रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)
Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary
सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 61, कुल 94 में से
संदर्भ में पढ़ें५४ आयुर्वेदीयग्रन्थमाला । [उपदेशः वेष्टयेत्पूर्वयोगेन कपालरञ्जनं भवेत् ॥ ५० ॥ भ्रमराञ्जनसंकाशं यावज्जीवं न संशयः । केशरञ्जनार्थं नील्यादियोगः । नीलीपत्रं भृङ्गराजं त्रिफला कृष्णमायसम् ॥ ५१ ॥ मदनस्य च बीजानि पुष्पं कोरण्टकस्य च । अर्जुनस्य त्वचं चूर्णं नलिनीमूलकर्दमम् ॥ ५२ ॥ सर्वं तुल्यं क्षिपेद्भाण्डे लोहजे तन्निरोधयेत् । पक्षमेकं क्षिपेद्भूभौ भाण्डात्कल्कं समुद्धरेत् ॥ ५३ ॥ कल्काच्चतुर्गुणं तैलं तैलाच्चतुर्गुणं द्रवम् । भृङ्गत्रिफलजं योज्यं पचेत्तैलावशेषकम् ॥ ५४ ॥ परीक्षार्थं क्षिपेत्पक्षं बलाकाया यदा भवेत् । कृष्णवर्णं तदा सिद्धं पात्रे कृष्णायसे क्षिपेत् ॥ ५५ ॥ मासैकं धारयेत्तस्मिंस्ततः केशान् विलेपयेत् । तिष्ठन्ति मासषट्कं तु भ्रमरस्तोमसंनिभाः ॥ ५६ ॥ केशरञ्जनार्थं सीसकादियोगः । वासापलाशचिञ्चोत्थैर्दण्डैर्वाऽश्वत्थजैर्दृढम् । नागं पात्रगतं चाल्यं यावद्भवति मूर्च्छितम् ॥ ५७ ॥ पलैकं तत्समादाय लोहचूर्णं पलद्वयम् । त्रिपलं त्रिफलाचूर्णं दाडिमस्य फलत्वचः ॥ ५८ ॥ शुष्कं चूर्णं पलैकं तत्सर्वेषां काञ्जिकं समम् । भाण्डे सर्वं पचेत्किंचित् क्षिपेल्लोहभाजने ॥ ५९ ॥ भृङ्गराजकुरण्टोत्थद्रवं दत्त्वाऽऽतपे क्षिपेत् । त्रिसप्ताहं प्रयत्नेन द्रवो देयः पुनः पुनः ॥ ६० ॥ ततस्तं रक्षयेत्तेन लेपात्स्यात्केशरञ्जनम् । उक्तानुक्तेषु लेपेषु वेष्ट्यमेरण्डपत्रकैः ॥ ६१ ॥ शिरो रात्रौ दिवा स्नानं युक्तिरेषा प्रशस्यते ।