रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)
Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary
सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 27, कुल 94 में से
संदर्भ में पढ़ें२० आयुर्वेदीयग्रन्थमाला । [उपदेशः
वर्षमात्रान्न संदेहो जीवेद्वर्षशतत्रयम् । शुद्धगन्धपलैकं तु गवां क्षीरैः पिबेत्सदा ॥ ९ ॥ अनेन त्वनुपानेन देहे संक्रमते रसः । वज्रेश्वरीगुटिका । समुखं पारदं कान्तं मुण्डलोहाभ्रसत्त्वकम् ॥ १० ॥ ताप्यसत्त्वं मृतं वज्रं सर्वं जम्बीरजैर्द्रवैः । सप्ताहं मर्दयेत्तुल्यं कृत्वा गोलं समुद्धरेत् ॥ ११ ॥ निर्गुण्डी सैन्धवं क्षौद्रं गोजिह्वा काकतुण्डिका । पिष्ट्वा तु लेपयेद्गोलं सर्वतोऽङ्गुलमात्रकम् ॥ १२ ॥ तं रुद्ध्वा वज्रमूषायां पचेद्यामं तु भूधरे । लिप्त्वा रुद्ध्वा पुनः पाच्यमित्येवं पक्षमात्रकम् ॥ १३ ॥ यवचिञ्चापलाशोत्थराजीकार्पासबीजकैः । सुपिष्टैर्लेपयेन्मूषां तन्मध्ये पूर्वगोलकम् ॥ १४ ॥ टङ्कणं श्वेतकाचं च दत्त्वा पृष्ठे निरुध्य च । खदिराङ्गारयोगेन धमेदद्यावद्द्रुतं भवेत् ॥ १५ ॥ ततस्तं बिडलिप्तायां मूषायां च निवेशयेत् । तत्तुल्यं दापयेत्स्वर्णं जारयेत्तं धमन् धमन् ॥ १६ ॥ जीर्णे स्वर्णे समुद्धृत्य तप्तखल्वे विमर्दयेत् । त्र्यहं दिव्यौषधिद्रावैर्वज्रमूषान्धितं धमेत् ॥ १७ ॥ जायते गुटिका दिव्या नाम्ना वज्रेश्वरी परा । वक्त्रस्था सा जरां मृत्युं हन्ति संवत्सरात्किल ॥ १८ ॥ शस्त्रस्तम्भं च कुरुते ब्रह्मायुर्गच्छति ध्रुवम् । कृष्णाष्टम्यां समादाय सहदेवीं सुचूर्णयेत् ॥ १९ ॥ कर्षैकां भक्षयेदाज्यै्रनु स्यात्क्रमणे हितम् । वज्रसुन्दरीगुटिका । आरक्तं मेघनादं तु तथा पाषाणभेदकम् ॥ २० ॥
१ 'पिष्टैर्निरुन्धयेत्' ख. ।