाय हुम् ) ( ५ ) ,, ,, ओं पं फं बं भं मं औं कनिष्ठिकाभ्यां नमः । (नेत्रत्रयाय वौषट् ) ( ६ ) ,, ,, अं यं रं लं वं शं षं सं हं लं क्षं अः करतलकरपृष्ठाभ्यां नमः । (अस्त्राय फट् ) एवं करादिन्यासान् हृदयादिषडङ्गन्यासांश्च विधाय ध्यायेत् । तद्यथा— “सिन्दूरकाञ्चनसमोभयभागमर्धनारीश्वरं गिरिसुताहरभूषचिह्नम् । पाशाभयाक्षवलयेष्टदहस्तमीशं स्मृत्वा न्यसेत् सकलवाञ्छितवस्तुसिद्धयै ॥” (१) ॐ ऐं ह्रीं श्रीं अं श्रीकण्ठेशपूर्णोदरीभ्यां नमः । मौलौ—इत्यादि केशवादिमातृकान्यासवत्स्थानेषु न्यसेत् । (२) ,, ,, आं अनन्तेशविरजाभ्यां नमः । (३) ,, ,, इं सूक्ष्मेशशाल्मलिभ्यां नमः ।

संख्या १ रामोपासना १२७ (४) ॐ ऐं ह्रीं श्रीं ईं त्रिमूर्तीशलोलाक्षीभ्यां नमः । (५) ,, ,, उं अमरेश्वरवर्तुलाक्षीभ्यां नमः । (६) ,, ,, ऊं अधीशदीर्घघोणाभ्यां नमः । (७) ,, ,, ऋं भारभूतेशदीर्घघोणाभ्यां नमः । (८) ,, ,, ॠं अतिथिशदीर्घमुखीभ्यां नमः । (९) ,, ,, ऌं स्थाण्वीशदीर्घजिह्वाभ्यां नमः । (१०) ,, ,, ॡं हरेशकुण्डोदरीभ्यां नमः । (११) ,, ,, एं झिण्टीशोध्वंकेशिनीभ्यां नमः । (१२) ,, ,, ऐं भौतिकेशविकृतमुखीभ्यां नमः । (१३) ,, ,, ओं सद्योजातेशज्वालामुखीभ्यां नमः । (१४) ,, ,, औं अनुग्रहेशोल्कामुखीभ्यां नमः । (१५) ,, ,, अं क्रूरेशश्रीमुखीभ्यां नमः । (१६) ,, ,, अः महासेनेशविद्यामुखीभ्यां नमः । (१७) ,, ,, कं क्रोधीशमहाकालीभ्यां नमः । (१८) ,, ,, खं चण्डेशसरस्वतीभ्यां नमः । (१९) ,, ,, गं पञ्चान्तकेशगौरीभ्यां नमः । (२०) ,, ,, घं शिवोत्तमेशत्रैलोक्यविद्याभ्यां नमः । (२१) ,, ,, ङं एकरूद्रेशमन्त्रशक्तिभ्यां नमः । (२२) ,, ,, चं कूर्मेशात्मशक्तिभ्यां नमः । (२३) ,, ,, छं एकनेत्रेशभूतमातृभ्यां नमः । (२४) ,, ,, जं चतुराननेशलम्बोदरीभ्यां नमः । (२५) ,, ,, झं अजेशद्राविणीभ्यां नमः । (२६) ,, ,, ञं सर्वेशनागरीभ्यां नमः । (२७) ,, ,, टं सोमेश्वरखेचरीभ्यां नमः । (२८) ,, ,, ठं लाङ्गलीशमञ्जरीभ्यां नमः । (२९) ,, ,, डं दारुकेशरूपिणीभ्यां नमः । (३०) ,, ,, ढं अर्धनारीश्वरेशवीरिणीभ्यां नमः । (३१) ,, - ,, णं उमाकान्तेशवृकोदरीभ्यां नमः । (३२) ,, ,, तं आषाढीशपूतनाभ्यां नमः । (३३) ,, ,, थं दण्डीशभद्रकालीभ्यां नमः । (३४) ,, ,, दं अत्रीशयोगिनीभ्यां नमः । (३५) ,, ,, धं मीनेशशङ्खिनीभ्यां नमः । (३६) ,, ,, नं मेषेशगर्जनीभ्यां नमः । (३७) ,, ,, पं लोहितेशकालरात्रिभ्या नमः । (३८) ,, ,, फं शिखीशकुण्डिनीभ्यां नमः । (३९) .. ,, बं बगलेशकपर्दिनीभ्यां नमः ।

९२८ रामायणमीमांसा परिशिष्ट (४०) ॐ ऐं ह्रीं श्रीं भं द्विरदेशजायाभ्यां नमः । (४१) ,, ,, मं महाकालेशाजयाभ्यां नमः । (४२) ,, ,, यं त्वगात्मने वालीशसुमुखेश्वरीभ्यां नमः । (४३) ,, ,, रं असृगात्मने भुजङ्गेशरेवतीभ्यां नमः । (४४) ,, ,, लं मांसात्मने पिनाकीशमाधवीभ्यां नमः । (४५) ,, ,, वं मेदआत्मने खड्गीशवारुणीभ्यां नमः । (४६) ,, ,, शं अस्थ्यात्मने बकेशवायवीयाभ्यां नमः । (४७) ,, ,, षं मज्जात्मने श्वेतेशरक्षोधरिणीभ्यां नमः । (४८) ,, ,, सं शुक्रात्मने भृग्वीशसहजाभ्यां नमः । (४९) ,, ,, हं प्राणात्मने नकुलीशलक्ष्मीभ्यां नमः । (५०) ,, ,, ळं शक्त्यात्मने संवर्तकेशमहामायाभ्यां नमः । (५१) ,, ,, क्षं क्रोधात्मने शिवेशव्यापिनीभ्यां नमः । “शुद्धा सबिन्दुकायुक्ता कलादिः केशवादिभिः । श्रीकण्ठमातृका चात्र न्यासेऽङ्गे पञ्चमी स्मृता ॥ रुद्रैर्युक्तां केवलां वा मतूनां कर्मारम्भे मातृकां विन्यसेद् यः । मन्त्राः सर्वे कुर्वते तस्य सिद्धिं दोषैः सार्धं याति नाशं जरा च ॥” इति श्रीकण्ठादिमातृकान्यासः । अथ बृहत्तत्त्वन्यासः— “अथ तत्त्वं प्रवक्ष्यामि तत्त्वन्यासं तदर्थिनाम् । यत्तुनत्त्वन्यासमात्रेण तत्त्वमेव प्रजायते ॥” ॐ मं नमः पराय जीवात्मने नमः, ॐ भं नमः पराय प्राणात्मने नमः, एतद्द्वयं सर्वाङ्गे । ॐ बं नमः पराय बुद्ध्यात्मने नमः, ॐ फं नमः पराय अहङ्कारात्मने नमः, ॐ पं नमः पराय मनआत्मने नमः, एतत्त्रयं हृदये । ॐ नं नमः पराय शब्दात्मने नमो मूर्ध्नि । ॐ धं नमः पराय स्पर्शात्मने नमो मुखे । ॐ दं नमः पराय रूपात्मने नमो हृदये । ॐ थं नमः पराय रसात्मने नम उपस्थे । ॐ तं नमः पराय गन्धात्मने नमः पादयोः । ॐ णं नमः पराय श्रोत्रात्मने नमः श्रोत्रयोः । ॐ ढं नमः पराय वागात्मने नमस्त्वचि । ॐ डं नमः पराय चक्षुरात्मने नमश्चक्षुषोः । ॐ ठं नमः पराय जिह्वात्मने नमो जिह्वायाम् । ॐ टं नमः पराय घ्राणात्मने नमो घ्राणे । ॐ ञं नमः पराय वागात्मने नमो वाचि । ॐ झं नमः पराय पाण्यात्मने नमः पाण्योः । ॐ जं नमः पराय पाद्वात्मने नमः पायौ । ॐ छं नमः पराय पादात्मने नमः पादयोः । ॐ चं नमः पराय उपस्थात्मने नमः उपस्थे । ॐ ङं नमः पराय आकाशात्मने नमो मूर्ध्नि । ॐ घं नमः पराय वाय्वात्मने नमो मुखे । ॐ गं नमः पराय तेजात्मने नमो हृदये । ॐ खं नमः पराय सलिलात्मने नमो गुह्ये । ॐ कं नमः पराय पृथिव्यात्मने नमः पादयोः । ॐ शं नमः पराय हृत्पुण्डरीकात्मने नमो गुह्ये । ॐ हं नमः पराय सोममण्डलात्मने षोडशकलात्मने । ॐ सं नमः पराय सूर्यमण्डलाय द्वादशकलात्मने, ॐ रं नमः पराय वह्निमण्डलाय दशकलात्मने, एतत्रितयं हृदि । ॐ षं नमः पराय परमेष्ठ्यात्मने वासुदेवाय नमो मूर्ध्नि । ॐ यं नमः पराय पुरुषात्मने सङ्कर्षणाय नमो मुखे । ॐ वं नमः पराय विश्वात्मने प्रद्युम्नाय नमो हृदये । ॐ लं नमः पराय निवृत्त्यात्मने अनिरुद्धाय नमो गुह्ये । ॐ क्षं नमः पराय सर्वात्मने नारायणाय नमः पादयोः । ॐ क्षौं नमः पराय कोपात्मने नृसिंहाय नमः इति व्यापकम् ।

“अतत्त्वस्याप्यरूपस्य तत्प्राप्तेर्हेतुना पुनः। तत्त्वन्यासमिति प्राहुर्न्यासतत्त्वविदो बुधाः ॥ यः कुर्यात् तत्त्वविन्यासं स पूतो भवति ध्रुवम् । तदात्माननुप्रविश्य भगवानिह तिष्ठति ॥ यतः स एव तत्त्वानि सर्वं तस्मिन् प्रतिष्ठितम् ।” मातृकादेवतयोरन्ते नमः पदं दातव्यम् । इति बृहत्तत्त्वन्यासः । अथ मूर्तिपञ्जरन्यासः— “तन्मूर्तिपञ्जरन्यासं कथयिष्येऽधुना परम् । यस्मात्फलान्तरं नास्ति पुंसस्तन्मूर्तिसिद्धये ॥” ॐ अं ॐ रां केशवाय धात्रे नमो ललाटे । ॐ आं णं रां नारायणायार्यम्णे नमो नाभौ । ॐ इं मों मां माधवाय मित्राय नमो हृदये । ॐ ईं मं यं गोविन्दाय वरुणाय नमः कण्ठे । ॐ उं गं नं विष्णवेंऽशवे नमो दक्षिणपार्श्वे । ॐ ऊं वं मं मधुसूदनाय भगाय नमो दक्षिणांसे । ॐ एं तें रां त्रिविक्रमाय विवस्वते नमो