भारतकोश
रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary

सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished94 पृष्ठ

पृष्ठ 63, कुल 94 में से

संदर्भ में पढ़ें
पृष्ठ 63

५६ आयुर्वेदीयग्रन्थमाला । [उपदेशः अथ षष्ठोपदेशः । येषां रामा रमणकुशला रागसक्ताः प्रगल्भाः कामासक्ता हरिणनयनाश्चन्द्रबिम्बाननाश्च । तेषां वक्ष्ये मदनसुखदां वीर्यवृद्धिं प्रभूतां मेत्ताः सिद्धाः शतमपि दृढास्तादृशास्तोषयन्ति ॥ १ वाजीकरो मकरध्वजरसः । वज्रहेमार्कसृताभ्रलोहभस्म क्रमोत्तरम् । सर्वं कन्याद्रवैर्मर्द्यं शाल्मल्याश्च द्रवैस्त्र्यहम् ॥ २ ॥ तद्रुद्धा काचकुप्यन्तर्वालुकायां त्र्यहं पचेत् । तत्कल्कं मुशलीक्वाथैर्वज्रार्कक्षीरसंयुतैः ॥ ३ ॥ दिनैकं मर्दयेत्खल्वे रुद्ध्वाऽन्तर्भूधरे पुटेत् । यामादुद्धृत्य संचूर्ण्य सिताकृष्णात्रिजातकैः ॥ ४ ॥ २ समैः समं विमिश्र्याथ माषैकं भक्षयेत्सदा । मागधी मुशली यष्टी वानरीबीजकं समम् ॥ ५ ॥ चूर्णं सिताज्यगोक्षीरैः पलार्धं पाययेदनु । कामिनीनां सहस्रैकं रममाणो न मुह्यति । सेवनाद्दृढकायः स्याद्रसोऽयं मकरध्वजः ॥ ६ ॥ वाजीकरो मनोदयरसः । शुद्धसूतं समं गन्धं रक्तोत्पलदलद्रवैः । यामं मर्द्यं पुनर्गन्धं सार्धं तत्र विनिक्षिपेत् ॥ ७ ॥ पूर्वद्रवैर्दिनं मर्द्यं रसार्धं गन्धकं पुनः । दत्त्वा तद्दिनं मर्द्यं काचकूप्यां निरोधयेत् ॥ ८ ॥ दिनैकं वालुकायन्त्रे पक्वमुद्धृत्य चूर्णयेत् । भूकूष्माण्डीकषायेण भावयेद्दिनसप्तकम् ॥ ९ ॥ १ 'यस्यां सिद्धौ शतमपि वनितास्तादृशास्तोषयन्ति' ख. । २ 'द्विदिनं' ख. ।