भारतकोश
संग्रह पर लौटें

रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary

सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished94 पृष्ठ

३० आयुर्वेदीयग्रन्थमाला । [उपदेशः वर्षैकं धारयेद्वक्त्रे जीवेत्कल्पसहस्रकम् । तस्य मूत्रपुरीषाभ्यां सर्वलोहस्य लेपनात् ॥ १२८ ॥ जायते कनकं दिव्यं समावर्ते न संशयः । पलद्वयं भृङ्गराजद्रवं चानु पिबेत्सदा ॥ १२९ ॥ पूर्वोक्तं भस्मसूतं वा गुञ्जामात्रं सदा लिहेत् । वर्षैकं मधुनाऽऽज्येन लक्षायुर्जायते नरः ॥ १३० ॥ वलीपलितनिर्मुक्तो महाबलपराक्रमः । स्वर्णवैक्रान्तबद्धरसः । स्वर्णं वैक्रान्तसत्त्वं च द्वन्द्वितं जारयेद्रसे ॥ १३१ ॥ समांशं तु भवेद्यावत्तस्तेनैव सारयेत् । समेन जायते बद्धो धारयेत्तं मुखे सदा ॥ १३२ ॥ संवत्सरप्रयोगेण जराकालापमृत्युजित् । कुमार्या दलजं द्रावं सितायुक्तं पिबेदनु ॥ १३३ ॥ स्वर्णवैक्रान्तबद्धोऽयं ब्रह्मायुर्यच्छते नृणाम् । वैक्रान्तवटिका । वैक्रान्तसत्त्वतुल्यांशं शुद्धसूतं विमर्दयेत् ॥ १३४ ॥ दिनं दिव्यौषधद्रावैस्तद्गोलं निगडेन वै । लिप्त्वा लवणगर्भायां वज्रमूष्यां निरोधयेत् ॥ १३५ ॥ छायायां शोषयेत्सन्धिं त्रिदिनं तुषवह्निना । स्वेदयेद्वा करीषाग्नौ दिवारात्रमथोद्धरेत् ॥ १३६ ॥ तद्गोलं निगडेनैव लिप्त्वा तद्वन्निरुध्य च । छायाशुष्कं धमेद्गाढं बन्धमायाति निश्चितम् ॥१३७॥ वर्षैकं धारयेद्वक्त्रे जीवेद्ब्रह्मदिनत्रयम् । वैक्रान्तगुटिका ह्येषा सर्वकामफलप्रदा ॥ १३८ ॥ कर्षैकं त्रिफलाचूर्णं मध्वाज्याभ्यां लिहेदनु । १ 'जारयेत्' ख. ।

३.] रसरत्नाकरस्य रसायनखण्डः । ३१ दिव्यखेचरीगुटिका । हेम्ना यद्वन्दितं वज्रं कुर्यात्तत्सूक्ष्मचूर्णितम् ॥ १३९ ॥ एतद्देयं गुहामृते मूषायामधरोत्तरम् । पादमात्रं प्रयत्नेन रुद्ध्वा सन्धिं विशोषयेत् ॥ १४० ॥ भूधराख्ये दिनं पच्यात्समुद्धृत्याथ मर्दयेत् । दिव्यौषधफलद्रावैस्तप्तखल्वे दिनावधि ॥ १४१ ॥ रुद्ध्वाऽथ भूधरे पच्याद्दिनं लघुपुटैः पुटेत् । समुद्धृत्य पुनस्तद्वन्मर्द्यं रुद्ध्वा दिनत्रयम् ॥ १४२ ॥ तुषाग्निना शनैः स्वेद्यमूर्ध्वाधः परिवर्तयन् । जायते भस्ममूतोऽयं सर्वयोगेषु योजयेत् ॥ १४३ ॥ द्रुतमूतस्य भागैकं भागैकं पूर्वभस्मकम् । शुद्धनागस्य भागैकं सर्वमम्लेन मर्दयेत् ॥ १४४ ॥ अन्धमूषागतं धाम्यं खोटो भवति तद्रसः । धमेत्प्रकटमूषायां यावन्नागक्षयो भवेत् ॥ १४५ ॥ द्रुतमूतप्रकारेण द्रावयित्वा त्विमं रसम् । निक्षिपेत्कच्छपे यन्त्रे विडं दत्त्वा दशांशतः ॥ १४६ ॥ स्वर्णादिसर्वलोहानि क्रमेणैव च जारयेत् । प्रत्येकं षड्गुणं पश्चाद्वज्रद्वन्द्वं च जारयेत् ॥ १४७ ॥ त्रिगुणं तु भवेद्यावत्ततो रत्नानि वै क्रमात् । जारयेद्रावितान्येव प्रत्येकं त्रिगुणं शनैः ॥ १४८ ॥ ततो यन्त्रात्समुद्धृत्य दिव्यौषधद्रवैर्दिनम् । मर्द्यं रुद्ध्वा धमेद्गाढं जायते गुटिका शुभा ॥ १४९ ॥ पूजयेदङ्कुशीमन्त्रैर्नाम्नेयं दिव्यखेचरी । यस्य वक्रे स्थिता ह्येषा स भवेद्भैरवोपमः ॥ १५० ॥ दिव्यतेजा महाकायः खेचरत्वेन गच्छति । यत्रेच्छा तत्र तत्रैव क्रीडते ह्यङ्गनादिभिः ॥ १५१ ॥