दक्षिणकन्धरे । ॐ ऐं वां रां वामनाय इन्द्राय नमो वामपार्श्वे । ॐ ओं सुं मां श्रीधराय पूष्णे नमो वामांसे । ॐ औं दें यं हृषीकेशाय पर्जन्याय नमो वामकन्धरे । ॐ अं वां नं पद्मनाभाय त्वष्ट्रे नमः पृष्ठे । ॐ अः यं मं दामोदराय विष्णवे नमः ककुदि । ॐ नमो भगवते वासुदेवाय मूर्ध्नि । “तन्मूर्तिपञ्जरन्यासोऽभिहितः परमेष्ठिना । सकृन्न्यासाद् भवेन्मन्त्रो राममूर्तिरनुत्तमः ॥” इति मूर्तिपञ्जरन्यासः । अथ किरीटन्यासः—ॐ किरीटहारकेयूरमकरकुण्डलचक्रशङ्खगदाम्बुजहस्तपीताम्बरधरश्रीवत्साङ्कितवक्षः- स्थलश्रीभूमिसहितात्मज्योतिर्द्वयदिवाकरसहस्रादित्यतेजसे नमः । इति मन्त्रं स्वशरीरे परतेजोव्याप्तिं स्मरन् किरीटमुद्राय मूर्ध्नि विन्यसेत् । इति किरीटन्यासः । अथेन्द्रियन्यासः — “वक्ष्येऽहमिन्द्रियन्यासमिन्द्रियाणां विशुद्धये । यथा सम्प्राप्यते रामो देशिकेन्द्रेण धीमता ॥” ॐ दिग्भ्यो नमः श्रोत्रयोः । ॐ वायवे नमस्त्वचि । ॐ आदित्याय नमश्चक्षुषोः । ॐ वरुणाय नमो जिह्वा- याम् । ॐ अश्विभ्यां नमो घ्राणयोः । ॐ अग्नये नमो वाचि । ॐ इन्द्राय नमः पाण्योः । ॐ विष्णवे नमः पादयोः । ॐ मित्राय नमः पायौ । ॐ प्रजापतये नमः उपस्थे । ॐ चन्द्रमसे नमो मनसि । ॐ ब्रह्मणे नमो बुद्धौ । ॐ रुद्राय नमः अहङ्कारे । ॐ क्षेत्रज्ञाय नमः चित्ते । ॐ अं ईश्वराय नमो मनसि । इति इन्द्रियन्यासः । अथ ऋष्यादिन्यासः— “न्यासमस्य प्रवक्ष्यामि मनोः सर्वफलप्रदम् । न्यासं विना जपं प्राहुरासुरं विफलं बुधाः ॥ ऋषिर्ब्रह्मास्य मन्त्रस्य गायत्रं छन्द उच्यते । रामाख्यं वैष्णवं धाम देवता परिकीर्तिता ॥ आद्यं बीजं नतिः शक्ती रामायेति च कीलकम् । ऋषिर्गुरुत्वात् शिरसैव धार्यश्छन्दोऽक्षरत्वात् रसनागतं स्यात् ॥

९३० रामायणमीमांसा परिशिष्ट धियावगन्तव्यतया सदैव हृदि प्रतिष्ठा मनुदेवतायाः । बीजं सुगुह्यं भवतीति गुह्ये शक्तिः पदोर्धावसंश्रितत्वात् ॥” अर्थात्—ब्रह्मण ऋषये नमः शिरसि । गायत्रीच्छन्दसे नमो मुखे । श्रीरामचन्द्रपरमात्मदेवतायै नमो हृदये । रां बीजाय नमो गुह्ये । नमः शक्तये नमः पादयोः । इति ऋष्यादिन्यासः । अथ करादिन्यासहृदयादिषडङ्गन्यासौ— (१) रां अङ्गुष्ठाभ्यां नमः, हृदयाय नमः । (४) रैं अनामिकाभ्यां नमः, कवचाय हुम् । (२) रीं तर्जनीभ्यां नमः, शिरसे स्वाहा । (५) रौं कनिष्ठिकाभ्यां नमः, नेत्राभ्यां वौषट् । (३) रूं मध्यमाभ्यां नमः, शिखायै वषट् । (६) रः करतलकरपृष्ठाभ्यां नमः, अस्त्राय फट् ॥ “शिरोभ्रूमध्यहृदयनाभिगुह्यपदस्थले । मूलमन्त्राक्षरै

संख्या १ रामोपासना ९३१ “गदारिशङ्खाब्जधरं भवारिं सद्यो ध्यायेन्मोक्षमाप्नोति सर्वः” इति श्रुतेः । “सिंहासने तस्मिन् वीरासनसमाश्रितम् । सम्यग् ज्ञानमयीं मुद्रां दधानं दक्षिणे करे ॥ तेजःप्रकाशनं वामजानुमूर्धनि चापरम् । जानकीवल्लभं देवमिन्द्रनीलमणिप्रभम् ॥ व्याख्याननिरतं देवं द्विभुजं रघुनन्दनम् । वसिष्ठवामदेवादिमुनिभिः परिसेवितम् ॥ वामभागे समासीनां सीतां काञ्चनसंनिभाम् । भजतां कामदां नित्यं रक्तोत्पलकराम्बुजाम् ॥ लक्ष्मणं पश्चिमे भागे धृतच्छत्रं सचामरम् । पार्श्वे भरतशत्रुघ्नौ तालवृन्तधरावुभौ ॥” श्रीरामतापनीय उपनिषद् में स्पष्ट कहा गया है कि विश्वभावन सौमित्रि प्रणव के अकार अक्षर से आविर्भूत होते हैं । उकार अक्षर से तैजसरूप शत्रुघ्न का आविर्भाव होता है । अर्धमात्रास्वरूप ब्रह्मानन्दविग्रह श्रीराम हैं । वहीं यह स्पष्ट उल्लेख है कि यह सब कुछ 'ॐ' इस अक्षर का ही, जो भूत, भविष्यत् तथा वर्तमान त्रिकालातीत है, विस्तार है । वह आत्मा चतुष्पाद है । व्यष्टि प्राज्ञ, समष्टि विराट् स्थूलप्रपञ्चाभिमानी चेतन प्रथमपाद है । उसका जागरित स्थान है ! इन्द्रियादिजनित बहिर्विषयक उसकी प्रज्ञा होती है । उसके भी सात अङ्ग एवं इक्कीस मुख (द्वार) होते हैं । वह स्थूल विषयों का भोक्ता होता है । इसी प्रकार व्यष्टि तैजस समष्टि हिरण्यगर्भ सूक्ष्मप्रपञ्चाभिमानी चेतन द्वितीय पाद है । उसका स्वप्न स्थान है तथा बाह्यविषयेन्द्रियनिरपेक्ष बाह्यविषयसंस्कारजन्य अन्तःप्रज्ञा ही उसमें होती है । उसके भी सात ही अङ्ग एवं २१ मुख होते हैं । वह सूक्ष्म विषयों का ही भोक्ता होता है । व्यष्टि प्राज्ञ एवं समष्टि अव्याकृत कारण प्रपञ्चाभिमानी चेतन तृतीय पाद है । उसका सुषुप्ति स्थान होता है । उस समय का आत्मा किसी काम्य की कामना नहीं करता, किसी स्वप्न को नहीं देखता, वही सुषुप्त है । उस स्थान में एकीभूत प्राज्ञ प्रज्ञानमूर्ति रहता है । वह आनन्दमय तथा आनन्द का ही भोक्ता होता है । वही सर्वेश्वर, सर्वज्ञ, अन्तर्यामी तथा सर्वकारण होता है । वही सबकी उत्पत्ति तथा प्रलय का कारण होता है । कार्यकारणातीत शुद्ध परब्रह्म ही अर्धमात्रा का अर्थ है । वह न अन्तःप्रज्ञ है, न बहिःप्रज्ञ है और न वह उभयतःप्रज्ञ है । न तो वह प्रज्ञरूप है न अप्रज्ञरूप है, किन्तु प्रज्ञानघनरूप अदृश्य, अग्राह्य, अव्यवहार्य, अलक्षण, अचिन्त्य तथा अव्यपदेश्य है । एकात्मप्रत्ययसार, जिसमें प्रपञ्च का उपशम है उसी को तत्त्ववित् अद्वैत शिव एवं चतुर्थ मानते हैं । वही आत्मा है, वही विज्ञेय है । वह सदा ही उज्ज्वल तथा अविद्यात्कार्यहीन है ।— स्वात्मबन्धरहित आनन्दरूप है । वही सर्वाधिष्ठान सत्तामात्र तथा अविद्यामय तमोमोह से रहित है । वोही मैं हूँ । वही ओम्, तत् सत् आदि पदों का लक्ष्यार्थ है । बही ब्रह्म है, वही चिदात्मक रामचन्द्र हैं । वही रामचन्द्र परम ज्योति हैं । वही मैं हूँ । इस प्रकार अद्वय आत्मा का ध्यान करके विशुद्ध मन द्वारा ब्रह्म के साथ आत्मा की एकता का निश्चय कर जो देहादि को बाधितकर तत्त्वतः मैं अखण्डबोधस्वरूप राम हूँ यह भावना करते हैं, वे संसारी नहीं, किन्तु राम ही होते हैं । 'ॐ इत्येतदक्षरमिदं सर्वं तस्योपव्याख्यानं भूतं भव्यं भवद् भविष्यमिति सर्वम् ओङ्कार एव । यच्चान्यत् त्रिकालातीतं तदप्योङ्कार एव सर्वं ह्येतद् ब्रह्मायमात्मा ब्रह्म सोऽयमात्मा चतुष्पात् जागरितस्थानो बहिःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादः, स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक् तैजसो द्वितीयः पादः, यत्र सुप्तो न कंचन कामं कामयते न कंचन स्वप्नं पश्यति तत्सुषुप्तं सुषुप्तस्थान एकीभूतः प्रज्ञानघन

. In 'ल', there is the loop and the right vertical bar. In (२) "नील...", after the right vertical bar of 'ल', there is 'र': "नीलरक्तायै". Wait, no, the ten kalas of Agni in Tantra are:

