रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)
Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary
सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 29, कुल 94 में से
संदर्भ में पढ़ें२२ आयुर्वेदीयग्रन्थमाला । [उपदेशः रुद्धा गजपुटे पच्यात्समुद्धृत्याथ लेपयेत् । रुद्धा मूषां धमेद्गाढं गुटिका वज्रखेचरी ॥ ३३ ॥ जायते धारिता वक्त्रे वत्सरान्मृत्युनाशिनी । १भूतावरवटचूर्णं तु पलैकं सितया युतम् ॥ ३४ ॥ भक्षयेत्क्रामणार्थं तु ब्रह्मायुर्जायते नरः । व्योमसुन्दरी वटिका । कार्पासाः काकमाच्याश्च कन्यायाश्च दलद्रवैः ॥ ३५ ॥ शुद्धसूतं दिनं मर्द्यं क्षाल्यमम्लैः समुद्धरेत् । तद्रसं निष्कचत्वारि निष्कार्धं ताम्रचूर्णकम् ॥ ३६ ॥ पादोननिष्कम्प्रोत्थं सत्त्वं पादं च हाटकम् । हेमतुल्यं मुण्डचूर्णं सर्वमम्लैर्विमर्दयेत् ॥ ३७ ॥ दिनान्ते गोलकं कृत्वा जम्बीरस्योदरे क्षिपेत् । त्रिदिनं दोलकायन्त्रे पाचयेत्सारनालके ॥ ३८ ॥ उद्धृत्य धारयेद्वक्त्रे गुटिका व्योमसुन्दरी । वर्षमात्रान्जरां हन्ति जीवेद्ब्रह्मदिनं नरः ॥ ३९ ॥ चित्रमूलस्य चूर्णं तु सक्षौद्रं कान्तपात्रके । आलोड्य भक्षयेत्कर्षमनु स्यात्क्रामणे हितम् ॥ ४० ॥ हाटकेश्वरीगुटिका । निष्कमेकं स्वर्णपत्रं त्रिनिष्कं शुद्धपारदम् । जम्बीरशरपुङ्खोत्थद्रवैर्मर्द्यं दिनावधि ॥ ४१ ॥ तद्गोलं बन्धयेद्वस्त्रे पचेद्गोक्षीरपूरिते । दोलायन्त्रे दिवारात्रं गुटिका हाटकेश्वरी ॥ ४२ ॥ जायते धारिता वक्त्रे जरामृत्युविनाशिनी । वर्षमात्रान्न संदेहो जीवेद्वर्षायुतं नरः ॥ ४३ ॥ दिनैकं त्रिफलाचूर्णं क्वाथैः खदिरबीजकैः । भावितं मधुसर्पिर्भ्यां पलैकं क्रामकं लिहेत् ॥ ४४ ॥ १ 'भूतावरटचूर्णं' ख. ।