रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)
Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary
सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 57, कुल 94 में से
संदर्भ में पढ़ें५० आयुर्वेदीयग्रन्थमाला । [ उपदेशः वलीपलितनाशार्थे गन्धकयोगः । गन्धकं कटुतैलेन घर्मे भाव्यं दिनावधि ॥ ९ ॥ तत्पलार्धं सदा खादेद्दिव्यकायकरं नृणाम् । जायते स्वर्णवद्देहो वत्सराद्वलिवर्जितः ॥ १० ॥ रसायनार्थे कुष्ठयोगः । कुष्ठचूर्णं समध्वाज्यं नित्यं कर्षं लिहेत्तु यः । वत्सराद्दिव्यदेहः स्याद्गन्धेन शतपुष्पवत् ॥ ११ ॥ पलितनाशार्थे कान्तपाषाणादियोगः । कान्तपाषाणचूर्णं तु तैलमध्वाज्यसंयुतम् । काकतुण्डीफलं सर्वं सममेतत्तु कल्पयेत् ॥ १२ ॥ भाण्डे रुद्धा क्षिपेन्मासं धान्यराशावथोद्धरेत् । अनेन लेपयेच्छीर्षं नस्यं कुर्याद्दिनेन वै ॥ १३ ॥ त्र्यहाद्भ्रमरसंकाशाः केशाः स्युर्वत्सरार्धकम् । पलितनाशार्थे सीसकादियोगः । नागचूर्णपलैकं तु शङ्खचूर्णपलद्वयम् ॥ १४ ॥ पथ्याचूर्णं निष्कमेकं सर्वं पेष्यं दिनावधि । अम्लदध्ना युतं यत्नात्स्नात्वाऽऽदौ शिरसि क्षिपेत् ॥१५॥ मर्दयेद्घटिकार्धं तु वेष्टयेदेरण्डपत्रकैः । शिरः संवेष्ट्य वस्त्रेण प्रातः स्नानं समाचरेत् ॥ १६ ॥ इत्येवं त्रिदिनं यत्नात्कृत्वा केशांश्च रञ्जयेत् । केशरञ्जनार्थे नीलिकादियोगः । पञ्चाङ्गं नीलिकाभृङ्गत्रिफलालोहचूर्णकम् ॥ १७ ॥ तुल्यं सर्वं कृतं सूक्ष्ममिडामूत्रेण(?) वेष्टयेत् । दिनार्धं तेन कल्केन पूर्ववत्केशरञ्जनम् ॥ १८ ॥ केशरञ्जनार्थे गुञ्जादियोगः । गुञ्जाबीजं तु त्वग्वर्ज्यं कुष्ठैलादेवदारुकम् । तुल्यं चूर्णं दिनं भाव्यं भृङ्गराजभवैर्द्रवैः ॥ १९ ॥