  1. Dhūmrārcis (धूम्रार्चिः / धूम्रार्च्यै)
  2. Ūṣmā (ऊष्मा) or Nilā / Raktā? Usually: धूम्रार्चिः, ऊष्मा, ज्वलिनी, ज्वालिनी, विस्फुलिङ्गिनी, सुश्रीः, सुरूपा, कपिला, हव्यवाहा, कव्यवाहा. Or: धूम्रा, ऊष्मा, ज्वलिनी, ज्वालिनी, विस्फुलिङ्गिनी, सुश्री, सुरूपा, कपिला, हव्यवाहिनी, कव्यवाहिनी. Wait, what are they here? Here they are: (१) धूम्रार्च्यै (२) नीलरक्तायै / नीलारक्तायै (wait, look at (२): ॐ रं नीलारक्तायै or नीलरक्तायै) (३) कपिलायै (४) विस्फुलिङ्गिन्यै (५) ज्वालायै (६) निष्पत्तिकार्यै (७) हव्यवाहिन्यै (८) कव्यवाहिन्यै (९) रोद्र्यै (

संख्या १ रामोपासना ९३३ शङ्खजले- "गङ्गे च यमुने चैव गोदावरि सरस्वति। नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥" इति तीर्थान्यावाह्य गन्धाद्यैरर्चयेत्- "शङ्खे पाणितलं दत्त्वा जपेन्मन्त्रं षडक्षरम् । चिन्मयं चिन्तयेत्तीर्थमानीयाङ्कुशमुद्रया ॥" धेनुमुद्रां प्रदर्श्य शङ्खचक्रगरुडमुद्राः प्रदर्शयेत् । परमीकरणमुद्रया परमीकृत्य । "करावेकत्र संयोज्यावारार्तिकमिव प्रिये । परमीकरणं नाम मुद्रेयं सर्वकामदा ॥ देवस्य मूर्ध्नि तत्सिञ्चेत् पूजाद्रव्येषु चात्मनः । अवेक्षणं प्रोक्षणं च वीक्षणं ताडनं तथा ॥ अर्चनं चैव सर्वेषां पावनं तत्प्रकल्पयेत् । पूतमेवाखिलं पूजायोग्यं भवति सार्थकम् ॥" इति शङ्खप्रतिष्ठा ताम्रहेमरजतादिमयानि पाद्यार्घ्यमधुपर्काचमनीयार्थं चत्वारि पात्राणि स्थापनीयानि । तत्रार्घ्यपात्रे गन्ध- पुष्पयवाक्षतान् कुशाग्रतिलदूर्वाः सर्षपांश्चार्घ्यपात्रे, श्यामाकमब्जं विष्णुक्रान्ताञ्च पाद्यपात्रे, जातीफलं लवङ्गं कङ्कोलं च आचमनीयपात्रे, दधिमधुघृतानि मधुपर्कपात्रे च स्थापयेत् । सर्वोपचारवस्तूनामलाभे भावनयैव सर्वमुपस्थापनीयम् । निर्मलोदकेनैव वा सर्वस्य पूर्णतेति नारदवचनम् । अन्तर्यागः- "धर्मकन्दसमुद्भूतं ज्ञाननालं सुशोभनम् । ऐश्वर्याष्टदलं पद्मं परं वैराग्यकर्णिकम् ॥ तस्मिन् पीठे चिदात्मानं रामचन्द्रस्वरूपिणम् । ध्यात्वा यजेच्चन्दनाद्यैर्मानसैर्धूपदीपकैः ॥ भोजनावसरे किञ्चिज्जपं कृत्वा निवेदयेत् । स्वाधिष्ठानगते कुण्डे त्रिकोणे वह्निमुज्ज्वलेत् ॥ चिद्रूपं प्रणवेनाथ तत्राहन्तादिकं हुनेत् । पूजाहोमादिकं देव कृतं यत् त्वदनुग्रहात् ॥ तेन प्रीतो भव त्वं भोः शुद्धं मे मानसं कुरु । निवेदयामि चात्मानं त्वं गतिः परमेश्वर ॥ मानसैः कुसुमैरर्चा सात्त्विकी सा शुभा मता । तस्मात्सर्वप्रयत्नेन मानसं यजनं ध्रुवम् । आदौ चैव प्रकर्त्तव्यं पश्चाद् द्रव्यैः सविस्तरैः ॥" इत्यन्तर्यागः । अथ बहिर्यागः-आत्मानं चिन्मयं ध्यात्वा गन्धादिभिरर्चयेत् । (१) ॐ आत्मतत्त्वाय नमः (२) ॐ कला- तत्त्वाय नमः (३) ॐ विद्यातत्त्वाय नमः (४) ॐ रामतत्त्वाय नमः इत्यात्मानमभ्यर्च्य बहिर्यागं कुर्यात् । अथ श्रीराममहामन्त्रम्- "कामक्रोधादिदोषोत्थदीर्घदुःखानियन्त्रणात् । यन्त्रमित्याहुरेतस्मिन् रामः प्रीणाति पूजितः ॥