३२ आयुर्वेदियग्रन्थमाला । [उपदेशः महाकल्पान्तपर्यन्तं तिष्ठत्येव न संशयः । तस्य मूत्रपुरीषाभ्यां ताम्रं भवति काञ्चनम् ॥ १५२ ॥ पलाशपुष्पचूर्णं तु तिलाः कृष्णाः सशर्कराः । सर्वं पलत्रयं खादेन्नित्यं स्यात् क्रामणे हितम् ॥ १५३॥ प्रचण्डखेचरीगुटिका । चूर्णमश्वखुरस्यैव गुह्यसूते समं क्षिपेत् । त्रिदिनं मातुलुङ्गाम्लैस्तत्सर्वं मर्दयेद्दृढम् ॥ १५४ ॥ सूततुल्यं मृतं वज्रं तस्मिन् क्षिप्त्वाऽथ मर्दयेत् । तप्तखल्वे दिनं चाम्लैस्तद्गोलं चान्वितं पुटेत् ॥ १५५ ॥ दिनैकं भूधरे यन्त्रे भागैकं पूर्वपारदम् । क्षिप्त्वा तस्मिन् दृढं मर्द्यं मातुलुङ्गरद्रवैर्दिनम् ॥ १५६ ॥ रुद्धाऽथ पूर्ववत्पच्यात्पुनर्देयश्च पारदः । मर्द्यं पाच्यं यथापूर्वमेवं कुर्याच्च सप्तधा ॥ १५७ ॥ रसं पुनः पुनर्दत्त्वा स्यादेवं भस्मसूतकः । योजयेत्सर्वयोगेषु जरामृत्युहरो भवेत् ॥ १५८ ॥ भागैकं नागचूर्णस्य भागैकं पूर्वभस्मनः । द्रुतसूतस्य भागैकं खोटं कुर्याच्च पूर्ववत् ॥ १५९ ॥ तद्वद्भागं गते नागे द्रावितं जारयेत्पुनः । पूर्ववल्लोहरत्नान्तं जीर्णे बद्धा स्थिता मुखे ॥ १६० ॥ प्रचण्डखेचरी नाम्नी गुटिका खे गतिप्रदा । पूर्ववल्लभते वीरः फलमत्यन्तदुर्लभम् ॥ १६१ ॥ निर्गुण्डीमूलचूर्णं तु कर्षं तक्रैः पिबेदनु । कङ्कालखेचरीगुटिका । शुद्धसूतस्य दातव्यं कलांशं मृतवज्रकम् ॥ १६२ ॥ तत्सर्वमम्लवर्गेण तप्तखल्वे दिनत्रयम् । मर्दयित्वा ततस्तेन लेपयेत्समभागतः ॥ १६३ ॥ १ 'जारितं द्रावयेत्पुनः' ख. ।

३.] रसरत्नाकरस्य रसायनखण्डः । ३३ पक्वबीजस्य पत्राणि तानि भानुदलैः पुनः । वेष्टितानि निरुध्याथ निखनेच्चुल्लिगर्भतः ॥ १६४ ॥ आच्छाद्य ज्वालयेत्तत्र काष्ठाग्निं दिवसत्रयम् । उद्धृत्य द्वन्द्वलिप्तायां मूषायां तं निरोधयेत् ॥ १६५ ॥ करीषाग्नौ पुटे पच्यादहोरात्रात्समुद्धरेत् । वासनामुखिते सूते तुल्यमेतद्विनिक्षिपेत् ॥ १६६ ॥ अम्लेन मर्दयेद्यामं जातं गोलं समुद्धरेत् । क्षिपेज्जम्बीरगर्भे तं वस्त्रे बद्ध्वा त्र्यहं पचेत् ॥ १६७ ॥ दोलायन्त्रे सारनाले जायते गुटिका शुभा । कङ्कालखेचरी नाम्ना वक्त्रस्था मृत्युनाशिनी ॥ १६८ ॥ वर्षैकं धारयेद्यस्तु स जीवेद्ब्रह्मणो दिनम् । गन्धकं गुग्गुलुं तुल्यमाज्यैः कर्षं लिहेदनु ॥ १६९ ॥ कालविध्वंसिका वटिका । कृष्णाभ्रकस्य सत्त्वं तु कान्तमाक्षीककाञ्चनम् । तीक्ष्णं सौवीरचूर्णं च तुल्यं रुद्ध्वा धमेदृढम् ॥ १७० ॥ तत्खोटं सूक्ष्मचूर्णं तु द्रुतसूतसमं भवेत् । सूतार्धं मारितं वज्रं सर्वमम्लेन मर्दयेत् ॥ १७१ ॥ दिनैकं तप्तखल्वे तु तं रुद्ध्वा भूधरे पचेत् । अहोरात्रात्समुद्धृत्य तत्समं पूर्वसूतकम् ॥ १७२ ॥ दत्त्वा दिव्यौषधद्रावैर्मर्द्यं सर्वे दिनावधि । पूर्ववद्भूधरे पच्याद्द्रुतसूतं पुनः समम् ॥ १७३ ॥ दत्त्वा मर्द्यं पुनः पच्यादित्येवं सप्तवारकम् । एतद्द्रससमं गन्धं दत्त्वा चान्ध्यं धमेदृढम् ॥ १७४ ॥ जायते गुटिका दिव्या कालविध्वंसिका परा । यस्य वक्रे स्थिता ह्येषा तस्य कालः करोति किम् १७५ वर्षषट्कप्रयोगेण जीवेत्कल्पसहस्रकम् । तद्गात्रस्वेदमात्रेण सर्वलोहानि काञ्चनम् ॥ १७६ ॥

३४ आयुर्वेदीयग्रन्थमाला । [उपदेशः जायन्ते नात्र संदेहः शिवाम्बु क्रामकं पिबेत् । पञ्चानना गुटिका । स्वर्णतारार्ककान्तं च तीक्ष्णचूर्णं समं समम् ॥ १७७॥ द्वन्द्वमेलापलिप्तायां मूषायां चान्धितं धमेत् । तत्खोटं चूर्णितं कृत्वा चाभिषिक्तं तु पूर्ववत् ॥ १७८॥ समुखे जारयेत्स्रुते यावत्पञ्चगुणं क्रमात् । दिव्यौषधद्रवैस्तं वै मर्दयेद्दिवसत्रयम् ॥ १७९ ॥ अन्धमूषागतं ध्मातं जायते गुटिका शुभा । नाम्ना पञ्चानना धार्या वक्त्रे संवत्सरावधि ॥ १८० ॥ वलीपलितनिर्मुक्तो जीवेच्चन्द्रार्कतारकम् । हस्तिकर्णी समूला तु चूर्ण्या मध्वाज्यसंयुता ॥ १८१ ॥ स्निग्धभाण्डे तु तां रुद्ध्वा धान्यराशौ निवेशयेत् । त्रिसप्ताहात्समुद्धृत्य पलैकं भक्षयेदनु ॥ १८२ ॥ शतवेधिकादिगुटिकाः । ऋद्धिखण्डे तु यत्प्रोक्तं विविधं रसबन्धनम् । अत्र तस्यैव वक्ष्यामि देहवेधक्रमं २यथा ॥ १८३ ॥ जारितैर्बन्धितैस्तैस्तै रसराजैः पृथक्पृथक् । कारयेद्गुटिकां दिव्यां बदराण्डप्रमाणकाम् ॥ १८४ ॥ सा धार्या वत्सरं वक्त्रे स्वानुरूपफलप्रदा । गुटिका शतवेधी स्याद्युगायुष्यकरी नृणाम् ॥ १८५ ॥ सहस्रवेधी गुटिका अष्टकल्पान्तरक्षिका । लक्षवेधकरी या तु सा दत्ते विष्णुवड्डलम् ॥ १८६ ॥ वेधिका दशलक्षे या सा रुद्रपददायिनी । कोटिवेधकरी या सा ईश्वरत्वकरी नृणाम् ॥ १८७ ॥ वेधिका दशकोटीनां सा सदाख्यपदप्रदा । १ ऋद्धिखण्डे इति वादिखण्डे इत्यर्थः । २ ‘तथा’ ख.

