रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)
Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary
सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 28, कुल 94 में से
संदर्भ में पढ़ेंरसरत्नाकरस्य रसायनखण्डः । २१ स्त्रीस्तन्यसहितं पिष्ट्वा तेन मूषां प्रलेपयेत् । भागैकं मृतवज्रस्य स्वर्णचूर्णस्य षोडश ॥ २१ ॥ क्षित्वा तस्यां निरुन्ध्याथ याममात्रं दृढं धमेत् । उद्धृत्य निक्षिपेत्खल्वे शुद्धमूतं च तत्समम् ॥ २२ ॥ मर्दयेच्चार्द्रकद्रावैर्यावद्भवति गोलकंः । चण्डालीकन्दमादाय स्त्रीस्तन्येन सुपेषयेत् ॥ २३ ॥ अनेन गोलकं लिप्त्वा वज्रमूषां निरोधयेत् । पक्त्वा गजपुटे ग्राह्या गुटिका वज्रसुन्दरी ॥ २४ ॥ वर्षैकं धारयेद्वक्त्रे जीवेद्ब्रह्मदिनत्रयम् । ब्रह्मवृक्षस्य त्वक्चूर्णं क्षीरैर्नित्यं पलं पिवेत् ॥ २५ ॥ क्रामणं ह्यनुपानं स्यात्साधकस्यातिसिद्धिदम् । तदुद्भवमलैर्लिप्तं ताम्रं तु धमनेन हि ॥ २६ ॥ जायते कनकं दिव्यं सत्यं शङ्करभाषितम् । हेमसुन्दरीवटिका । समुखस्य रसेन्द्रस्य पूर्ववत्काञ्चनं समम् ॥ २७ ॥ जारयेद्विद्वयोगेन ततो मर्द्यं दिनत्रयम् । दिव्यौषधैः सगोमूत्रैर्वज्रमूषान्धितं धमेत् ॥ २८ ॥ उद्धृत्य धारयेद्वक्त्रे गुटिका हेमसुन्दरी । पलार्धं गन्धकं चाज्यैर्द्विगुणैर्लेहयेदनु ॥ २९ ॥ वर्षैकेन जरां हन्ति जीवेदाचन्द्रतारकम् । वज्रखेचरीगुटिका । शुद्धमूतं मृतं वज्रं व्योमसत्त्वं सहाटकम् ॥ ३० ॥ अम्लवर्गे समं सर्वं मर्दयेद्दिवसत्रयम् । तद्गोलकं दृढं कृत्वा छायायां शोषयेत्ततः ॥ ३१ ॥ ब्रह्मकार्पासबीजानि राजिका यवचिश्चिका । वन्ध्या सर्वं समं पिष्ट्वा पूर्वगोलं प्रलेपयेत् ॥ ३२ ॥ १ ‘क्षित्वा तु मर्दयेच्चानु चार्द्रकस्य द्रवैः पुनः’ ख. । २ ‘सुरसुन्दरी’ ख. ।