भारतकोश
रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary

सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished94 पृष्ठ

पृष्ठ 62, कुल 94 में से

संदर्भ में पढ़ें
पृष्ठ 62

५.] रस रत्नाकरस्य रसायनखण्डः । ५५ केशशुक्लीकरणयोगाः । वज्रीक्षीरेण सप्ताहं भावयेदभयाफलम् । तच्चूर्णयुक्ततैलस्य लेपाच्छुक्ला भवन्ति हि ॥ ६२ ॥ केशाश्च सर्वरोमाणि शङ्खवर्णा भवन्ति वै । सप्ताहं वज्रदुग्धेन सुश्वेतान् भावयेत्तिलान् ॥ ६३ ॥ तेभ्यस्तैलं गृहीत्वा तल्लेपाच्छुक्ला भवन्ति वै । गौरामलकचूर्णं तु वज्रीक्षीरेण सप्तधा ॥ ६४ ॥ भावयेत्तेन लेपेन शुक्लतां यान्ति मूर्धजाः । सिन्दूरं स्फटिकां श्वेतां जलेन सह लेपयेत् ॥ ६५ ॥ तल्लेपेन तु रोमाणि सुशुक्लानि भवन्ति हि । मासैकं मागधीचूर्णं वज्रीक्षीरेण भावयेत् ॥ ६६ ॥ नराश्वगजवाजीनां शुक्लीकरणमुत्तमम् । इन्द्रगोपं तैलिनी च तालकं रजनीद्वयम् ॥ ६७ ॥ मनःशिला च तुल्यांशं चूर्णं स्नुकूपयसा त्र्यहम् । भावयेदर्कजैः क्षीरैस्त्रिदिनं चातपे खरे ॥ ६८ ॥ ततः कूष्माण्डजैर्द्रवैर्भावयेद्दिनसप्तकम् । कूष्माण्डस्य ततो गर्भे क्षित्वा मासात्समुद्धरेत् ॥ ६९ ॥ तैलेन सर्वरोमाणि केशान् संलेपयेत्त्र्यहम् । वेष्टयेदर्कजैः पत्रैः शुक्लवर्णा भवन्ति च ॥ ७० ॥ स्नाने कृते शुष्ककचेषु रात्रौ लेपे कृते पूर्वदलैस्तु वेष्टयम् । दध्ना तिलैः स्नानमतः प्रभाते कुर्यात्त्र्यहं लेपनमित्थमेव ॥७१॥ इति पार्वतीपुत्रश्रीनित्यनाथसिद्धविरचिते रसरत्नाकरे रसायनखण्डे उद्वर्तनकेशरञ्जनाधिकारो नाम पञ्चमोपदेशः ।