३.] रसकलाकरस्य रसायनखण्डः । ३५ गुटिकाऽर्बुदवेधी या सा श्रीकण्ठपदप्रदा ॥ १८८ ॥ सम्यग्भवपदं दत्ते गुटिका शङ्खवेधिका । धूम्रवेधी तु या सिद्धा सा शक्तिपददायिनी ॥ १८९॥ पराशक्तिपदं दत्ते स्पर्शवेधकरी तु या। शब्दवेधकरा या तु सा यस्य वत्सरावधि ॥ १९० ॥ वक्त्रे स्थिता स वै सिद्धो नित्यं नित्यपदं लभेत् । स्वेच्छाचारी वज्रकायो वज्रपातैर्न भिद्यते ॥ १९१ ॥ तस्य मूत्रपुरीषाभ्यां सर्वलोहानि काञ्चनम् । जायन्ते खेदसंपर्काद्गात्रसंस्पर्शनादपि ॥ १९२ ॥ सर्वेषामुक्तयोगानामनु स्याच्छुद्धगन्धकम् । पलार्धं भक्षयेन्नित्यं रससंक्रामणे हितम् ॥ १९३ ॥ १कालि कालि महाकालि मांसशोणितभोजिनि । रक्तकृष्णमुखे देवि रससिद्धिं ददस्व मे ॥१९४॥ स्वाहा अनेन सिद्धमन्त्रेण शक्तिचक्रं प्रपूजयेत् । कालिकां भैरवं सिद्धान् कुमारीं साधितं रसम् ॥१९५ ततो रसायनं दिव्यं सेवयेत् सिद्धिमाप्नुयात् । गुटिकां धारयेद्वक्त्रे पूर्वमन्त्रं जपेत्सदा ॥ १९६ ॥ रसमन्त्रप्रयोगेण शीघ्रं सिद्धिमवाप्नुयात् । कालान्तरससिद्धिकरणप्रकारः । कालान्तरससिद्धिर्या प्रोक्ता मन्थानभैरवे ॥ १९७ ॥ तदर्थं पञ्च तत्त्वानि षष्ठं जीवं च साधयेत् । काकिन्याः पुष्पकाले तु सङ्गं कृत्वा समाहरेत् ॥ १९८ तद्योनिस्थं रजोबीजं गगनं तं विदुर्बुधाः । काकिन्युत्पन्नपुत्रस्य सद्योविद्वायुरुच्यते ॥ १९९ ॥ तेजस्तु काकिनीपुष्पं जलं तत्पुत्रशोणितम् । १ अस्याग्रे 'ऐं ह्रीं श्रीं श्रीं' इत्यधिकं ख. पुस्तके ।

३६ आयुर्वेदियग्रन्थमाला । [उपदेशः काकिनीपुत्रसर्वाङ्गं पृथिवीतत्त्वमुच्यते ॥ २०० ॥ रससेवकदेहोत्थवीर्य जीवस्तु कथ्यते । तत्प्रत्येकं कोटिवेधं कर्षैकं रससंयुतम् ॥ २०१ ॥ कृत्वा संरक्षयेद्बिम्बं सुपिष्टं गोलकीकृतम् । उन्नतं पौरुषं यावद्विस्तारेण तदर्धकम् ॥ २०२ ॥ कुर्यात्ताम्रकटाहं तु स्थूलं यावत् षडङ्गुलम् । चतुर्मुखस्य कोष्ठस्य पृष्ठे धार्यं दृढं यथा ॥ २०३ ॥ गोघृतं नरतैलं च समभागेन मेलयेत् । तेनापूर्य कटाहं तं सिद्धचक्रं ततोऽर्चयेत् ॥ २०४ ॥ कुमारीगुरुदेवाग्नीन् भैरवं भैरवीयुतम् । तर्पयेद्बलिमांसेन क्षेत्रपालं च पूजयेत् ॥ २०५ ॥ धमनं तत्र कुर्वीत चतुर्दिक्षु शनैः शनैः । चतुर्भिर्वङ्कनालैश्च खदिराङ्गारयोगतः ॥ २०६ ॥ सुतप्तं फेननिर्मुक्तं निर्धूमं च यदा भवेत् । चन्द्रार्कग्रहनक्षत्रदेवताभुवनानि च ॥ २०७ ॥ नमस्कृत्य गुरुं देवं

४.] रसरात्नाकरस्य रसायनखण्डः । ३७ नवनागसहस्राणां बलं तस्याधिकं भवेत् । जीवते वज्रदेहः सन् सत्यं सत्यं शिवोदितम् ॥२१४॥ जराजर्जरिताङ्गानामन्धानां पङ्कुकुष्ठिनाम् । नष्टवाग्जडषण्ढानां कुब्जानां कुष्ठदेहिनाम् ॥ २१५ ॥ अनेकव्याधियुक्तानां भ्रान्तोन्मत्तपिशाचिनाम् । किं पुनः स्वच्छदेहानां भूपानां रससेविनाम् ॥ २१६॥ वीराणां साधकानां च दिव्यसिद्धिप्रदो भवेत् । तस्माद्वीरतरो योज्य भैरवोऽसौ न संशयः ॥ २१७ ॥ वज्रकायो भवेत्सिद्धो मेधावी दिव्यरूपवान् । अर्धयोजनविस्तीर्णं विमानं चाप्सरोयुतम् ॥ २१८ ॥ आयाति नात्र संदेहस्तस्य सिद्धस्य संमुखम् । तत्रारूढो रुद्रलोके क्रीडते भैरवो यथा ॥ २१९ ॥ क्षुत्पिपासाविनिर्म

