भारतकोश
संग्रह पर लौटें

रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary

सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished94 पृष्ठ

६ आयुर्वेदीयग्रन्थमाला । [उपदेशः तत्सर्वं भृङ्गजैर्द्रवैर्दिनमेकं विमर्दयेत् । वज्रमूषान्वितं ध्मातं म्रियते शशिसंनिभम् ॥ ४९ ॥ पारदमारणस्य दशमः प्रकारः । द्रवैस्तु कीटमारिण्या ह्यजमोदाद्रवैश्च वा । अहिमार्या द्रवैर्वाऽथ किंवा श्वेताङ्कुलद्रवैः ॥ ५० ॥ मर्दयेत्पारदं शुद्धं समगन्धं दिनत्रयम् । संपुटे मृण्मये रुद्धा करीषाग्नौ दिवानिशि ॥ ५१ ॥ पचेत्तुषाग्निना वाऽथ त्रिदिनान्म्रियते ध्रुवम् । पारदमारणस्यैकादशः प्रकारः । शुद्धमूतं मृतं वज्रं समांशं तप्तखल्वके ॥ ५२ ॥ हंसपाद्या द्रवैर्मर्द्यं त्रिदिनान्ते समुद्धरेत् । बीजैर्दिव्यौषधीनां च वज्रमूषां प्रलेपयेत् ॥ ५३ ॥ तत्र पूर्वरसं रुद्धा त्रिदिनं तुषवह्निना । पाचयित्वा समुद्धृत्य तत्समं शुद्धपारदम् ॥ ५४ ॥ एकीकृत्य त्र्यहं मर्द्यं हंसपाद्या द्रवैर्दृढम् । तद्गोलं पूर्ववत्पच्यान्मृतं भवति शोभनम् ॥ ५५ ॥ वज्रादिमारणविधेरतिदेशेन कथनम् । वज्राभ्राद्यष्टलोहानां रसखण्डे यथोदितम् । मारणं वांदिखण्डे वा तथा ज्ञेयं रसायने ॥ ५६ ॥ मृतरसगुणाः । एवं मृतो रसवरः परमामृतः स्या- त्त्तसेवकाः सततमस्य दृढं तु तेषाम् । देहं करोति सहसा सुरसुन्दरीणां क्रीडाक्षमं परमसुन्दरमेव नित्यम् ॥ ५७ ॥ इति श्रीपार्वतीपुत्रनित्यनाथसिद्धविरचिते रसरत्नाकरे रसायनखण्डे रसमा- रणं नाम प्रथमोपदेशः ॥ १ 'वादखण्डे' ख. । २ 'पदं' ख. ।

ान् (-) 15. त (v) 16. सी (-) 17. मा (-) 18. व (v) 19. धि (v / -) Total syllables = 19! Shardulavikridita pattern: - - - v v - v - v v v - - - v - - v - (19 syllables) Pause at 12 and 7! Let's check: 1-3: सम् (-) यग् (-) दिव् (-) -> 3 heavy. 4-5: य (v) र (v) -> 2 light. 6: सा (-) -> 1 heavy. 7: य (v) -> 1 light. 8: ने (-) -> 1 heavy. 9-11: न (v) स (v) त (v) -> 3 light. 12: तं (-) -> 1 heavy. (Yati at 12!) 13-15: कल् (-) पान् (-) त (v) -> 2 heavy, 1 light. 16-17: सी (-) मा (-) -> 2 heavy. 18-19: व (v) धि (-) -> 1 light, 1 heavy. PERFECT SHARDULA-VIKRIDITA! (19 syllables).

Now let's apply Shardulavikridita (1

८ आयुर्वेदियग्रन्थमाला । [उपदेशः द्वाभ्यां तुल्यं मृतं कान्तं कान्ततुल्यं मृताभ्रकम् । तत्सर्वं भृङ्गजैर्द्रवैर्मर्दितं भावयेत्त्र्यहम् ॥ १० ॥ त्र्यहं गोक्षुरकद्रावैः क्षौद्रैर्माषं ततो लिहेत् । रसो वज्रेश्वरो नाम वज्रकायकरो नृणाम् ॥ ११ ॥ चतुर्मासैर्जरां हन्ति जीवेद्ब्रह्मदिनं किल । भृङ्गराजस्य पञ्चाङ्गं चूर्णयेत्त्रिफलासमम् ॥ १२ ॥ पलैकं मधुना लेह्यं क्रामकं परमं रसे । वज्रधारारसः । वज्रमृताभ्रहेम्नां तु भस्म शुद्धं तु माक्षिकम् ॥ १३ ॥ तुल्यं सप्तदिनं मर्द्यं दिव्यौषधिरसैर्दृढम् । रुद्ध्वा तं त्रिदिनं पच्याद्वालुकायन्त्रगं पुनः ॥ १४ ॥ उद्धृत्य त्रिदिनं भाव्यं भृङ्गसर्पाक्षिजैर्द्रवैः । माषेकं मधुसर्पिर्भ्यां वज्रधारारसं लिहेत् ॥ १५ ॥ मासषट्कप्रयोगेण रुद्रतुल्यो भवेन्नरः । वलीपलितनिर्मुक्तो वायुवेगो महाबलः ॥ १६ ॥ पुनर्नवाभृङ्गतिलवाजिगन्धाः समांशकाः । सर्वतुल्या सिता योज्या चूर्णितं भक्षयेत्पलम् ॥ १७ ॥ भैरवरसः । सुवर्णं पारदं कान्तं मृतं सर्वं समं भवेत् । शतावर्याः शिफाद्रावैर्भावयेद्दिवसत्रयम् ॥ १८ ॥ त्रिदिनं त्रिफलाक्वाथैर्भृङ्गद्रावैर्दिनत्रयम् । भावितं मधुसर्पिर्भ्यां भक्षयेद्भैरवं रसम् ॥ १९ ॥ माषेकैकं वर्षमात्रं जीवेच्चन्द्रार्कतारकम् । मूलचूर्णं शतावर्याः कृष्णाजपयसा युतम् ॥ २० ॥ पलैकैकं पिबेच्चानु क्रामकं परमं हितम् । शिलावीररसः । रसभस्म समं गन्धं शिलाजत्वम्लवेतसम् ॥ २१ ॥

