रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)
Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary
सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 40, कुल 94 में से
संदर्भ में पढ़ें३.] रसरत्नाकरस्य रसायनखण्डः । ३३ पक्वबीजस्य पत्राणि तानि भानुदलैः पुनः । वेष्टितानि निरुध्याथ निखनेच्चुल्लिगर्भतः ॥ १६४ ॥ आच्छाद्य ज्वालयेत्तत्र काष्ठाग्निं दिवसत्रयम् । उद्धृत्य द्वन्द्वलिप्तायां मूषायां तं निरोधयेत् ॥ १६५ ॥ करीषाग्नौ पुटे पच्यादहोरात्रात्समुद्धरेत् । वासनामुखिते सूते तुल्यमेतद्विनिक्षिपेत् ॥ १६६ ॥ अम्लेन मर्दयेद्यामं जातं गोलं समुद्धरेत् । क्षिपेज्जम्बीरगर्भे तं वस्त्रे बद्ध्वा त्र्यहं पचेत् ॥ १६७ ॥ दोलायन्त्रे सारनाले जायते गुटिका शुभा । कङ्कालखेचरी नाम्ना वक्त्रस्था मृत्युनाशिनी ॥ १६८ ॥ वर्षैकं धारयेद्यस्तु स जीवेद्ब्रह्मणो दिनम् । गन्धकं गुग्गुलुं तुल्यमाज्यैः कर्षं लिहेदनु ॥ १६९ ॥ कालविध्वंसिका वटिका । कृष्णाभ्रकस्य सत्त्वं तु कान्तमाक्षीककाञ्चनम् । तीक्ष्णं सौवीरचूर्णं च तुल्यं रुद्ध्वा धमेदृढम् ॥ १७० ॥ तत्खोटं सूक्ष्मचूर्णं तु द्रुतसूतसमं भवेत् । सूतार्धं मारितं वज्रं सर्वमम्लेन मर्दयेत् ॥ १७१ ॥ दिनैकं तप्तखल्वे तु तं रुद्ध्वा भूधरे पचेत् । अहोरात्रात्समुद्धृत्य तत्समं पूर्वसूतकम् ॥ १७२ ॥ दत्त्वा दिव्यौषधद्रावैर्मर्द्यं सर्वे दिनावधि । पूर्ववद्भूधरे पच्याद्द्रुतसूतं पुनः समम् ॥ १७३ ॥ दत्त्वा मर्द्यं पुनः पच्यादित्येवं सप्तवारकम् । एतद्द्रससमं गन्धं दत्त्वा चान्ध्यं धमेदृढम् ॥ १७४ ॥ जायते गुटिका दिव्या कालविध्वंसिका परा । यस्य वक्रे स्थिता ह्येषा तस्य कालः करोति किम् १७५ वर्षषट्कप्रयोगेण जीवेत्कल्पसहस्रकम् । तद्गात्रस्वेदमात्रेण सर्वलोहानि काञ्चनम् ॥ १७६ ॥