३८ आयुर्वेदीयग्रन्थमाला । [ उपदेशः कान्तादिमहारसायनम् । मृतकान्ताभ्रकं मृतं गन्धं भृङ्गविडङ्गकम् । त्वग्वज्रं बिल्वबीजं च प्रत्येकं पलषोडश ॥ २ ॥ त्रिंशत्पलं त्र्यूषणं च त्रिंशन्त्रिंशद्धृतं मधु । चित्रमूलं दशपलं सर्वं चूर्णं विलोडयेत् ॥ ३ ॥ पलानि त्रिफलायास्तु विंशपूर्वं चतुःशतम् । क्वाथ्यमष्टगुणैस्तोयैर्ग्राह्यमष्टावशेषितम् ॥ ४ ॥ कषायं भावयेत्तेन मासैकं पूर्वलोडितम् । लोहपात्रे खरे घर्मे तत्पलार्धं सदा पिबेत् ॥ ५ ॥ क्षीरैः शयनकाले तु वर्षान्मृत्युजरापहम् । बालो निबिडसंधिश्च जीवेच्चन्द्रार्कतारकम् ॥ ६ ॥ महारसायनं दिव्यं कामिनीशततोषकम् । रसायना अभ्रकयोगाः । अग्निवर्णं क्षिपेत्क्षीरे कृष्णाभ्रं वह्नितापितम् ॥ ७ ॥ भिन्नपत्रं ततः कृत्वा जलमध्ये विनिक्षिपेत् । त्रिंशत्पलानि यत्नेन मरिचं पलपञ्चकम् ॥ ८ ॥ चूर्णितं निक्षिपेत्तस्मिंस्त्रिदिनान्ते समुद्धरेत् । तत्सर्वं पेषयेच्छ्लक्ष्णं सितवस्त्रेण बन्धयेत् ॥ ९ ॥ जलपूर्णे घटे घर्मे दोलायन्त्रेण धारयेत् । शुष्के तोये पुनस्तोयं दद्याद्यावज्जले गतम् ॥ १० ॥ तदभ्रकं ततो वस्त्रं संत्यजेद्रक्षयेज्जलम् । त्रिंशद्भागं ततः कुर्यात्तज्जलं साभ्रकं सुधीः ॥ ११ ॥ तद्भागेकेन संलोढ्य पलैकं श्वेततण्डुलात् । त्रिंशत्पले गवां क्षीरे तत् पचेचाथ शीतलम् ॥ १२ ॥ मध्वाज्यैर्द्विपलैर्युक्तं निष्कैश्चैकैश्च मरीचकैः । साधको भक्षयेन्नित्यं मासान्मृत्युजरापहम् ॥ १३ ॥

४.] रसरत्नाकरस्य रसायनखण्डः । ३९ केशा दन्ता नखास्तस्य पतन्ति ह्युद्भवन्ति च । वज्रकायो भवेत्सिद्धो वायुवेगो महाबलः ॥ १४ ॥ अमृताभ्रकयोगोऽयं शम्भुना गदितः पुरा । मृताभ्रं गन्धकं शुद्धं कणा सर्वं समं घृतैः ॥ १५ ॥ कर्षैकं भक्षयेन्नित्यं वर्षान्मृत्युजरापहम् । कोरण्टकस्य पत्राणि मृताभ्रं गन्धकं समम् ॥ १६ ॥ तत्सर्वं नीलिकाद्रावैः सप्ताहं भाव्यमातपे । तत्कर्षैकं पिबेत्क्षीरैरब्दान्मृत्युजरापहम् ॥ १७ ॥ मृताभ्रकस्य कर्षैकं गवां क्षीरं पलं तथा । समूलपत्रां सर्पाक्षीं सार्द्रां पिष्ट्वा च गन्धकम् ॥ १८ ॥ एकीकृत्य पिबेत्सर्वं वर्षेकेन जरां जयेत् । वज्रकायः खेचरश्च जीवेद्ब्रह्मदिनत्रयम् ॥ १९ ॥ मृताभ्रं कान्तलोहं च त्रिफला मागधी समम् । पञ्चाङ्गं बदरीचूर्णमग्रतुल्यं नियोजयेत् ॥ २० ॥ सितामध्वाज्यसंयुक्तं पलार्थं भक्षयेत्सदा । हन्ति वर्षाज्जरां मृत्युमायुः स्याद्ब्रह्मणो दिनम् ॥ २१ ॥ 'अमृतक्रीडे विष्णुसंवरणि स्वाहा ॥' अनेन मन्त्रेण सर्वे अभ्रकयोगा अभिमन्त्र्य भक्षणीयाः । रसायनाः कान्तयोगाः । मृतं कान्तं तिलाः कृष्णा बदरीफलचूर्णकम् । काकतुण्डीबीजचूर्णं सर्वं तुल्यं प्रकल्पयेत् ॥ २२ ॥ शाल्मलीमल्लिपत्राणां द्रवैर्भाव्यं दिनत्रयम् । त्रिदिनं भृङ्गजैर्द्वावैर्भावितं शोषयेत्पुनः ॥ २३ ॥ तस्मिंस्तुल्यं गुडं क्षिप्त्वा वटिकाः कर्षमात्रकाः । रुदन्त्युत्थद्रवैः क्षीरैर्मध्वाज्याभ्यां पिबेत्सदा ॥ २४ ॥ १ 'महासिद्धो' ख. । २ 'सार्द्रैः' ख. । ३ 'कर्षकम्' ख. ।