२.] रसरत्नाकरस्य रसायनखण्डः । ९ यामैकं मर्दयेत्सर्वं मधुसर्पिर्युतं लिहेत् । निष्कैकैकं वर्षमात्रं शिलावीरो महारसः ॥ २२ ॥ जराकालं निहन्त्याशु जीवेद्वर्षशतत्रयम् । पलार्धं मुशलीचूर्णं भृङ्गराजरसैः पिबेत् ॥ २३ ॥ धात्रीफलरसैर्वाऽथ क्रामकं ह्यनुपानकम् । अमृतार्णवरसः । मेघनादद्रवैर्मर्द्यं शुद्धसूतं दिनत्रयम् ॥ २४ ॥ विडङ्गं द्विनिशं व्योषं समं चूर्णं प्रकल्पयेत् । आरग्वधस्य मूलं तु चूर्णस्य द्विगुणं भवेत् ॥ २५ ॥ चूर्णस्य द्विगुणं चाज्यं क्षौद्रं चैव चतुर्गुणम् । सर्वं पूर्वरसे क्षिप्त्वा मृद्वग्नौ चालयन् पचेत् ॥ २६ ॥ तत्पिण्डं कर्षमेकैकं भक्षयेदमृतार्णवः । वर्षमात्राज्जरां हन्ति जीवेद्वर्षशतत्रयम् ॥ २७ ॥ बाकुचीचूर्णकर्षैकं धात्रीफलरसैः पिबेत् । उदयादित्यरसः । पारदाद्द्विगुणं गन्धं शुद्धं सर्वं विमर्द्येत् ॥ २८ ॥ मुण्ड्यार्द्रकरसैः खल्वे त्रिसप्ताहं पुनः पुनः । एतत्तुल्यं शुद्धताम्रं संपुटे तन्निरोधयेत् ॥ २९ ॥ वेष्टयेद्वस्त्रखण्डेन वज्रमृत्तिकया बहिः । लिप्त्वा विशोषयेत्तं वै सम्यग्गजपुटे पचेत् ॥ ३० ॥ उद्धृत्य संपुटं चूर्ण्यं देवदाल्या द्रवैस्त्र्यहम् । भङ्गीपुनर्नवाद्रवैः पृथग्भाव्यं त्र्यहं त्र्यहम् ॥ ३१ ॥ तत्तुल्यं नागराच्चूर्णं क्षिप्त्वा मध्वाज्यसंयुक्तम् । लिहेन्माषद्वयं नित्यं यावत्संवत्सरावधि ॥ ३२ ॥ रसोऽयमुदयादित्यो जरामृत्युहरः परः । पुनर्नवादेवदालीभृङ्गचूर्णं समं समम् ॥ ३३ ॥

१० आयुर्वेदीयग्रन्थमाला । [उपदेशः मध्वाज्याभ्यां लिहेत्कर्षमनु स्यात्क्रामणं परम् । गगनेश्वररसः । पारदो गगनं कान्तं तीक्ष्णं च मारितं समम् ॥ ३४ ॥ भृङ्गधात्रीफलद्रावैश्छायायां भावयेत्त्र्यहम् । सितामध्वाज्यकैस्तुल्यं सर्वं भाण्डे निरोधयेत् ॥ ३५ ॥ धान्यराशौ स्थितं मासं ततो निष्कत्रयं समम् । भक्षयेच्च पिबेत्क्षीरं कर्षैकं त्रिफलामनु ॥ ३६ ॥ रात्रौ शुण्ठीं कणां खादेद्वर्षैकादमरो भवेत् । जीवेद्ब्रह्मदिनं वीरः स्याद्रसो गगनेश्वरः ॥ ३७ ॥ वटेश्वररसः । वटक्षीरैस्त्र्यहं मर्द्य गन्धं शुद्धरसं समम् । वटकाष्ठाग्निना पच्यान्मृत्पात्रे यामपञ्चकम् ॥ ३८ ॥ क्षिपन् क्षिपन् वटक्षीरं तत्काष्ठेनैव चालयेत् । समुद्धृत्य त्र्यहं भाव्यं देवदालीदलद्रवैः ॥ ३९ ॥ उष्णकाले तु गुञ्जैंकं ताम्बूलपत्रसंयुक्तम् । चन्द्रवृद्ध्या सदा भक्ष्यं यावत् षोडशगुञ्जकम् ॥ ४०॥ चूर्णमुत्तरवारुण्या बाकुच्या देवदालिजम् । मध्वाज्याभ्यां लिहेत्कर्षं क्रामकं ह्यनुपानकम् ॥ ४१ ॥ वर्षमात्राज्जरां हन्ति जीवेद्वर्षशतत्रयम् । रसो वटेश्वरो नाम वज्रकायकरो नृणाम् ॥ ४२ ॥ अचलेश्वररसः । मृतं सूतं शुद्धगन्धं त्रिफलां गुगुग्लुं समम् । सर्वं वातारितैलेन मिश्रं कर्षं लिहेत्सदा ॥ ४३ ॥ षण्मासेन जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् । तस्य मूत्रपुरीषेण शुल्वं भवति काञ्चनम् ॥ ४४ ॥ अजस्य वृषणं पाच्यं गवां क्षीरेण तं निशि । सितायुक्तं पिबेच्चानु रसोऽयमचलेश्वरः ॥ ४५ ॥

२.] रसरत्नाकरस्य रसायनखण्डः। ११ परमेश्वररसः । रसं वज्रं स्वर्णकान्ते मुण्डं च मारितं समम् । माक्षिकं गन्धकं शुद्धं सर्वं जम्बीरजैर्द्रवैः ॥ ४६ ॥ सप्ताहं मर्दयेत्खल्वे तद्गोलं चान्धितं पुटेत् । भूधरे दिनमेकं तु ख्यातः सिद्धरसः परः ॥ ४७ ॥ मार्षकं मधुना लेह्यं वर्षान्मृत्युजरापहम् । दिव्यकायो नरः सिद्धो भवेद्विष्णुपराक्रमः ॥ ४८ ॥ श्वेतपौर्नर्नवं मूलं क्षीरपिष्टं सदा पिवेत् । भक्षयेद्वा सिता सार्धं क्रामकं पैरमे रसे ॥ ४९ ॥ गन्धामृतरसः । मृतसूतस्य द्विगुणं शुद्धं गन्धं विमिश्रयेत् । दिनैकं कन्यकाद्रावैर्मर्दयित्वा निरोधयेत् ॥ ५० ॥ दिनैकं मधुना पच्यान्निष्कैंकं मधुना लिहेत् । गन्धामृतो रसो नाम वत्सरान्मृत्युजिद्भवेत् ॥ ५१ ॥ समूलं भृङ्गराजं तु छायाशुष्कं विचूर्णयेत् । तत्समं त्रिफलाचूर्णं सर्वतुल्या सिता भवेत् ॥ ५२ ॥ एकीकृत्य पलैकैकं भक्षयेदनुपानकम् । कालकण्टकरसः । पारदाभ्रं मृतं तुल्यं द्वाभ्यां तुल्यं तु गन्धकम् ॥ ५३॥ तत्सर्वं भृङ्गजैर्द्रवैर्मर्दयेद्दिनसप्तकम् । षड्वारं चोङ्गुलीतैलैर्भावयित्वाऽथ भक्षयेत् ॥ ५४ ॥ माषमात्रं तु वर्षेकं रसोऽयं कालकण्टकः । पिष्ट्वा करञ्जपत्राणि गवां क्षीरैः पिबेदनु ॥ ५५ ॥ जरामृत्युविनिर्मुक्तो जीवेद्ब्रह्मदिनं नरः । अमृतेशरसः । मृतसूताभ्रकं कान्तं विषं ताप्यं शिलाजतु ॥ ५६ ॥ १ 'परमेश्वरे' ख. । २ 'बाकुचीतैलै-' ख. ।