९३४ रामायणमीमांसा परिशिष्ट यन्त्रं मन्त्रमयं प्रोक्तं मन्त्रात्मा देवतेति च । देहात्मनोर्र्यथा भेदो मन्त्रदेवतयोस्तथा ॥ सौवर्णे राजते ताम्रे पीठे भूर्जेऽथवा भुवि । विना यन्त्रेण चेत् पूजा देवता न प्रसीदति ॥ त्रिरेखापुटमालिख्य मध्ये तारद्वयं लिखेत् । तन्मध्ये बीजमालिख्य तदधः साध्यमालिखेत् ॥ द्वितीयान्तं च तस्योर्ध्वं षष्ठ्यन्तं साधकं तथा । कुरुद्वयं च तत्पार्श्वे लिखेद् बीजान्तरे रमाम् ।। तत्सर्वं प्रणवाभ्याञ्च वेष्टयेच्छुचिबुद्धिमान् । दीर्घभाजि षडस्त्रेषु लिखेद् बीजं हृदादिभिः ॥ कोणपार्श्वे रमामाये तदग्रेऽनङ्गमालिखेत् । क्रोधं कोणाग्रान्तरे तु लिखेन्मन्त्रमभितो गुरुम् ॥ वृत्तत्रयं चाष्टपत्रं सरोजे विलिखेत् स्वरान् । [L1

संख्या १ रामोपासना ९३५ इदं सर्वात्मकं यन्त्रं प्रागुक्तमृषिसेवितम् । इदं रहस्यं परममीश्वरेणापि दुर्गमम् ॥ एवं यन्त्रं समाख्यातं न देयं प्राकृते जने । गुरुदर्शितमार्गेण स्वबुद्धया नैव तल्लिखेत् ॥ गुर्वनुक्ताः क्रियाः सर्वा निष्फलाः स्युर्यतो ध्रुवम् । अथ पीठपूजाप्रकारः— इस महाचक्र में राघवेन्द्र रामचन्द्र की पूजा करनी चाहिये । प्रथम पीठपूजा आवश्यक है। अपने सम्मुख वामभाग में (१) श्रीगुरुभ्यो नमः (२) श्रीपरमगुरुभ्यो नमः (३) श्रीपरमेष्ठिगुरुभ्यो नमः (४) श्रीपरस्परगुरुभ्यो नमः इस प्रकार गुरु की अर्चा कर के स्वदक्षिण भाग में (१) गं गणपतये नमः (२) सं सरस्वत्यै नमः (३) दुं दुर्गायै नमः (४) क्षं क्षेत्रपालाय नमः (५) ह्रीं बटुकाय नमः इन मन्त्रों से गणपति आदि देवताओं की पूजा करनी चाहिये । यागगृह के मध्य में वास्तुपुरुषाय नमः से पूजन कर पीठ के मध्य में मण्डूकाय नमः से पूजन करना चाहिये । पीठ के ऊपर (१) कालाग्निरुद्राय नमः (२) कूर्माय नमः (३) आधारशक्तये नमः (४) पृथिव्यै नमः इन आधार शक्तियों का पूजन कर (१) क्षीरसमुद्राय नमः (२) रत्नद्वीपाय नमः (३) मणिमण्डपाय नमः (४) कल्पवृक्षेभ्यो नमः (५) रत्नवेदि- कायै नमः (६) रत्नसिंहासनाय नमः इन मन्त्रों से भगवान् के निवासस्थल की पूजा पीठ में ही करनी चाहिये । पीठ के आग्नेयादि चार पादों में (१) धर्माय नमः (२) ज्ञानाय नमः (३) वैराग्याय नमः (४) ऐश्वर्याय नमः इस मन्त्र से पूजन करके पीठगात्र में पूर्वादि क्रम से (१) अधर्माय नमः (२) अज्ञानाय नमः (३) अवैराग्याय नमः (४) अनैश्वर्याय नमः इस मन्त्र से पूजा करनी चाहिये । कर्णिका में (१) आनन्दकन्द, (२) नाल, (३) सरोरुह, (४) पत्र और (५) केसर की पूजा करनी चाहिये । (१) आनन्दकन्दाय नमः, (२) संविन्नालाय नमः, (३) चित्सरोरुहाय नमः, (४) ज्ञानमयपत्रेभ्यो नमः (५) केसरेभ्यो नमः कर्णिका में प्रणव, अर्कबीज, चन्द्रबीज और अग्निबीजपूर्वक अर्कमण्डल, अग्नि- मण्डल तथा इन्दुमण्डल इन तीनों मण्डलों, सत्त्व, रज तथा तम इन तीनों गुणों, आत्मा, अन्तरात्मा, परमात्मा और ज्ञानात्मा इन आत्मचतुष्टयों, मायातत्त्व, कलातत्त्व, विद्यातत्त्व तथा परतत्त्व इन तत्त्वचतुष्टयों का एक-एक के ऊपर पूजन करके—(१) विमला, (२) उत्कर्षिणी, (३) ज्ञान, (४) क्रिया, (५) योगा, (६) प्रह्वी, (७) सत्या, (८) ईशाना तथा (९) अनुग्रहा इन शक्तियों का यजन पूर्वादि अष्ट पत्रों और कर्णिका में करना चाहिये । (१) ॐ अं अर्कमण्डलाय नमः (२) ॐ रं अग्निमण्डलाय नमः (३) ॐ इं इन्दुमण्डलाय नमः, (१) ॐ सं सत्त्वाय नमः (२) ॐ रं रजसे नमः (३) ॐ तं तमसे नमः, (१) ॐ आत्मने नमः (२) ॐ अन्तरात्मने नमः (३) ॐ परमात्मने नमः (४) ॐ परतत्त्वाय नमः (१) ॐ विमलायै नमः (२) ॐ उत्कर्षिण्यै नमः (३) ॐ ज्ञानायै नमः (४) ॐ क्रियायै नमः (५) ॐ योगायै नमः (६) ॐ प्रह्व्यै नमः (७) ॐ सत्यायै नमः (८) ॐ ईशानायै नमः (९) ॐ अनुग्रहायै नमः । मूर्ति में भगवान् श्रीराम का आवाहन— हाथ में पुष्पाञ्जलि लेकर हृदयपङ्कज में स्थित चैतन्यविग्रह श्रीराम का ध्यान कर पादुका मुद्रा से हृदय- कमल से श्वासमार्ग द्वारा पुष्पाञ्जलि में समागत भगवान् श्रीराम की भावना कर सिद्ध मुद्रा से मूर्ति में संयोजित करके आवाहनादि सात मुद्राओं का प्रदर्शन करना चाहिये । "चैतन्यविग्रहं रामं स्थितं हृदयपङ्कजे । श्वासमार्गेणागतञ्च चिन्तयेत् कुसुमाञ्जलौ ॥ 'मूलाधाराद् द्वादशान्तमानीतः कुसुमाञ्जलिः' मूलाधार से कुसुमपरिपूर्ण अञ्जलि को ललाट स्थान में लाना कुसुमाञ्जलि मुद्रा है। उत्तान हस्तद्वय का संहत अञ्जलिबन्ध करके अङ्गुष्ठ को अनामिका के मूल में रखने से आवाह- नीया मुद्रा होती है। वही अधोमुखी स्थापनी मुद्रा है।

९३६ रामायणमीमांसा परिशिष्ठ “एषैवाधोमुखी मुद्रा स्थापनीत्युच्यते बुधैः ।” “उत्तानाङ्गुष्ठयोगेन मुष्टीकृतकरद्वयम् । सन्निधीकरणं नाम मुद्रा देवाचंनाविधौ ॥” दोनों हाथों की मुष्टि बांधकर उत्तान अङ्गुष्ठों को मिलाने से सन्निधीकरण मुद्रा बनती है। दोनों अङ्गुष्ठों को मुष्टिगर्भित कर लेने पर वही सन्निरोधिनी मुद्रा होती है। “अङ्गुष्ठगभिणी सैव मुद्रा स्यात् सन्निरोधिनी ।” दोनों मुष्टियां उत्तान होकर मिल जायें तो सम्मुखीकरण मुद्रा बनती है। “उत्तानमुष्टियुगला सम्मुखीकरणी तथा । देवताङ्गे षडङ्गानां न्यासः स्यात्सकलीकृतिः ॥ अन्योन्याङ्गुष्ठसंल्लग्ना विस्तारिकतकरद्वया । महामुद्रेयमाख्याता न्यूनाधिकसमापनी ॥” दोनों अङ्गुष्ठ परस्पर संलग्न रखकर दोनों हाथों को अधोमुख फैलाकर हृदय, सिर, शिखा, कवच, नेत्र और अस्त्र का स्पर्श करना सकलीकरण मुद्रा होती है। दोनों अङ्गुष्ठों को संलग्नकर दोनों हाथों की समस्त अङ्गुलियों को प्रसारित करना ही परमीकरण मुद्रा है। “अन्योन्यग्रथिताङ्गुष्ठा प्रसारितकराङ्गुली । महामुद्रेयमुदिता परमीकरणं बुधैः ॥” बाँयें हाथ की मुष्टि बनाकर दीर्घ अधोमुखतर्जनी को मुष्टि के चारों ओर घुमाना अवगुण्ठन मुद्रा है । “सव्यहस्तकृता मुष्टिर्दीर्घाधोमुखतर्जनी । अवगुण्ठनमुद्रेयमभितो भ्रमिता मता ॥” धेनुमुद्रा से अमृतीकरण करना चाहिये । “वामाङ्गुष्ठं तु सङ्गृह्य दक्षिणेन तु मुष्टिना । कृतोत्तानां ततो मुष्टिमाङ्गुष्ठं तु प्रसारयेत् ॥ वामाङ्गुल्या तथा श्लिष्टाः संयुक्ताः स्युः प्रसारिताः । दक्षिणाङ्गुष्ठसंस्पृष्टा मुद्रैषा शङ्खमुद्रिका ॥” बायें अङ्गुष्ठ को दक्षिण मुष्टि से पकड़कर मुष्टि को उत्तान कर बाँये हाथ की संहृत अङ्गुलियों से प्रसारित दक्षिण अङ्गुष्ठ का सम्बन्ध होने से शङ्खमुद्रा बनती है। अन्योन्य अभिमुख स्पर्श-व्यत्यय से अङ्गुलियों द्वारा प्रयत्न से मण्डलीकरण चक्रमुद्रा बनती है। “अन्योन्याभिमुखस्पर्शव्यत्ययेन तु वेष्टयेत् । अङ्गुलीभिः प्रयत्नेन मण्डलीकरणं मुने । चक्रमुद्रेयमाख्याता गदामुद्रा ततः परम् ॥” जिसमें अङ्गुलियां अन्योन्य अभिमुख होकर आश्लिष्ट हों और मध्यमा प्रोन्नत हो वह गदामुद्रा है । “अन्योन्याभिमुखा श्लिष्टाऽङ्गुलिः प्रोन्नतमध्यमा । अथाङ्गुष्ठद्वयं मध्ये दत्त्वापि परितः करो ॥ मण्डलीकरणं सम्यगङ्गुलीनां तपोधन । पद्ममुद्रा भवेदेषा धेनुमुद्रा ततः परम् ॥” दोनों अङ्गुष्ठों को मध्य में देकर अङ्गुलियों का मण्डलीकरण ही पद्ममुद्रा है।