४० आयुर्वेदीयग्रन्थमाला। [उपदेशः वर्षेकेन जरां मृत्युं हन्ति सत्यं न संशयः । मृतं कान्तं कृष्णतिलांस्त्रिफलां चूर्णयेत्समम् ॥ २५ ॥ शाल्मलीकेतकीद्रावैर्लोडितं कान्तपात्रके । स्थितं रात्रौ पिबेत्प्रातः पलार्धं मृत्युनाशनम् ॥ २६ ॥ वत्सरेकाज्जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् । कान्तभस्म कणाचूर्णं निम्बनिर्याासमेवं च ॥ २७ ॥ त्रिफलातुल्यतुल्यांशं मध्वाज्याभ्यां पलार्धकम् । लिहेन्मासाष्टकं नित्यं जीवेद्ब्रह्मदिनं नरः ॥ २८ ॥ कुष्ठखण्डानि संपाच्य कषाये त्रैफले समे । शोषयित्वा विचूर्ण्याथ तानि कान्तं मृतं समम् ॥२९॥ मध्वाज्याभ्यां लिहेत्कर्षं वर्षान्मृत्युजरापहम् । कोरण्टपत्रचूर्णं तु कान्तभस्म तिला गुडम् ॥ ३० ॥ तुल्यं भक्ष्यं पलार्धं तद्वर्षान्मृत्युजरापहम् । कान्तभस्म समं गन्धं तेलैर्ज्योतिष्मतीभवैः ॥ ३१ ॥ लिहेन्नित्यं चतुर्निष्कं ब्रह्मायुर्जायते नरः । बृहस्पतिसमो वाचा वत्सराद्भवति ध्रुवम् ॥ ३२ ॥ मृततीक्ष्णं त्रयो भागाः शुद्धगन्धाष्टभागकम् । घर्मे भाव्यं त्रिसप्ताहं तत्सर्वं कन्यकाद्रवैः ॥ ३३ ॥ गोक्षीरैस्तत्पिबेत्कर्षं जीवेद्ब्रह्मदिनत्रयम् । वर्षमात्रान्न संदेहो दिव्यतेजा महाबलः ॥ ३४ ॥ मृतं कान्तं शिला शुद्धा तुल्यं मध्वाज्यकैर्लिहेत् । निष्कं निष्कं तु वर्षेण जीवेद्ब्रह्मदिनत्रयम् ॥ ३५ ॥ त्रिनिष्कं मृततीक्ष्णं तु मुण्डं वा कान्तमेव वा । पिबेद्धारोष्णपयसा वयःस्तम्भकरं नृणाम् ॥ ३६ ॥ वर्षद्वयप्रयोगेण जीवेदाचन्द्रतारकम् । १ 'वर्षत्रयप्रयोगेण' ख. ।

४.] रस्रत्नाकरस्य रसायनखण्डः । ४१ सम्यक्कान्तमये पात्रे धात्रीचूर्णं शिवाम्बुना ॥ ३७ ॥ रात्रौ पलैकं संलिप्य प्रातरुत्थाय भक्षयेत् । वलीपलितनिर्मुक्तो वत्सरान्मृत्युजिद्भवेत् ॥ ३८ ॥ लेपयेत्कान्तपात्रान्तः पलैकं त्रिफलामधु । दिवारात्रं स्थितं पेयं तन्नित्यं तु शिवाम्बुना । वर्षान्मृत्युं जरां हन्ति जीवेद्वर्षशतत्रयम् ॥ ३९ ॥ ‘ॐ हः अमृते अमृतशक्ति अमृतगन्धोपजीवि निष्पन्नं चन्द्रामृतं आज्ञापितं कुरु कुरु स्वाहा हे हे हं हः गम्’ इति गन्धकलोहयोर्भक्षणमन्त्रः ॥ सर्वेषां लोहयोगानामनु स्यात्क्षीरपानकम् । आस्वादेत्स्वादुमुस्तानां स्वरसं दन्तपीडितम् ॥ ४० ॥ मूलानि भक्षयेत्तासामास्यवैरस्यशान्तये । बद्धे कोष्ठे तु दीप्ताग्नौ तप्तं क्षीरं पिवेत्सदा ॥ ४१ ॥ स्नानमर्दनतीक्ष्णोष्णं विष्टम्भे सति वर्जयेत् । ताम्बूलं भक्षयेन्नित्यं सकर्पूरं मुहुर्मुहुः ॥ ४२ ॥ सम्यग्जीर्णे तु दीप्ताग्नौ पिवेत्पश्चाद्बुलुक्षितः । शृतं क्षीरं ततोऽन्नं च सेव्यं लोहरसायने ॥ ४३ ॥ ब्रह्मवृक्षकल्पः । ब्रह्मवृक्षस्य पञ्चाङ्गं छायाशुष्कं सुचूर्णितम् । मध्वाज्याभ्यां लिहेत्कर्षं वर्षैकेन जरां जयेत् ॥ ४४ ॥ जीवेद्वर्षसहस्रैकं दिव्यतेजा महाबलः । ब्रह्मवृक्षस्य पुष्पाणि छायाशुष्काणि कारयेत् ॥ ४५ ॥ त्रिंशत्पलं तु तच्चूर्णं चतुर्विंशत्पलं घृतम् । एकीकृत्य क्षिपेद्भाण्डे तं रुद्धा धान्यराशिगम् ॥ ४६ ॥ कृत्वा मासात्समुद्धृत्य भागान् कुर्याच्चतुर्दश । भागैकं भक्षयेन्नित्यं भुञ्जीत कान्तभाजने ॥ ४७ ॥