१२ आयुर्वेदीयग्रन्थमाला । [उपदेशः तुल्यांशं मधुसर्पिर्भ्यां लिहेद्गुञ्जात्रयं सदा । षण्मासेन जरां हन्ति जीवेद्ब्रह्मदिनं नरः ॥ ५७ ॥ अश्वगन्धामूलचूर्णं सप्तभागघृतैः समम् । भागाष्टकं गुडं तस्मिन् क्षिपेद्भागं च पिप्पलीम् ॥५८॥ मृद्वग्निना च तत्सर्वं पिण्डितं भक्षयेत् पलम् । क्रामकं ह्यमृतेशस्य रसराजस्य सिद्धये ॥ ५९ ॥ रसवीरमहारसः । त्रिगुणं शुद्धसूतस्य योजयेच्छुद्धगन्धकम् । लोहपर्पटिकाचूर्णं सूततुल्यं विनिक्षिपेत् ॥ ६० ॥ स्नुह्यर्कपयसा मर्द्य तत्सर्वं दिवसत्रयम् । तच्छुष्कं चान्धितं पच्यात्करीषाग्नौ दिवानिशम् ॥६१॥ ततश्च टङ्कणं काचं दत्त्वा रुद्ध्वा धमेदृढम् । गुञ्जैकं मधुना खादेद्रसवीरो महारसः ॥ ६२ ॥ अब्देकेन जरां हन्ति जीवेदाचन्द्रतारकम् । मुशलीमूलचूर्णं तु गुञ्जापत्रद्रवैः पिबेत् ॥ ६३ ॥ छागीमूत्रेण वा तं वै कर्षैकं क्रामकं परम् । काञ्चायनरसः । मृतमृतसमं गन्धं काकमाच्या द्रवैर्दिनम् ॥ ६४ ॥ मर्दितं चान्धितं पच्यात्करीषाग्नौ दिवानिशम् । दिव्यौषधदलद्रावैर्दिनं मर्द्य तमन्धयेत् ॥ ६५ ॥ ध्मातं तस्मात्समुद्धृत्य तत्तुल्यं हाटकं मृतम् । एकीकृत्य घृतैर्लेह्यं माषैकं वत्सरावधि ॥ ६६ ॥ जरां मृत्युं निहन्त्याशु सत्यं काञ्चायनो रसः । काकमाचीद्रवैर्भाव्यं चूर्णं धात्रीफलोद्भवम् ॥ ६७ ॥


१ 'खादेन् करवीरो' ख. ।

२.] रसरत्नाकरस्य रसायनखण्डः । १३ मधुना भक्षयेत्कर्षमनु स्यात्कामकं परम् । परानन्दरसः । मृतसूताभ्रकं गन्धं तुल्यं सप्तदिनावधि ॥ ६८ ॥ शिग्रुमूलद्रवैर्मर्द्यं तद्गोलं भाण्डमध्यगम् । रुद्ध्वा पच्याल्लघुत्वेन शाककाष्ठैर्दिनावधि ॥ ६९ ॥ परानन्दो रसो नाम घृतैर्निष्कं सदा लिहेत् । दिनैकं त्रिफलाक्वाथैः कुष्ठं सम्यग्विपाचयेत् ॥ ७० ॥ तच्छुष्कं चूर्णितं कर्षं मध्वाज्याभ्यां लिहेदनु । संवत्सरप्रयोगेण जीवेदाचन्द्रतारकम् ॥ ७१ ॥ महाकालरसः । मृतसूताभ्रकं तुल्यं मृतलोहं तयोः समम् । लोहांशं शोधितं गन्धं भावयेद्दिनसप्तकम् ॥ ७२ ॥ तत्सर्वं त्रिफलाक्वाथैर्भृङ्गशिग्रुकचित्रकैः । द्रवैः पृथक्पृथग्भाव्यं सप्तधा सप्तधा क्रमात् ॥ ७३ ॥ सप्तधा कटुकीक्वाथैर्भावितं चूर्णयेत्पुनः । चूर्णतुल्यं कणाचूर्णं पुरातनगुडैः समैः ॥ ७४ ॥ सर्वमेकीकृतं खादेन्निष्कैकं वत्सरावधि । महाकालो रसो नाम जराकालभयङ्करः ॥ ७५ ॥ तिलकोरण्टपत्राणि गुडेन भक्षयेदनु । हेमपर्पटरसः । मृतपारदसंतुल्यं लोहपर्पटकं भवेत् ॥ ७६ ॥ त्रिगुणं गन्धकं सूतात्सर्वं दिव्यौषधद्रवैः । मर्दितं तद्दिनं रुद्ध्वा ध्मातो बद्धो भवेद्रसः ॥ ७७ ॥ तस्मिन् पादं मृतं स्वर्णं क्षिप्त्वा वह्न्यार्द्रकद्रवैः । मर्द्यं यामं विचूर्ण्याथ व्योषजीरकसैन्धवैः ॥ ७८ ॥ तुल्यं पूर्वरसं तुल्यं निष्कैकैकं च भक्षयेत् । जरामृत्युं निहन्त्याशु हेमपर्पटको रसः ॥ ७९ ॥ २

