रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)
Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary
सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 41, कुल 94 में से
संदर्भ में पढ़ें३४ आयुर्वेदीयग्रन्थमाला । [उपदेशः जायन्ते नात्र संदेहः शिवाम्बु क्रामकं पिबेत् । पञ्चानना गुटिका । स्वर्णतारार्ककान्तं च तीक्ष्णचूर्णं समं समम् ॥ १७७॥ द्वन्द्वमेलापलिप्तायां मूषायां चान्धितं धमेत् । तत्खोटं चूर्णितं कृत्वा चाभिषिक्तं तु पूर्ववत् ॥ १७८॥ समुखे जारयेत्स्रुते यावत्पञ्चगुणं क्रमात् । दिव्यौषधद्रवैस्तं वै मर्दयेद्दिवसत्रयम् ॥ १७९ ॥ अन्धमूषागतं ध्मातं जायते गुटिका शुभा । नाम्ना पञ्चानना धार्या वक्त्रे संवत्सरावधि ॥ १८० ॥ वलीपलितनिर्मुक्तो जीवेच्चन्द्रार्कतारकम् । हस्तिकर्णी समूला तु चूर्ण्या मध्वाज्यसंयुता ॥ १८१ ॥ स्निग्धभाण्डे तु तां रुद्ध्वा धान्यराशौ निवेशयेत् । त्रिसप्ताहात्समुद्धृत्य पलैकं भक्षयेदनु ॥ १८२ ॥ शतवेधिकादिगुटिकाः । ऋद्धिखण्डे तु यत्प्रोक्तं विविधं रसबन्धनम् । अत्र तस्यैव वक्ष्यामि देहवेधक्रमं २यथा ॥ १८३ ॥ जारितैर्बन्धितैस्तैस्तै रसराजैः पृथक्पृथक् । कारयेद्गुटिकां दिव्यां बदराण्डप्रमाणकाम् ॥ १८४ ॥ सा धार्या वत्सरं वक्त्रे स्वानुरूपफलप्रदा । गुटिका शतवेधी स्याद्युगायुष्यकरी नृणाम् ॥ १८५ ॥ सहस्रवेधी गुटिका अष्टकल्पान्तरक्षिका । लक्षवेधकरी या तु सा दत्ते विष्णुवड्डलम् ॥ १८६ ॥ वेधिका दशलक्षे या सा रुद्रपददायिनी । कोटिवेधकरी या सा ईश्वरत्वकरी नृणाम् ॥ १८७ ॥ वेधिका दशकोटीनां सा सदाख्यपदप्रदा । १ ऋद्धिखण्डे इति वादिखण्डे इत्यर्थः । २ ‘तथा’ ख.