४२ आयुर्वेदीयग्रन्थमाला । [उपदेशः एवं मासत्रयं कुर्याद्वज्रकायो भवेन्नरः । तस्य मूत्रपुरीषाभ्यां ताम्रमायाति काञ्चनम् ॥ ४८ ॥ ब्रह्मवृक्षस्य बीजानि चूर्णितानि घृतैः सह । पूर्ववद्धान्यमध्ये तु क्षिप्त्वा मासात्समुद्धरेत् ॥ ४९ ॥ पलैकैकं सदा खादेद्वत्सरान्मृत्युजिद्भवेत् । वलीपलितनिर्मुक्तो जीवेद्ब्रह्मदिनत्रयम् ॥ ५० ॥ ब्रह्मबीजोत्थितं तैलं गवां क्षीरैः पलद्वयम् । तुल्यैः पिबेद्भवेन्मूर्च्छा सिञ्चेत्तस्य मुखे पयः ॥ ५१ ॥ बोधे क्षीरौदनं दद्यान्मासाज्ज्ञानी भवेन्नरः । द्वितीये शुक्रतुल्यः स्यात्तृतीये वज्रवद्भवेत् ॥ ५२ ॥ दूरश्रावी चतुर्थे तु पञ्चमे खेगतिर्भवेत् । मासषट्के स्वयं कर्ता शिवतुल्यपराक्रमः ॥ ५३ ॥ महाकल्पान्तपर्यन्तं जीवेद्वर्षैकसेवनात् । ब्रह्मवृक्षमतिस्थूलं छेदयेदूर्ध्वभागतः ॥ ५४ ॥ अधो रक्ष्यं त्रिहस्तं स्यात्तस्य मूर्ध्नि बिलं कृतम् । पक्वैर्धात्रीफलैः पूर्यं तत्काष्ठेन निरुध्य च ॥ ५५ ॥ कुशैस्तु वेष्टयेत्सर्वं लेप्यं मृद्रोमयैः पुनः । आवेष्ट्य वस्त्रखण्डेन लिम्पेन्मृद्रोमयैस्ततः ॥ ५६ ॥ शुष्के गजपुटं देयं पैरितोऽरण्यकोत्पलैः । स्वाङ्गशीतलमुद्धृत्य सद्रवाणि फलानि च ॥ ५७ ॥ क्षिपेन्मध्वाज्यसंयुक्ते भाण्डे तान्येव भक्षयेत् । यथेष्टं भूगृहान्तःस्थः क्षीराहारी जरां जयेत् ॥ ५८ ॥ मांसद्वयेन वसुधां छिद्रां पश्यति निश्चितम् । जीवेद्ब्रह्मदिनं यावत्सर्पवत्कञ्चुकं त्यजेत् ॥ ५९ ॥ १ ‘महाबलः’ ख. । २ ‘तं तु धात्रीफलैः’ ख. । ३ ‘पाचितो’ ख. । ४ ‘छिद्रं पश्यति मासाद्वै निधानानि च भूतले’ ख. ।

४.] रसरत्नाकरस्य रसायनखण्डः । ५३ श्वेतपालाशकल्पः । श्वेतपालाशपञ्चाङ्गं चूर्णितं मधुना सह । कर्षैकं भक्षयेन्नित्यं मासान्मृत्युजरापहम् ॥ ६० ॥ ब्रह्मायुर्जायते सिद्धो वर्षमात्रान्न संशयः । अजाघृतेन तद्बीजमेकैकं भक्षयेत्सदा ॥ ६१ ॥ शरीरं भस्मना मर्द्य मासान्मृत्युजरां जयेत् । जीवेद्ब्रह्मदिनं यावद्दिव्यकायो भवेन्नरः ॥ ६२ ॥ अन्ये योगा यथा रक्ते ब्रह्मवृक्षे च ये गुणाः । तथैव श्वेतपालाशे भवेयुः साधकस्य वै ॥ ६३ ॥ 'अमृतं कुरु कुरु अमृतमालिन्यै नमः ॥' अनेन मन्त्रेण सर्वयोगाः सप्ताभिमन्त्रिता भक्षणीयाः । मुण्डीकल्पः । शुक्लपक्षेऽथ पूर्णायां पुष्ये वा श्रवणे तथा । रेवत्यां वाऽथ संपूज्य मुण्डीपञ्चाङ्गमुद्धरेत् ॥ ६४ ॥ छायाशुष्कं तु तच्चूर्णं कर्षं गोपयसा सह । वर्षैकेन जरां हन्ति जीवेद्वर्षशतत्रयम् ॥ ६५ ॥ तस्य मूत्रपुरीषाभ्यां ताम्रं सौवर्णतां व्रजेत् । तच्चूर्णं तु घृतैस्तैलैर्हं तद्वत्स्याद्वलमद्भुतम् ॥ ६६ ॥ 'ॐ नमोऽमृतोद्भवाय अमृतं कुरु कुरु स्वाहा ओं ह्रां स

४४ आयुर्वेदीयग्रन्थमाला । [ उपदेशः चूर्णितं कर्षमात्रं तु नित्यं पेयं शिवाम्बुना । वर्षान्मृत्युं जरां हन्ति छिद्रां पश्यति मेदिनीम् ॥७०॥ पुनर्नवादेवदाल्योर्नीरैर्नित्यं पिबेन्नरः । देवदाल्याश्च सर्पाक्ष्याः पलैकं वा शिवाम्बुना ॥ ७१ ॥ पिबेत्स्यात्पूर्ववत्सिद्धिवत्सरान्नात्र संशयः । देवदालीं च निर्गुण्डीं पिबेत्कर्षां शिवाम्बुना । वर्षेकेन जरां हन्ति जीवेदाचन्द्रतारकम् ॥ ७२ ॥ ॐ अमृतगण रुद्रगणाम्भः स्वाहा । अयं च ग्रहणमन्त्रः ॥ ‘नमो भगवते रुद्राय हुं फट् स्वाहा ।’ अयं साधकस्य शिखा- बन्धनमन्त्रः ॥ १‘ॐ चर र र ।’ अयं भक्षणमन्त्रः ॥ श्वेतार्ककल्पः । पुष्ये श्वेतार्कमूलं तु ग्राह्यं छायाविशोषितम् । चूर्णकर्षं गवां क्षीरैः पलद्वन्द्वैर्युतं पिबेत् ॥ ७३ ॥ मासषट्काज्जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् । द्रवं श्वेतार्कपत्राणां भृङ्गराजद्रवैः समम् ॥ ७४ ॥ एकीकृत्यातपे शुष्कं चूर्णं क्षीरैश्चतुर्गुणैः । मृद्वग्निना पचेत्तावद्यावत्पिण्डत्वमागतम् । २तत्कर्षैकं घृतैर्लेह्यं वर्षात्स्यात्पूर्ववत्फलम् ॥ ७५ ॥ ‘ॐ आं हं वासरमालिने स्वाहा ।’ अयं भक्षणमन्त्रः ॥ हस्तिकर्णकल्पः । ग्राह्यं सोमत्रयोदश्यां हस्तिकर्णस्य पत्रकम् । छायाशुष्कं तु तच्चूर्णं गवां क्षीरैः पिबेत्पलम् ॥ ७६ ॥ वर्षमात्राज्जरां हन्ति जीवेद्ब्रह्मदिनं नरः । हस्तिकर्णस्य पञ्चाङ्गं छायाशुष्कं विचूर्णितम् ॥ ७७ ॥ १ अयं पाठः ख. पुस्तके नोपलभ्यते । २ ‘कर्षैकं तु’ ख. ।