१४ आयुर्वेदीयग्रन्थमाला । [उपदेशः अश्वगन्धासमां यष्टिं धात्रीफलरसैर्दिनम् । भावितां लेहयेत्क्षौद्रैः पलैकां क्रामकं परम् ॥ ८० ॥ श्रीकण्ठरसः । स्वर्णतारार्ककान्तं च तीक्ष्णं वा मारितं समम् । कृष्णाभ्रसत्त्वमाक्षीकं प्रत्येकं स्वर्णतुल्यकम् ॥ ८१ ॥ तत्सर्वं चान्धितं धाम्यं तत्खोटं मृतपारदम् । समं मृतामृतं वज्रं पादांशं तत्र योजयेत् ॥ ८२ ॥ सर्वं जम्बीरजैर्द्रवैस्तप्तखल्वे विमर्दयेत् । दिनैकं तं निरुध्याथ भूधरे पाचयेद्दिनम् ॥ ८३ ॥ उद्धृत्य गन्धकं तुल्यं दत्त्वा रुद्ध्वा धमेद्द्रुतम् । तच्चूर्णं मधुनाऽऽज्येन माषमात्रं लिहेत्सदा ॥ ८४ ॥ रसः श्रीकण्ठनामाऽयं खेचरत्वं प्रयच्छति । संवत्सरप्रयोगेण जीवेत्कल्पान्तमेव च ॥ ८५ ॥ तस्य मूत्रपुरीषाभ्यां सर्वलोहानि काञ्चनम् । पलैकं गन्धकं क्षीरैः क्रामकं चानु पाययेत् ॥ ८६ ॥ खेचरबद्धरसः । शुद्धताम्रस्य भागैकं द्विपद् शुद्धरसस्य च ॥ त्रयं भूनागसत्त्वस्य भागमेकत्र कारयेत् ॥ ८७ ॥ सर्वं मर्द्यं तप्तखल्वे जम्बीराणां द्रवैर्दिनम् । तत्सर्वं कच्छपे यन्त्रे क्षिप्त्वा तत्रैव गन्धकम् ॥ ८८ ॥ कासमर्दरसैः पिष्टं तुल्यं दत्त्वा निरुध्य च । यावज्जीर्णे पुटे पच्यादेवं षड्गुणगन्धकम् ॥ ८९ ॥ जारयेत्क्रमयोगेन समुद्धृत्याथ मर्दयेत् । यामं जम्बीरजैर्द्रवैस्ततो निश्चन्द्रमभ्रकम् ॥ ९० ॥ अम्लवेतससंतुल्यं मर्दितं दापयेद्रसे । षोडशांशं तप्तखल्वे चणकाम्लं च तालकम् ॥ ९१ ॥

कासीसं च दशांशेन दत्त्वा मर्द्यं दिनावधिः । तत्सर्वं पक्वमूषायां क्षिप्त्वा वस्त्रेण बन्धयेत् ॥ ९२ ॥ दोलायन्त्रे सारनाले त्र्यहं लघ्वग्निना पचेत् । उद्धृत्य क्षालयेदुष्णैः काञ्जिकैर्जीर्यते यदि ॥ ९३ ॥ अजीर्णं चेत्पचेद्यन्त्रे कच्छपाख्ये विडान्वितम् । एवं पुनः पुनर्जार्यं गगनं सूततुल्यकम् ॥ ९४ ॥ शिखिपित्तप्रलिप्तानि स्वर्णपत्राणि तस्य वै । चतुःषष्ठ्यंशयोगेन दत्त्वा खल्वे विमर्दयेत् ॥ ९५ ॥ स्वेदयेत्पूर्ववद्यन्त्रे जीर्णे स्वर्णं च दापयेत् । इत्येवं षोडशांशं तु स्वर्णं जार्यं रसस्य वै ॥ ९६ ॥ ततो जार्यं मृतं वज्रं षोडशांशं च हेमवत् । तालकासीसजम्बीरयुक्तं मर्द्यं च तत्परम् ॥ ९७ ॥ ततो दिव्यौषधद्रावैस्तं मृतं मर्दयेत्त्र्यहम् । वज्रमूषानिधतं धाम्यं बद्धं स्याच्चूर्णयेत्पुनः ॥ ९८ ॥ मधुशर्करया सार्धं गुञ्जामात्रं च भक्षयेत् । रसः खेचरबद्धोऽयं षण्मासान्मृत्युजिद्भवेत् ॥ ९९ ॥ वलीपलितनिर्मुक्तो महाबलपराक्रमः । सप्ताहं भृङ्गजैर्द्रावैर्नीलीमुण्डीफलत्रयम् ॥ १०० ॥ भावयेन्मधुसर्पिर्भ्यां कर्षमात्रं लिहेदनु । स्वयमग्निरसः । शुद्धसूतं द्विधा गन्धं कुर्यात्खल्वेन कज्जलम् ॥ १०१ ॥ तयोस्तुल्यं कान्तचूर्णं तीक्ष्णं वा मुण्डमेव वा । सर्वमेकीकृतं खल्वे मर्दयेत्कन्यकाद्रवैः ॥ १०२ ॥ दिनैकं गोलकं कृत्वा ताम्रपात्रे निवेशयेत् । आच्छाद्यैरण्डपत्रैस्तु यामार्धेऽत्युष्णतां व्रजेत् ॥ १०३ ॥ धान्यराशौ न्यसेत्तं तु द्विदिनान्ते समुद्धरेत् ।

१६ आयुर्वेदनायग्रन्थमाला । [उपदेशः कन्याभृङ्गीकाकमाचीमुण्डीनिर्गुण्डिचित्रकम् ॥१०४॥ कोरण्टवाकुचीब्राह्मीसहदेवीपुनर्नवाः । शाल्मलीविजयाधूर्ता द्रवैरेषां पृथक्पृथक् ॥ १०५ ॥ सप्तधा सप्तधा भाव्यं सप्तधा त्रिफलोद्भवैः । कषायैर्भावितं चूर्णं जातीफललवङ्गकम् ॥ १०६ ॥ त्रिकटु त्रिफला चैला चूर्णयेन्नवकं समम् । तच्चूर्णं पूर्वचूर्णं च समं क्षौद्रेण कर्षकम् ॥ १०७ ॥ वर्षैकं लेहयेन्नित्यं जराकालप्रशान्तये । खयमग्निरसो नाम सिद्धानां सुमुखागतः ॥ १०८ ॥ तिलाश्वगन्धयोश्चूर्णं पलार्धं मधुना लिहेत् । कक्षपुटरसः । निर्गुण्डी नीलिका वज्री ब्रह्मदण्डी त्रिदण्डिका ॥१०९॥ शतपुष्पा मुद्गपर्णी श्वेताकर्को वानरी जया । पेटारीकृष्णधत्तूरविजयाक्षीरकन्दकम् ॥ ११० ॥ एतैः समस्तैर्व्यस्तैर्वा द्रव्यैर्मर्द्यं दिनत्रयम् । शुद्धसूतं तप्तखल्वे तत्कल्कं क्षीरकन्दके ॥ १११ ॥ वज्रकन्देऽथवा रुद्ध्वा तन्मज्जाभिर्मृदा पुनः । तं कन्दं वज्रमूषायां रुद्ध्वा लघुपुटे पचेत् ॥ ११२ ॥ पुनर्मर्द्यं पुनः पाच्यमित्येवं सप्तधा क्रमात् । रसः कक्षपुटो नाम गुञ्जैकं मधुना लिहेत् ॥ ११३ ॥ जीवेद्ब्रह्मदिनैकं तु वलीपलितवर्जितः । वर्षैकेन न संदेहो रसकायो भवेन्नरः ॥ ११४ ॥ भल्लातबीजचूर्णं च हयगन्धामृताघृतैः । पलैकं भक्षयेच्चानु क्रामकं परमं हितम् ॥ ११५ ॥ महाशक्तिरसः । मृतमृताभ्रकं वज्रं कान्ततारार्कहाटकम् । तीक्ष्णं च तुल्यतुल्यांशं सर्वेषां गन्धकं समम् ॥११६॥

रसरत्नाकरस्य रसायनखण्डः । १७ सर्वं पालाशतैलेन मर्दयेद्दिनसप्तकम् । महाशक्तिरसो नाम क्षौद्रैर्माषं लिहेत्सदा ॥ ११७ ॥ षण्मासेन जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् । वत्सरात्सप्तकल्पानि जीवत्येव न संशयः ॥ ११८ ॥ इच्छावेगी महासिद्धः पराशक्तिसमो भवेत् । तस्य मूत्रपुरीषाभ्यां ताम्रं भवति काञ्चनम् ॥ ११९ ॥ पालाशबीजजं तैलं क्षौद्रैर्लेह्यं पलाष्टकम् । क्रामकं ह्यनुपानं स्यात्सम्यक्छक्त्या प्रकाशितम् ॥१२०॥ नाटकेश्वररसः । लोहितं वाऽथ वा कृष्णं वैक्रान्तं मारितं पलम् । स्वर्णचूर्णपलैकं च द्विपलं शुद्धपारदम् ॥ १२१ ॥ बालरण्डाजमूत्राभ्यां तत्सर्वं मर्दयेद्दिनम् । शरपुङ्खा मेषशृङ्गी सर्पाक्षीकटुतुम्बिका ॥ १२२ ॥ इन्द्रवारुणिका चैषां द्रवैर्मर्द्यं दिनत्रयम् । तद्गोलं गर्भयन्त्रे तु रुद्ध्वा पच्याद्दिनत्रयम् ॥ १२३ ॥ तुषाग्निना लघुत्वेन समुद्धृत्य विचूर्णयेत् । सप्तधा भृङ्गजैर्द्रवैर्भावितं चूर्णयेत्पुनः ॥ १२४ ॥ त्रिफलात्र्यूषमध्वाज्यैः समं चूर्ण विमिश्रयेत् । माषैकैकं सदा खादेद्रसोऽयं नाटकेश्वरः ॥ १२५ ॥ सर्वरोगजरामृत्यून् वत्सरान्नाशयत्यलम् । दिव्यतेजा महाकायो जीवेदाचन्द्रतारकम् ॥ १२६ ॥ मूलत्वचं ब्रह्मवृक्षाच्छायाशुष्कां विचूर्णिताम् । पिबेन्निष्कद्वयां तक्रैः क्रामकं परमं शुभम् ॥ १२७ ॥ बालसुन्दररसः । सुशुद्धं श्वेतवैक्रान्तं सप्ताहं भाव्यमातपे । अम्लवेतससंपिष्टं तेनैव द्रुतिमाप्नुयात् ॥ १२८ ॥ त्रैफलोषणमध्वाज्यैः' ख. । २ 'हाटकेश्वरः' क. ।

१८ आयुर्वेदीयग्रन्थमाला । [ उपदेशः एतद्द्रुतिं शुद्धसूतं समं क्षौद्रैर्दिनत्रयम् । मर्दितं लेहयेन्माषं मासाद्बालो भवेन्नरः ॥ १२९ ॥ वत्सराद्ब्रह्मतुल्यः स्याद्रसोऽयं बालसुन्दरः । बाकुचीबीजकर्षैकं मध्वाज्याभ्यां लिहेदनु ॥ १३० ॥ ब्रह्मपञ्जररसः । चतुःपलं शुद्धसूतं पलैकं मृतहाटकम् । पलाशकुड्मलद्रावैस्तत्तैलैश्च दिनत्रयम् ॥ १३१ ॥ मर्दयेत्तप्तखल्वे तु स्वर्णतुल्यं च गन्धकम् । शोधितं निक्षिपेत्तस्मिन् पूर्वोक्तैर्मर्दयेद्दिनम् ॥ १३२ ॥ माषमात्रां वटीं खादेद्वत्सरान्मृत्युजिद्भवेत् । जीवेद्ब्रह्मादिनं वीरो रसोऽयं ब्रह्मपञ्जरः ॥ १३३ ॥ वानरीकाकतुण्ड्युत्थबीजचूर्णं समं समम् । शाल्मलीत्वग्दलद्रावैर्भावयेद्दिवसत्रयम् ॥ १३४ ॥ त्र्यहं च भृङ्गजैर्द्रावैर्भावितं चूर्णयेत्ततः । पुरातनगुडैस्तुल्यं कर्षकमनु भक्षयेत् ॥ १३५ ॥ शिवामृतरसः । रक्तभूमौ तु भूनागान् ग्राहयित्वा परीक्षयेत् । छेदे निर्याति रक्तं चेत्तान् स्वीकुर्यात्प्रयत्नतः ॥ १३६ ॥ कृष्णवर्णगवाज्येन समेन सह तान् पचेत् । लोहजे चालयन् पात्रे यावत्सिन्दूरवर्णकम् ॥ १३७ ॥ तत्सर्वं जायते भस्म तत्तुल्यं मृतपारदम् । मधुनाऽऽलोडितं सर्वं गुञ्जाधार्धं विवर्धयन् ॥ १३८ ॥ पञ्चाङ्गुञ्जां सदा खादेद्यावत्संवत्सरावधि । शिवामृतो रसो नाम जरामृत्युहरो नृणाम् । आयुर्ब्रह्मादिनं दत्ते शिवाम्बु पाययेदनु ॥ १३९ ॥


