रामायण मीमांसा (स्वामी करपात्री जी महाराज - रामायण दार्शनिक महाग्रन्थ एवं सम्पूर्ण चरित्र-मीमांसा)
Ramayana Mimamsa of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 997, कुल 1049 में से
संदर्भ में पढ़ेंआं ह्रीं क्रों ॐ अं कं खं गं घं ङं आं पृथिव्यप्तेजोवाय्वाकाशात्मने अङ्गुष्ठाभ्यां नमः । आं ह्रीं क्रों ॐ इं चं छं जं झं ञं ईं शब्दस्पर्शरूपरसगन्धात्मने तर्जनीभ्यां नमः । आं ह्रीं क्रों ॐ उं टं ठं डं ढं णं ऊं श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणात्मने मध्यमाभ्यां नमः । आं ह्रीं क्रों ॐ एं तं थं दं धं नं ऐं वाक्पाणिपादपायूपस्थात्मने अनामिकाभ्यां नमः । आं ह्रीं क्रों ॐ ओं पं फं बं भं मं औं वक्तव्यादानगमनविसर्गानन्दात्मने कनिष्ठिकाभ्यां नमः । आं ह्रीं क्रों ॐ अं यं रं लं वं शं षं सं हं लं क्षं अः मनोबुद्धयहङ्कारचित्तात्मने करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिषडङ्गन्यासान् विधाय— आं नाभेराधः । ह्रीं हृदयादिनाभिपर्यन्तम् । क्रों मस्तकादिहृदयपर्यन्तम् । यं त्वगात्मने नमो हृदि । रं असृगात्मने नमो दक्षदोर्मूले । लं मांसात्मने नमः ककुदि । वं मेदआत्मने नमो वामांसे । शं अस्थ्यात्मने नमो हृदयादि- पाणियुगले । षं मज्जात्मने नमो हृदयादिपाद्युगले । सं शुक्रात्मने नमो जठरे । हं प्राणात्मने नम आनने । लं जीवात्मने नमो व्यापकम् । हृदि अङ्गुष्ठं दत्त्वा आं ह्रीं क्रों यं रं लं वं शं षं सं हं लं क्षं हंसः सोहं मम प्राणा इह प्राणाः । पुनरेतान्येव बीजाक्युच्चार्य मम जीव इह स्थितः । पुनरेतान्येव बीजान्युच्चार्य मम सर्वेन्द्रियाणि इह स्थितानि । पुनरेतान्येव बीजान्यु- च्चार्य मम वाङ्मनस्त्वक्चक्षुर्जिह्वाश्रोत्रघ्राणप्राणाः सर्वे इहागत्य स्वस्तये चिरं सुखेन तिष्ठन्तु स्वाहा । अथ प्राणशक्तेर्ध्यानम्— "रक्ताम्भोधिस्थपोतोल्लसदरुणसरोजाधिरूढा कराब्जैः पाशं कोदण्डमिक्षूद्भवमथ गुणमप्यङ्कुशं पञ्चबाणान् । बिभ्राणासृक्कपालं त्रिनयनलसिता पीनवक्षोरुहाढ्या देवी बालार्कवर्णा भवतु सुखकरी प्राणशक्तिः परा नः ॥" ततो जन्मादिषोडशसंस्कारसिद्ध्यर्थं षोडशवारं प्रणवं जपित्वा परां शक्तिं स्मरेत् भगवन्नामोच्चारणं च कुर्यात् । "यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु । न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ॥" ( इति प्राणप्रतिष्ठा ) अथ निवृत्त्यादिन्यासः—अं निवृत्त्यै नमो मौलौ । आं प्रतिष्ठायै नमो मुखवृत्ते । इं विद्यायै नमो दक्षिणनेत्रे । ईं ईशानायै नमो वामनेत्रे । उं इन्धिकायै नमो दक्षिणकर्णे । ऊं दीपिकायै नमो वामकर्णे । ऋं रेचिकायै नमो दक्षिण- नासापुटे । ॠं मोचिकायै नमो वामनासापुटे । लूं परायै नमो दक्षिणकपोले । लॄं सूक्ष्मायै नमो वामकपोले । एं मृडायै नमो ऊर्ध्वोष्ठे । ऐं ज्ञानायै नमः अधरोष्ठे । ओं आप्यायिन्यै नमः ऊर्ध्वदन्तपङ्क्तौ । औं व्यापिन्यै नमः अधोदन्त- पङ्क्तौ । अं व्योमरूपायै नमो मूर्ध्नि । अः अनन्तायै नमः मुखमध्ये जिह्वायां च । कं सृष्ट्यै नमः दक्षबाहुमूले । खं ऋद्ध्यै नमः कूर्परे । गं स्मृत्यै नमो मणिबन्धे । घं मेधायै नमः अङ्गुलिमूले । ङं कान्त्यै नमः अङ्गुल्यग्रे । चं लक्ष्म्यै नमो वामबाहुमूले । छं द्युत्यै नमः कूर्परे । जं स्थिरायै नमो मणिबन्धे । झं स्थित्यै नमः अङ्गुलिमूले । ञं सिद्ध्यै नमः अङ्गुल्यग्रे । टं जरायै नमो दक्षपादमूले । ठं पालिन्यै नमो जानुनि । डं क्षान्त्यै नमो गुल्फे । ढं ऐश्वर्यै नमः अङ्गुलि- मूले । णं रत्यै नमः अङ्गुल्यग्रे । तं कामिकायै नमो वामपादमूले । थं वरदायै नमो जानुनि । दं आह्लादिन्यै नमः गुल्फे । धं प्रीत्यै नमः अङ्गुलिमूले । नं दीर्घायै नमः अङ्गुल्यग्रे । पं तीक्ष्णायै नमः दक्षपार्श्वे । बं अभयायै नमः पृष्ठे । भं निद्रायै नमः नाभौ । मं तन्द्रायै नमः उदरे । यं क्षुधायै नमः हृदि । रं क्रोधिन्यै नमो दक्षदोर्मूले । लं क्रियायै नमः