४.] रसरत्नाकरस्य रसायनखण्डः । ४५ कर्षमात्रं पिवेन्नित्यं मासैकमुदकैः सह । आरनालैस्ततस्तक्रैर्दधिक्षीराज्यक्षौद्रकैः ॥ ७८ ॥ प्रत्येकेन क्रमात्सेव्यं मासैकेन जरापहम् । जीवेद्ब्रह्मदिनं सार्धं वज्रकायो महाबलः ॥ ७९ ॥ ‘ॐ गरविषं दृष्टौ गृह्णामि स्वाहा ।’ हस्तिकर्णग्रहणमन्त्रः ॥ ‘ॐ अमृतकुटीजातानां अमृतं कुरु कुरु स्वाहा ।’ अनेन पूजयेत् । ‘ॐ अमृतोद्भवाय अमृतं कुरु कुरु नित्यं नमो नमः।’ भक्षणमन्त्रः ॥ रुदन्तीकल्पः । रुदन्त्याश्चैव पञ्चाङ्गं छायाशुष्कं विचूर्णयेत् । तदर्धं मुशलीचूर्णं मुशल्यार्धं फलत्रयम् ॥ ८० ॥ मूलानां कतकोत्थानां तैलं पातालयन्त्रके । ग्राहयेद्धर्मयन्त्रे वा तत्तैलं क्षालयेज्जलैः ॥ ८१ ॥ नालिकेरजलैर्वाऽथ क्षाल्यं पञ्चांशवारकम् । एतत्तैलेन संयुक्तं पूर्वचूर्णं लिहेत्क्रमात् ॥ ८२ ॥ कर्षादिवर्धनं कार्यं पलान्तं चाथ वर्धयेत् । एवमब्दाज्जरां हन्ति आयुः स्याद्ब्रह्मणो दिनम् ॥ ८३॥ सिद्धयोगो ह्ययं ख्यातो वज्रकायकरो नृणाम् । निर्गुण्डीकल्पः । पुष्यार्के ग्राहयेत्प्रातर्निर्गुण्डीमूलजां त्वचम् ॥ ८४ ॥ छायाशुष्कां विचूर्ण्याथ कर्षमेकं पिवेत्सदा । अजामूत्रपलैकेन षण्मासादमरो भवेत् ॥ ८५ ॥ वर्षमात्रप्रयोगेण शिवतुल्यो भवेन्नरः । तच्चूर्णं क्षीरमध्वाज्यैर्लोडितं स्निग्धभाण्डके ॥ ८६ ॥ १ 'अमृतकुक्षिजातानां' ख. । २ 'पञ्चांशवासरम्' ख.।

४६ आयुर्वेदग्रन्थमाला । [उपदेशः रुद्ध्वा क्षिपेद्धान्यराशौ मासादुद्धृत्य भक्षयेत् । द्विपलं वर्षपर्यन्तं जीवेच्चन्द्रार्कतारकम् ॥ ८७ ॥ तच्चूर्णार्धपलं चाज्यैर्लिहेत्स्यात्पूर्ववत्फलम् । तच्चूर्णं त्रिफला मुण्डी भृङ्गी निम्बो गुडूचिका ॥ ८८ ॥ वचा चैषां समं चूर्णं मध्वाज्याभ्यां लिहेत्पलम् । वर्षान्मृत्युं जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् ॥ ८९ ॥ निर्गुण्डीपत्रजं द्रावं भाण्डे मृद्वग्निना पचेत् । गुडवत्पाकमापन्नं पीतं वान्तिविरेककृत् ॥ ९० ॥ निर्यान्ति कृमयस्तस्य मुखनासाक्षिकर्णतः । राजयक्ष्मादिरोगांश्च सप्ताहेन विनाशयेत् । मासत्रयाज्जरां हन्ति जीवेद्वर्षशतत्रयम् ॥ ९१ ॥ 'ॐ नमो माय गणपतये भूपतये कुबेराय स्वाहा'. इति भक्षणमन्त्रः ॥ रसायनाः कतिपययोगाः । भल्लातकोऽभया वीरा काकतुण्ड्याः फलं वचा । लाङ्गली निम्बपत्राणि सहदेवी समं समम् ॥ ९२ ॥ एषां पातालयन्त्रेण तैलं ग्राह्यं प्रयत्नतः । तत्तैलं नीलिकामूलयुक्तमर्धपलं पिबेत् ॥ ९३ ॥ वत्सरात्पलितं हन्ति आयुः स्याद्ब्रह्मणो दिनम् । तैलार्धनिष्के तन्नस्ये कृते स्यात्पूर्ववत्फलम् ॥ ९४ ॥ कृष्णजीरकप्रस्थैकं तत्तुल्यं भृङ्गजद्रवम् । यष्टी नीलोत्पलं चैव प्रति प्रस्थार्धमाहरेत् ॥ ९५ ॥ पादप्रस्थं तिलात्तैलं सर्वमेकत्र पाचयेत् । ग्राह्यं तैलावशेषं तन्नस्यं तेनैव कारयेत् ॥ ९६ ॥ नस्यं चाङ्कोल्लतैलेन कुर्यान्मृत्युजरापहम् । निष्कार्धंनिष्कं वर्षैकं जीवेद्वर्षशतत्रयम् ॥ ९७ ॥

