रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)
Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary
सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 42, कुल 94 में से
संदर्भ में पढ़ें३.] रसकलाकरस्य रसायनखण्डः । ३५ गुटिकाऽर्बुदवेधी या सा श्रीकण्ठपदप्रदा ॥ १८८ ॥ सम्यग्भवपदं दत्ते गुटिका शङ्खवेधिका । धूम्रवेधी तु या सिद्धा सा शक्तिपददायिनी ॥ १८९॥ पराशक्तिपदं दत्ते स्पर्शवेधकरी तु या। शब्दवेधकरा या तु सा यस्य वत्सरावधि ॥ १९० ॥ वक्त्रे स्थिता स वै सिद्धो नित्यं नित्यपदं लभेत् । स्वेच्छाचारी वज्रकायो वज्रपातैर्न भिद्यते ॥ १९१ ॥ तस्य मूत्रपुरीषाभ्यां सर्वलोहानि काञ्चनम् । जायन्ते खेदसंपर्काद्गात्रसंस्पर्शनादपि ॥ १९२ ॥ सर्वेषामुक्तयोगानामनु स्याच्छुद्धगन्धकम् । पलार्धं भक्षयेन्नित्यं रससंक्रामणे हितम् ॥ १९३ ॥ १कालि कालि महाकालि मांसशोणितभोजिनि । रक्तकृष्णमुखे देवि रससिद्धिं ददस्व मे ॥१९४॥ स्वाहा अनेन सिद्धमन्त्रेण शक्तिचक्रं प्रपूजयेत् । कालिकां भैरवं सिद्धान् कुमारीं साधितं रसम् ॥१९५ ततो रसायनं दिव्यं सेवयेत् सिद्धिमाप्नुयात् । गुटिकां धारयेद्वक्त्रे पूर्वमन्त्रं जपेत्सदा ॥ १९६ ॥ रसमन्त्रप्रयोगेण शीघ्रं सिद्धिमवाप्नुयात् । कालान्तरससिद्धिकरणप्रकारः । कालान्तरससिद्धिर्या प्रोक्ता मन्थानभैरवे ॥ १९७ ॥ तदर्थं पञ्च तत्त्वानि षष्ठं जीवं च साधयेत् । काकिन्याः पुष्पकाले तु सङ्गं कृत्वा समाहरेत् ॥ १९८ तद्योनिस्थं रजोबीजं गगनं तं विदुर्बुधाः । काकिन्युत्पन्नपुत्रस्य सद्योविद्वायुरुच्यते ॥ १९९ ॥ तेजस्तु काकिनीपुष्पं जलं तत्पुत्रशोणितम् । १ अस्याग्रे 'ऐं ह्रीं श्रीं श्रीं' इत्यधिकं ख. पुस्तके ।