रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)
Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary
सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 13, कुल 94 में से
संदर्भ में पढ़ें६ आयुर्वेदीयग्रन्थमाला । [उपदेशः तत्सर्वं भृङ्गजैर्द्रवैर्दिनमेकं विमर्दयेत् । वज्रमूषान्वितं ध्मातं म्रियते शशिसंनिभम् ॥ ४९ ॥ पारदमारणस्य दशमः प्रकारः । द्रवैस्तु कीटमारिण्या ह्यजमोदाद्रवैश्च वा । अहिमार्या द्रवैर्वाऽथ किंवा श्वेताङ्कुलद्रवैः ॥ ५० ॥ मर्दयेत्पारदं शुद्धं समगन्धं दिनत्रयम् । संपुटे मृण्मये रुद्धा करीषाग्नौ दिवानिशि ॥ ५१ ॥ पचेत्तुषाग्निना वाऽथ त्रिदिनान्म्रियते ध्रुवम् । पारदमारणस्यैकादशः प्रकारः । शुद्धमूतं मृतं वज्रं समांशं तप्तखल्वके ॥ ५२ ॥ हंसपाद्या द्रवैर्मर्द्यं त्रिदिनान्ते समुद्धरेत् । बीजैर्दिव्यौषधीनां च वज्रमूषां प्रलेपयेत् ॥ ५३ ॥ तत्र पूर्वरसं रुद्धा त्रिदिनं तुषवह्निना । पाचयित्वा समुद्धृत्य तत्समं शुद्धपारदम् ॥ ५४ ॥ एकीकृत्य त्र्यहं मर्द्यं हंसपाद्या द्रवैर्दृढम् । तद्गोलं पूर्ववत्पच्यान्मृतं भवति शोभनम् ॥ ५५ ॥ वज्रादिमारणविधेरतिदेशेन कथनम् । वज्राभ्राद्यष्टलोहानां रसखण्डे यथोदितम् । मारणं वांदिखण्डे वा तथा ज्ञेयं रसायने ॥ ५६ ॥ मृतरसगुणाः । एवं मृतो रसवरः परमामृतः स्या- त्त्तसेवकाः सततमस्य दृढं तु तेषाम् । देहं करोति सहसा सुरसुन्दरीणां क्रीडाक्षमं परमसुन्दरमेव नित्यम् ॥ ५७ ॥ इति श्रीपार्वतीपुत्रनित्यनाथसिद्धविरचिते रसरत्नाकरे रसायनखण्डे रसमा- रणं नाम प्रथमोपदेशः ॥ १ 'वादखण्डे' ख. । २ 'पदं' ख. ।