संख्या १ रामोपासना ९३७ “अनामिके कनिष्ठाभ्यां तर्जनीभ्यां च मध्यमे । अन्योन्याभिमुखाश्लिष्टा ॥” दोनों अनामिकाओं को दोनों कनिष्ठिकाओं से दोनों तर्जनियों को दोनों मध्यमाओं से अन्योन्य संश्लिष्ट करना धेनुमुद्रा है । “कनिष्ठेऽन्योन्यसंलग्नेऽभिमुखेऽपि परस्परम् । वामस्य तर्जनीमध्ये मध्यनामिकयोरपि ॥ वामानामिकसंस्पृष्टा तर्जनीमध्यशोभिता । पर्यायेण नताऽङ्गुष्ठद्वयी कौस्तुभलक्षणा ॥” दोनों कनिष्ठिकाएँ अन्योन्य अभिमुख ओर संलग्न होने पर भी परस्पर वामहस्त की तर्जनी और मध्यमा, मध्यमा और अनामिका में वाम अनामिका से तर्जनी और मध्यमा पर्याय से शोभित हों और दोनों अङ्गुष्ठ नत रहें यही कौस्तुभमुद्रा है । “हस्तौ तु सम्मुखौ कृत्वा संहृतप्रोन्नताङ्गुली । तलान्तमिलिताङ्गुष्ठौ कृत्वैषा पद्ममुद्रिका ॥” “कनिष्ठान्योन्यसंलग्ना विपरीतं तु योजिता । [

९३८ रामायणमीमांसा परिशिष्ट हस्तौ तु विमुखौ कृत्वा ग्रथयित्वा कनिष्ठिके । मिथस्तर्जनिके श्लिष्टे श्लिष्टाङ्गुलिकरौ तथा ॥” “मध्यमानामिके द्वे तु द्वौ पक्षाविव चालयेत् । एषा गरुड़मुद्राख्या विष्णोः सन्तोषवर्धिनी ॥ वामस्य मध्यमाग्रं तु तर्जन्यग्रेण योजयेत् । अनामिकां कनिष्ठां च तस्याङ्गुष्ठेन पीडयेत् ॥” “दर्शयेत् वामके स्कन्धे धनुर्मुद्रेयमीरिता । स्पृशेत् कण्ठादिपादान्तं तर्जन्याऽङ्गुष्ठयुक्तया ॥ करद्वयेन मालावन्मुद्रेयं वनमालिका । ज्ञानमुद्रा रामचन्द्रस्य प्रेयसी ॥” “ऊर्ध्वस्थाङ्गुष्ठमुष्टी द्वे मुद्रा त्रैलोक्यमोहिनी ।” इति जगन्मोहिनी मुद्रा । “हस्तौ तु सम्पुटौ कृत्वा प्रसृताङ्गुलिकौ तथा । तर्जन्यौ मध्यमापृष्ठे ह्यङ्गुष्ठौ मध्यमाश्रितौ ॥ काममुद्रेयमाख्याता सर्वदेवप्रियङ्करी । उच्छ्रितं दक्षिणाङ्गुष्ठं वामाङ्गुष्ठेन बन्धयेत् । वामाङ्गुलीर्दक्षिणाभिरङ्गुलीभिश्च बन्धयेत् । लिङ्गमुद्रेयमाख्याता शिवसान्निध्यकारिणी ॥ मुष्टिं कृत्वा तु हस्ताभ्यां वामस्योपरि दक्षिणम् । कुर्यान्मुसलमुद्रेयं सर्वविघ्नविनाशिनी ॥ मुष्टिं कृत्वा कराभ्यां तु वामस्योपरि दक्षिणम् । ततः शिरसि संयोगात् दुर्गामुद्रेयमीरिता ॥ अधोमुखे वामहस्ते ऊर्ध्वं स्याद् दक्षहस्तकम् । क्षिप्त्वाङ्गुलीरङ्गुलीभिः संग्रथ्य परिवर्तयेत् ॥ एषा संहारमुद्रा स्यात् विसर्जनविधौ स्मृता ।” मत्स्यमुद्रा कूर्ममुद्रा— मिथः कनिष्ठिके बद्ध्वा तर्जनीभ्यामनामिके । अनामिकोर्ध्वसंश्लिष्टे दीर्घमध्यमयोरधः ॥ अङ्गुष्ठाग्रद्वयं न्यस्येत् योनिमुद्रेयमीरिता । दक्षिणाङ्गुष्ठतर्जन्यावग्रलग्ने पराङ्मुखे । प्रसार्य संहितोत्ताना ह्येषा व्याख्यानमुद्रिका । दक्षिणा निबिडामुष्टिरनामार्पिततर्जनी ॥ मुद्रा विस्मयसंज्ञा स्याद्विस्मयावेशकारिणी । तर्जन्यनामिकामध्ये कनिष्ठाक्रमयोगतः ॥