१ 'तिलैः सह' ख. ।

३.] रसरत्नाकरस्य रसायनखण्डः । १९ एवं दिव्यरसायनैः समुचितैः सारातिसारैः शुभैः सिद्धं देहमनेकसाधनवलाद्येषां तु दृष्टं मया । तानाराध्य च तेषु सारमखिलं संगृह्य शास्त्रादपि भूपानां विदुषां महामतिमतां प्रोक्तं हितार्थाय वै ॥ १४० इति श्रीपार्वतीपुत्रनित्यनाथसिद्धविरचिते रसरत्नाकरे चतुर्थे रसायनखण्डे दिव्यरसदेहसाधनं नाम द्वितीय उपदेशः ॥ २ ॥ * अथ तृतीयोपदेशः । दिव्ययोगगुटिकारसायनं क्रामणेन रहितं न सिध्यति । शीघ्रसिद्धिकरमेव१ सेव्यतां क्रामणार्थमनुपानमत्र वै ॥ १ ॥ मृतसंजीवनीगुटिका । काकतुम्ब्री काकमाची निर्गुण्डी च कुमारिका । गोजिह्वा सैन्धवं गुञ्जा ह्यार्द्रकं च समं समम् ॥ २ ॥ पिष्ट्वा तेन प्रलेप्तव्या मूषा सर्वाऽङ्गुलावधि । पारदं व्योमसत्त्वं च कान्तं तीक्ष्णं च मुण्डकम् ॥ ३ ॥ ताप्यसत्त्वं च तुल्यांशं सर्वं संचूर्ण्य मर्दयेत् । दिनं जम्बीरजैर्द्रवैस्तन्मूषायां विनिक्षिपेत् ॥ ४ ॥ आच्छाद्यालेप्य कल्केन चान्धयित्वा विशोषयेत् । करीषाग्नौ दिवारात्रं पुटे पक्त्वा समुद्धरेत् ॥ ५ ॥ पुनः प्रलिप्तमूषायां क्षिप्त्वा रुद्ध्वा पुटेत्ततः । इत्येवं दशमूषासु प्रलिप्तासु विपाचयेत् ॥ ६ ॥ जायते गुटिका दिव्या मृतसंजीवनी परा । वक्त्रे शिरसि कण्ठे वा कर्णे वा२ धारिता करे ॥ ७ ॥ हेम्ना सुवेष्टिता सम्यग्वयःस्तम्भकरी परा । वलीपलितकालाग्निमृत्युशङ्काविनाशिनी ॥ ८ ॥ १ 'देहसिद्धिकरमेव' ख. । २ 'बाधां हरेदियम्' ख. ।

२० आयुर्वेदीयग्रन्थमाला । [उपदेशः

वर्षमात्रान्न संदेहो जीवेद्वर्षशतत्रयम् । शुद्धगन्धपलैकं तु गवां क्षीरैः पिबेत्सदा ॥ ९ ॥ अनेन त्वनुपानेन देहे संक्रमते रसः । वज्रेश्वरीगुटिका । समुखं पारदं कान्तं मुण्डलोहाभ्रसत्त्वकम् ॥ १० ॥ ताप्यसत्त्वं मृतं वज्रं सर्वं जम्बीरजैर्द्रवैः । सप्ताहं मर्दयेत्तुल्यं कृत्वा गोलं समुद्धरेत् ॥ ११ ॥ निर्गुण्डी सैन्धवं क्षौद्रं गोजिह्वा काकतुण्डिका । पिष्ट्वा तु लेपयेद्गोलं सर्वतोऽङ्गुलमात्रकम् ॥ १२ ॥ तं रुद्ध्वा वज्रमूषायां पचेद्यामं तु भूधरे । लिप्त्वा रुद्ध्वा पुनः पाच्यमित्येवं पक्षमात्रकम् ॥ १३ ॥ यवचिञ्चापलाशोत्थराजीकार्पासबीजकैः । सुपिष्टैर्लेपयेन्मूषां तन्मध्ये पूर्वगोलकम् ॥ १४ ॥ टङ्कणं श्वेतकाचं च दत्त्वा पृष्ठे निरुध्य च । खदिराङ्गारयोगेन धमेदद्यावद्द्रुतं भवेत् ॥ १५ ॥ ततस्तं बिडलिप्तायां मूषायां च निवेशयेत् । तत्तुल्यं दापयेत्स्वर्णं जारयेत्तं धमन् धमन् ॥ १६ ॥ जीर्णे स्वर्णे समुद्धृत्य तप्तखल्वे विमर्दयेत् । त्र्यहं दिव्यौषधिद्रावैर्वज्रमूषान्धितं धमेत् ॥ १७ ॥ जायते गुटिका दिव्या नाम्ना वज्रेश्वरी परा । वक्त्रस्था सा जरां मृत्युं हन्ति संवत्सरात्किल ॥ १८ ॥ शस्त्रस्तम्भं च कुरुते ब्रह्मायुर्गच्छति ध्रुवम् । कृष्णाष्टम्यां समादाय सहदेवीं सुचूर्णयेत् ॥ १९ ॥ कर्षैकां भक्षयेदाज्यै्रनु स्यात्क्रमणे हितम् । वज्रसुन्दरीगुटिका । आरक्तं मेघनादं तु तथा पाषाणभेदकम् ॥ २० ॥


