रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)
Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary
सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 37, कुल 94 में से
संदर्भ में पढ़ें३० आयुर्वेदीयग्रन्थमाला । [उपदेशः वर्षैकं धारयेद्वक्त्रे जीवेत्कल्पसहस्रकम् । तस्य मूत्रपुरीषाभ्यां सर्वलोहस्य लेपनात् ॥ १२८ ॥ जायते कनकं दिव्यं समावर्ते न संशयः । पलद्वयं भृङ्गराजद्रवं चानु पिबेत्सदा ॥ १२९ ॥ पूर्वोक्तं भस्मसूतं वा गुञ्जामात्रं सदा लिहेत् । वर्षैकं मधुनाऽऽज्येन लक्षायुर्जायते नरः ॥ १३० ॥ वलीपलितनिर्मुक्तो महाबलपराक्रमः । स्वर्णवैक्रान्तबद्धरसः । स्वर्णं वैक्रान्तसत्त्वं च द्वन्द्वितं जारयेद्रसे ॥ १३१ ॥ समांशं तु भवेद्यावत्तस्तेनैव सारयेत् । समेन जायते बद्धो धारयेत्तं मुखे सदा ॥ १३२ ॥ संवत्सरप्रयोगेण जराकालापमृत्युजित् । कुमार्या दलजं द्रावं सितायुक्तं पिबेदनु ॥ १३३ ॥ स्वर्णवैक्रान्तबद्धोऽयं ब्रह्मायुर्यच्छते नृणाम् । वैक्रान्तवटिका । वैक्रान्तसत्त्वतुल्यांशं शुद्धसूतं विमर्दयेत् ॥ १३४ ॥ दिनं दिव्यौषधद्रावैस्तद्गोलं निगडेन वै । लिप्त्वा लवणगर्भायां वज्रमूष्यां निरोधयेत् ॥ १३५ ॥ छायायां शोषयेत्सन्धिं त्रिदिनं तुषवह्निना । स्वेदयेद्वा करीषाग्नौ दिवारात्रमथोद्धरेत् ॥ १३६ ॥ तद्गोलं निगडेनैव लिप्त्वा तद्वन्निरुध्य च । छायाशुष्कं धमेद्गाढं बन्धमायाति निश्चितम् ॥१३७॥ वर्षैकं धारयेद्वक्त्रे जीवेद्ब्रह्मदिनत्रयम् । वैक्रान्तगुटिका ह्येषा सर्वकामफलप्रदा ॥ १३८ ॥ कर्षैकं त्रिफलाचूर्णं मध्वाज्याभ्यां लिहेदनु । १ 'जारयेत्' ख. ।