रामायण मीमांसा (स्वामी करपात्री जी महाराज - रामायण दार्शनिक महाग्रन्थ एवं सम्पूर्ण चरित्र-मीमांसा)
Ramayana Mimamsa of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 998, कुल 1049 में से
संदर्भ में पढ़ेंककुदि । वं उल्कायै नमः वामबाहुमूले । शं मृत्यवे नमः हृदादिदक्षकरे । षं पीतायै नमः हृदादिवामकरे । सं श्वेतायै नमः हृदादिदक्षिणचरणे । हं अरुणायै नमः हृदादिवामचरणे । लं असितायै नमः जठरे । क्षं अनन्तायै नमः मुखे । अथ अष्टात्रिंशत्कलान्यासः— (१) अं अमृतायै नमो दक्षबाहुमूले । (२) आं आनन्दायै नमः कूर्परे (३) इं पूषायै नमः मणिबन्धे (४) ईं तुष्ट्यै नमः अङ्गुलिमूले (५) उं पुष्ट्यै नमः अङ्गुल्यग्रे (६) ऊं रत्यै नमः वामबाहुमूले (७) ऋं धृत्यै नमः कूर्परे (८) ॠं शशिन्यै नमः मणिबन्धे (९) ऌं चन्द्रिकायै नमः अङ्गुलिमूले (१०) ॡं कान्त्यै नमः अङ्गुल्यग्रे (११) एं ज्योत्स्नायै नमः दक्षपादमूले (१२) ऐं श्रियै नमः दक्षजानुनि (१३) ओं प्रीत्यै नमः दक्षगुल्फे (१४) औं अङ्गदायै नमः दक्षपादाङ्गुलिमूले (१५) अं पूर्णायै नमः दक्षपादाङ्गुल्यग्रे (१६) अः पूर्णामृतायै नमः सर्वाङ्गे (१७) क भं तपिन्यै नमः दक्षबाहुमूले (१८) ख बं तापिन्यै नमः कूर्परे (१९) गं फं धूम्रायै नमः मणिबन्धे (२०) घं पं मरीच्यै नमः अङ्गुलिमूले । (२१) ङं नं ज्वालिन्यै नमः अङ्गुल्यग्रे । (२२) चं धं रुच्यै नमः वामबाहुमूले (२३) छं दं सुषुम्णायै नमः कूर्परे (२४) जं थं भोगदायै नमः मणिबन्धे (२५) झं तं विश्वायै नमः अङ्गुलिमूले (२६) ञं णं बोधिन्यै नमः अङ्गुल्यग्रे (२७) टं ढं धारिण्यै नमः दक्षपादमूले (२८) ठं डं क्षमायै नमः दक्षजानुनि (२९) यं धूम्रार्चिषे नमः दक्षगुल्फे (३०) रं ऊष्मायै नमः दक्षाङ्गुलिमूले (३१) लं ज्वालिन्यै नमः दक्षाङ्गुल्यग्रे (३२) वं ज्वालामालिन्यै नमः वामपादमूले (३३) शं विस्फुलिङ्गिन्यै नमः वामजानुनि (३४) षं सुश्रियै नमः वामगुल्फे (३५) सं सुरूपायै नमः वामाङ्गुलिमूले (३६) हं कमलायै नमः वामाङ्गुल्यग्रे (३७) ळं हव्यवाहनायै नमः मस्तके (३८) क्षं कव्यवाहनायै नमः इति व्यापकम् । अथ केशवादिमातृकान्यासः—अस्य श्रीकेशवादिमातृकान्यासस्य साध्यनारायण ऋषिः देवीगायत्री च्छन्दः श्रीमहालक्ष्मीनारायणो देवता हलो बीजं स्वराः शक्तिः दृष्टार्थे न्यासे विनियोगः । ॐ श्रीं ॐ नमो नारायणाय हंसः सोहं अं कं खं गं घं ङं आं ह्रीं सोहं हंसः ॐ नमो नारायणाय बुद्धोल्काय स्वाहा श्रीं देव्यै हृदयाय नमः, हृदये । ॐ श्रीं ॐ नमो नारायणाय हंसः सोहं इं चं छं जं झं ञं ईं ह्रीं सोहं हंसः ॐ नमो नारायणाय महोल्काय स्वाहा श्रीं पद्मिन्यै नमः शिरसे स्वाहा, शिरसि । ॐ श्रीं ॐ नमो नारायणाय हंसः सोहं उं टं ठं डं ढं णं ऊं ह्रीं सोहं हंसः ओं नमो नारायणाय वीरोल्काय स्वाहा श्रृं विष्णुपत्न्यै नमः शिखायै वषट् । ॐ श्रीं ॐ नमो नारायणाय हंसः सोहं एं तं थं दं धं नं ऐं ह्रीं सोहं हंसः ॐ नमो नारायणाय विद्युदुल्काय स्वाहा श्रों वरदायै नमः कवचाय हुम् । ॐ श्रीं ॐ नमो नारायणाय हंसः सोहं ओं पं फं बं भं मं औं ह्रां सोहं हंसः अं नारायणाय सहस्रोल्काय स्वाहा श्रौं कमलरूपायै नमः नेत्रत्रयाय वौषट् । ॐ श्रीं ओं नमः नारायणाय हंसः सोहं अं यं रं लं वं शं षं सं हं लं क्षं अः ह्रीं सोहं हंसः ॐ नमो नारायणाय अनन्तोल्काय स्वाहा श्रः शूलिन्यै नमः अस्त्राय फट् । इति षडङ्गन्यासः । अथ केशवादिमातृकाध्यानम्— “विद्युदरविन्दमुकुरामृतकुम्भपद्मकोमोदकीदरसुदर्शनशोभिहस्तम् । सौदामिनीमुकुरकान्तिविकामिलक्ष्मीनारायणात्मकमखण्डितमादिमूर्तिम् ॥” (१) ॐ ह्रीं श्रीं क्लीं अं क्लीं श्रीं ह्रीं केशवाय कीर्त्यै नमो मौलौ । (२) ,, ,, आं ,, नारायणाय कान्त्यै नमो मुखवृत्ते । (३) ,, ,, इं ,, माधवाय तुष्ट्यै नमो दक्षिणनेत्रे । (४) ,, ,, ईं ,, गोविन्दाय पुष्ट्यै नमो वामनेत्रे । (५) ,, ,, उं ,, विष्णवे धृत्यै नमो दक्षिणकर्णे ।