१ 'पिष्टैर्निरुन्धयेत्' ख. ।

रसरत्नाकरस्य रसायनखण्डः । २१ स्त्रीस्तन्यसहितं पिष्ट्वा तेन मूषां प्रलेपयेत् । भागैकं मृतवज्रस्य स्वर्णचूर्णस्य षोडश ॥ २१ ॥ क्षित्वा तस्यां निरुन्ध्याथ याममात्रं दृढं धमेत् । उद्धृत्य निक्षिपेत्खल्वे शुद्धमूतं च तत्समम् ॥ २२ ॥ मर्दयेच्चार्द्रकद्रावैर्यावद्भवति गोलकंः । चण्डालीकन्दमादाय स्त्रीस्तन्येन सुपेषयेत् ॥ २३ ॥ अनेन गोलकं लिप्त्वा वज्रमूषां निरोधयेत् । पक्त्वा गजपुटे ग्राह्या गुटिका वज्रसुन्दरी ॥ २४ ॥ वर्षैकं धारयेद्वक्त्रे जीवेद्ब्रह्मदिनत्रयम् । ब्रह्मवृक्षस्य त्वक्चूर्णं क्षीरैर्नित्यं पलं पिवेत् ॥ २५ ॥ क्रामणं ह्यनुपानं स्यात्साधकस्यातिसिद्धिदम् । तदुद्भवमलैर्लिप्तं ताम्रं तु धमनेन हि ॥ २६ ॥ जायते कनकं दिव्यं सत्यं शङ्करभाषितम् । हेमसुन्दरीवटिका । समुखस्य रसेन्द्रस्य पूर्ववत्काञ्चनं समम् ॥ २७ ॥ जारयेद्विद्वयोगेन ततो मर्द्यं दिनत्रयम् । दिव्यौषधैः सगोमूत्रैर्वज्रमूषान्धितं धमेत् ॥ २८ ॥ उद्धृत्य धारयेद्वक्त्रे गुटिका हेमसुन्दरी । पलार्धं गन्धकं चाज्यैर्द्विगुणैर्लेहयेदनु ॥ २९ ॥ वर्षैकेन जरां हन्ति जीवेदाचन्द्रतारकम् । वज्रखेचरीगुटिका । शुद्धमूतं मृतं वज्रं व्योमसत्त्वं सहाटकम् ॥ ३० ॥ अम्लवर्गे समं सर्वं मर्दयेद्दिवसत्रयम् । तद्गोलकं दृढं कृत्वा छायायां शोषयेत्ततः ॥ ३१ ॥ ब्रह्मकार्पासबीजानि राजिका यवचिश्चिका । वन्ध्या सर्वं समं पिष्ट्वा पूर्वगोलं प्रलेपयेत् ॥ ३२ ॥ १ ‘क्षित्वा तु मर्दयेच्चानु चार्द्रकस्य द्रवैः पुनः’ ख. । २ ‘सुरसुन्दरी’ ख. ।

२२ आयुर्वेदीयग्रन्थमाला । [उपदेशः रुद्धा गजपुटे पच्यात्समुद्धृत्याथ लेपयेत् । रुद्धा मूषां धमेद्गाढं गुटिका वज्रखेचरी ॥ ३३ ॥ जायते धारिता वक्त्रे वत्सरान्मृत्युनाशिनी । १भूतावरवटचूर्णं तु पलैकं सितया युतम् ॥ ३४ ॥ भक्षयेत्क्रामणार्थं तु ब्रह्मायुर्जायते नरः । व्योमसुन्दरी वटिका । कार्पासाः काकमाच्याश्च कन्यायाश्च दलद्रवैः ॥ ३५ ॥ शुद्धसूतं दिनं मर्द्यं क्षाल्यमम्लैः समुद्धरेत् । तद्रसं निष्कचत्वारि निष्कार्धं ताम्रचूर्णकम् ॥ ३६ ॥ पादोननिष्कम्प्रोत्थं सत्त्वं पादं च हाटकम् । हेमतुल्यं मुण्डचूर्णं सर्वमम्लैर्विमर्दयेत् ॥ ३७ ॥ दिनान्ते गोलकं कृत्वा जम्बीरस्योदरे क्षिपेत् । त्रिदिनं दोलकायन्त्रे पाचयेत्सारनालके ॥ ३८ ॥ उद्धृत्य धारयेद्वक्त्रे गुटिका व्योमसुन्दरी । वर्षमात्रान्जरां हन्ति जीवेद्ब्रह्मदिनं नरः ॥ ३९ ॥ चित्रमूलस्य चूर्णं तु सक्षौद्रं कान्तपात्रके । आलोड्य भक्षयेत्कर्षमनु स्यात्क्रामणे हितम् ॥ ४० ॥ हाटकेश्वरीगुटिका । निष्कमेकं स्वर्णपत्रं त्रिनिष्कं शुद्धपारदम् । जम्बीरशरपुङ्खोत्थद्रवैर्मर्द्यं दिनावधि ॥ ४१ ॥ तद्गोलं बन्धयेद्वस्त्रे पचेद्गोक्षीरपूरिते । दोलायन्त्रे दिवारात्रं गुटिका हाटकेश्वरी ॥ ४२ ॥ जायते धारिता वक्त्रे जरामृत्युविनाशिनी । वर्षमात्रान्न संदेहो जीवेद्वर्षायुतं नरः ॥ ४३ ॥ दिनैकं त्रिफलाचूर्णं क्वाथैः खदिरबीजकैः । भावितं मधुसर्पिर्भ्यां पलैकं क्रामकं लिहेत् ॥ ४४ ॥ १ 'भूतावरटचूर्णं' ख. ।

रसरत्नाकरस्य रसायनखण्डः । २३ अर्कप्रभावती गुटिका । रसनिष्कत्रयं शुद्धं निष्कैकं ताम्रचूर्णकम् । चिञ्चाफलाम्लतक्राभ्यां खल्वे मर्द्य दिनावधि ॥ ४५ ॥ तद्गोलं बन्धयेद्वस्त्रैस्तक्रचिञ्चाम्लपूरिते । दोलायन्त्रे दिनं पच्याद्गुटिकाऽर्कप्रभावती ॥ ४६ ॥ वर्षैकं धारयेद्वक्त्रे सूर्यतुल्यो भवेन्नरः । पालाशबीजजं तैलं गोक्षीरैः कर्षमात्रकम् ॥ ४७ ॥ क्रामकं ह्यनुपानं स्याज्जरामृत्युहरं परम् । सुरसुन्दरी वटिका । स्वर्णमेकं कान्तमेकं पश्चतारं द्विपारदम् ॥ ४८ ॥ त्रिभागं व्योमसत्त्वं स्यात् षड्भागं शुल्वचूर्णकम् । सर्वमेतत्कृतं सूक्ष्मं तप्तखल्वे दिनत्रयम् ॥ ४९ ॥ मर्दयेदम्लवर्गेण दोलायन्त्रे सकाञ्जिके । तद्गोलं त्रिदिनं पच्याद्गुटिका सुरसुन्दरी ॥ ५० ॥ जायते धारिता वक्त्रे वर्षान्मृत्युजरापहा । भूतारवटमूलं च कर्षं क्षीरैः पिबेदनु ॥ ५१ ॥ वज्रतुण्डवटिका । स्वर्णतारार्कमुण्डं च वङ्गसीसाभ्रसत्त्वकम् । एतत्सर्वं समं चूर्ण चूर्णांशं मृतवज्रकम् ॥ ५२ ॥ सर्वतुल्यं शुद्धसूतं सर्वं दिव्यौषधिद्रवैः । मर्दयेद्दिनमेकं तु वज्रमूषानिधतं धमेत् ॥ ५३ ॥ गुटिका वज्रतुण्डेयं जायते धारिता मुखे । जरामृत्युं शस्त्रसंघं नाशयेद्वत्सरात्किल ॥ ५४ ॥ वज्रकायो महावीरो जीवेद्वर्षशतत्रयम् । कुमार्याः स्वरसं ग्राह्यं गुडेन सह लोडयेत् ॥ ५५ ॥ 'भूतावरटमूलं' ख.