४.] रसरत्नाकरस्य रसायनखण्डः । ४७ काकमाचीफलं पिष्ट्वा कर्षैकमुदकैः पिबेत् । वत्सरात्पलितं हन्ति आयुः स्याद्ब्रह्मणो दिनम् ॥ ९८॥ गुडूची मुशली मुण्डी निर्गुण्डी च शतावरी । विजया च समं चूर्णं सितामध्वाज्यसंयुक्तम् ॥ ९९ ॥ खादेत्कर्षद्वयं नित्यं वत्सरात्पलितं जयेत् । उक्तं गोरक्षनाथेन जीवेद्ब्रह्मदिनत्रयम् ॥ १०० ॥ शूनकशाल्मलिकाकल्पः । कृष्णाष्टम्यां कृष्णसूत्रैर्वृक्षं शूनकशाल्मलेः । आवेष्ट्याघोरमन्त्रेण रात्रौ कृष्णाजकं बलिम् ॥ १०१ ॥ दत्त्वाऽघोरं जपेत्तत्र यावदष्टसहस्रकम् । तस्य मूलत्वचं ग्राह्यं छायाशुष्कं विचूर्णयेत् ॥ १०२ ॥ मध्वाज्याभ्यां सदा खादेत्पलैकं वत्सरावधि । वलीपलितनिर्मुक्तो जीवेद्ब्रह्मदिनं नरः ॥ १०३ ॥ तस्य पुष्पाणि संगृह्य गवां क्षीरैः सदा पचेत् । पुष्पवर्जं पिबेत्क्षीरं मासान्मृत्युजरापहम् ॥ १०४ ॥ फलैकं तस्य वृक्षस्य गवां क्षीरेण पाचयेत् । फलवर्जं पिबेत्क्षीरं क्षीरमेवं पिबेद्बुधः ॥ १०५ ॥ चतुर्मासप्रयोगेण वज्रकायो भवेन्नरः । जीवेत्कल्पान्तपर्यन्तं वायुवेगो महाबलः ॥ १०६ ॥ तस्य मूत्रपुरीषाभ्यां ताम्रं भवति काञ्चनम् । काकमाची भृङ्गराजः सर्पाक्षी सहदेविका ॥ १०७ ॥ समूला देवदाली च निम्बबाकुचिबीजकम् । फलानि काकतुण्ड्याश्च मूलं ब्रह्माश्वगन्धयोः ॥ १०८॥ नीलकोरण्टपत्राणि त्रिफला च समं समम् । चूर्णं तत्कन्यकाद्रावैर्भावयेत्सप्तवासरम् ॥ १०९ ॥ छायायां शोषितं कुर्यात्सितामध्वाज्यसंयुक्तम् ।

४८ आयुर्वेदीयग्रन्थमाला । [उपदेशः भक्षेतकर्षद्वयं नित्यं वर्षमात्राज्जरां जयेत् । जीवेच्चन्द्रार्कनक्षत्रं महाकायो महाबलः ॥ ११० ॥ ‘ॐ ठः ठः ठः सः सः सः अमृते अमृतवर्षिणि अमृतसं- जीवनि सर्वकामप्रदे भगवान् सोमराज आज्ञापयति स्वाहा’ इति भक्षणमन्त्रः ॥ ' त्रिफलादियोगः । त्रिफला बाकुचीबीजं पिप्पली चाश्वगन्धिका । सर्वं तुल्यं कृतं चूर्णं मध्वाज्याभ्यां लिहेत्पलम् । वर्षान्मृत्युं जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् ॥ १११ ॥ ‘ॐ ह्रां ह्रीं हूं सः स्वाहा’ अनेन मन्त्रेण भक्षयेत् ॥ मूलिकाकल्पेषु पारदयोगः । मूलिकाकल्पयोगेषु गुञ्जैकां मृतपारदम् । प्रतियोगयुतं खादेत्फलं शतगुणं भवेत् । रसेन्द्रस्य प्रभावेण शीघ्रं सिद्धिमवाप्नुयात् ॥ ११२ ॥ रसायनकल्पेषु मन्त्रयोगः । अस्थिमुद्राधरो मन्त्री लक्षमेकं श्मशानतः । जपेन्महाभयं हन्ति सिद्धिं दत्ते रसायनम् ॥ ११३ ॥ तेन भक्षितमात्रेण जीवेदाचन्द्रतारकम् । अजेयो देवदैत्यानां पर्वतानपि चालयेत् ॥ ११४ ॥ ‘ॐ ह्रीं महाभयेरुम् ।’ रसायनसेवनविधिः । प्रातः पुष्यार्कमुख्ये विविधशुभदिने मन्त्रपूजाविधानै- र्ग्राह्यं दिव्यौषधीनां फलदलकुसुमं मूलपत्रं रसं वा । सर्वाङ्गं वाऽथ सिध्यै सकलमभिनवं सेव्येद्ब्रह्मचारी क्षीरान्नं चोदकान्नं हितमशनमिदं सर्वमन्यद्विवर्ज्यम्॥ ११५ ॥ इति श्रीपार्वतीपुत्रश्रीमन्नित्यसिद्धनाथविरचिते श्रीरसरत्नाकरे रसायनखण्डे नानारसायनं नाम चतुर्थोपदेशः ।

५.] रसरत्नाकरस्य रसायनखण्डः । ४९ अथ पञ्चमोपदेशः । उद्वर्तनं पलितहारि परं नराणां शोभावहं सुखकरं कचरञ्जनं च । वृद्धोपयोगिसुखसाध्यमनेकयुक्त्या वक्ष्ये सुसिद्धमनुभूतिपथेन दृष्टम् ॥ १ ॥ वलीपलितनाशार्थे पारदाद्युद्वर्तनम् । पारदं गन्धकं तुल्यं नारीस्तन्येन मर्दयेत् । विष्णुक्रान्ता मेघनादा सर्पाक्षी मुनिमुण्डिका ॥ २ ॥ आसां द्रवैर्दिनं खल्वे मर्दयेत्तत्समुद्धरेत् । यवचूर्णं तिलांश्चैव प्रत्येकं रसतुल्यकम् ॥ ३ ॥ क्षिपेत्तस्मिन् घृतैः क्षौद्रैः सर्वमालोड्य रक्षयेत् । अनेनोद्वर्तनं सम्यग्वलीपलितनाशनम् ॥ ४ ॥ वत्सराद्दिव्यदेहः स्याज्जीवेद्वर्षसहस्रकम् । वलीपलितनाशार्थे वज्रकापालिनीमूलाद्युद्वर्तनम् । वज्रकापालिनीमूलं पारदं च समं समम् ॥ ५ ॥ शिवाम्बुना त्र्यहं मर्द्यमुद्धर्तातपूर्ववत्फलम् । वलीपलितनाशार्थे उत्पलाद्युद्वर्तनम् । उत्पलानि समूलानि पारदं च समं समम् ॥ ६ ॥ सप्ताहं मर्दयेत्खल्वे स्वकीयेनाशिवाम्बुना । तेनैव मर्दयेद्गात्रं जायते पूर्ववत्फलम् ॥ ७ ॥ वलीपलितनाशार्थे पारदाद्युद्वर्तनम् । पारदस्य समांशेन ब्रह्मदण्डीयमूलकम् । क्षिप्त्वा सप्तदिनं मर्द्यं स्वकीयेनाशिवाम्बुना ॥ ८ ॥ अनेनोद्वर्तयेद्गात्रं जायते पूर्ववत्फलम् । १ 'बलकरं' ख. । ५