२४ आयुर्वैदीयग्रन्थमाला । [उपदेशः पलैकं क्रामकं लेह्यमनुपानं सदैव हि । कामसुन्दरीगुटिका । स्वर्णचूर्णं तु भागैकं त्रिभागं शुद्धपारदम् ॥ ५६ ॥ पादभागं मृतं वज्रं तत्सर्वं क्षीरकन्दजैः । द्रवैश्च देवदाल्युत्थैस्तप्तखल्वे दिनावधि ५७ ॥ मर्दयेत्कान्तचूर्णं च वज्रतुल्यं क्षिपेच्च वै । वज्रमूषान्धितं धाम्यं गुटिका कामसुन्दरी ॥ ५८ ॥ जायते धारिता वक्त्रे वर्षान्मृत्युजरापहा । निष्कत्रयं ब्रह्मतैलं गवां क्षीरं पलद्वयम् ॥ ५९ ॥ मिश्रितं पाययेच्चानु लक्षायुर्जायते नरः । गान्धारीगुटिका । लोहपात्रे द्रुते गन्धे पादांशं पारदं क्षिपेत् ॥ ६० ॥ किंचिच्चाल्यं तु काष्ठेन मुहूर्तादवतारयेत् । शतावरी क्षीरकन्दो वज्रवल्लीन्द्रवारुणी ॥ ६१ ॥ पाठा पुनर्नवा चिञ्चा लाङ्गली सुरदालिका । एतासां वस्त्रपूतैश्च द्रवैर्मर्घ्यं दिनत्रयम् ॥ ६२ ॥ तस्मिन् पात्रे लोहमुष्ट्या छायांशुष्कं वटीकृतम् । लोहसंपुटगं रुद्धा संधिं मृल्लवणैर्दृढम् ॥ ६३ ॥ तं धमेत्खदिराङ्गारैर्यावदारक्तमुद्धरेत् । उत्खन्योत्खन्य तन्मध्यादुद्धरेच्चद्रसं पुनः ॥ ६४ ॥ काचटङ्कणसंयुक्तं मूषायां चान्धितं पचेत् । गान्धारीगुटिका सिद्धा वर्षे वक्त्रे स्थिता सदा ॥६५॥ काकतुण्डीबीजतैलं कर्षैकं नस्यमाचरेत् । क्रामकं ह्यनुपानं स्याज्जीवेद्वर्षसहस्रकम् ॥ ६६ ॥ मातङ्गी गुटिका । शुद्धसूतसमं गन्धं मर्दनात्कजलीकृतम् । १ 'शुष्कं तं च विचूर्णयेत्' ख.

३.] रसरत्नाकरस्य रसायनखण्डः । २५ तत्ताम्रसंपुटे रुद्ध्वा लवणेन मृदा दृढम् ॥ ६७ ॥ शुष्कं दीपाग्निना पच्याद्यामैकं भस्मयन्त्रके ॥ ६८ ॥ संपुटस्योर्ध्वलग्नं तत्समुद्धृत्याथ मर्दयेत् । तुल्यपारदसंयुक्तं पूर्ववत्संुपुटे पचेत् ॥ ६९ ॥ उद्धृत्य तुल्यमृतेन संयुक्तं मर्दितं पचेत् । इत्येवं सप्तधा कुर्यात्पुनः पारदटङ्कणम् ॥ ७० ॥ तुल्यं तुल्यं क्षिपेत्तस्मिन् दिनं सर्वं विमर्दयेत् । वज्रमूषागतं रुद्ध्वा धमाते खोटो भवेद्रसः ॥ ७१ ॥ मार्तण्डी गुटिका ह्येषा वर्षैकं यस्य वक्त्रगा । वलीपलितमुक्तोऽसौ जीवेदाचन्द्रतारकम् ॥ ७२ ॥ पलाशबीजजं तैलं पलैकं क्षीरतुल्यकम् । क्रामणं प्रपिबेन्नित्यं तत्क्षणान्मूर्च्छितो भवेत् ॥ ७३ ॥ तस्य वक्त्रे गवां क्षीरं स्तोकं स्तोकं निषेचयेत् । प्रबुद्धे क्षीरमन्नं स्याद्भोजने परमं हितम् ॥ ७४ ॥ तस्य मूत्रपुरीषाभ्यां ताम्रं भवति काञ्चनम् । वायुवेगो महासिद्धश्छिद्रां पश्यति मेदिनीम् ॥ ७५ ॥ तारकेश्वरीगुटिका । काकमाच्यमृताद्रावैः पारदं तालकं समम् । मर्दयेद्दिनमेकं तु कृत्वा गोलं विशोषयेत् ॥ ७६ ॥ निक्षिपेद्वज्रमूषायामाच्छाद्य लोहैःपर्पटैः । रुद्ध्वा सन्धिं धमेद्गाढं खोटबद्धो भवेद्रसः ॥ ७७ ॥ लोहपर्पटकं दत्त्वा तद्वद्धाम्यं त्रिधा पुनः । वर्षैकं धारयेद्वक्त्रे गुटिका तारकेश्वरी ॥ ७८ ॥ बाकुचीबीजकर्षैकं गवां क्षीरैः पिबेदनु । 'दीप्ताग्निना' ख.। २ 'बद्धो' ख.। ३ 'पर्पटीरसैः' ख। ३